#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00364 Uniform title: āryamañjuśrīmūlakalpam Part 2 Editor : T. Gaṇapatiśāstrī Description: Trivandrum Sanskrit Series No. 76 Notes: Data-entered by the staff of Muktabodha under the direction of Mark S. G. Dyczkowski. Revision 0: Oct. 2, 2016 Publisher : Government Press Travancore Publication year : 1922 Publication city : Travancore Publication country : India #################################################### प्. २५३) || श्रीः || आर्यमञ्जुश्रीमूलकल्पम् | (द्वितीयो भागः |) अथ त्रयोविंशतितमः पटलविसरः | अथ खलु बगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीयकल्पविसरे शब्दगणनानिर्देशं नाम विवर्त्तनम् | शृणु साधु च सुष्ठु च मनसि कुरु | भाषिष्येऽहम् || एवमुक्ते भगवां मञ्जुश्रीः कुमारभूतो उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य त्रिः प्रदक्षिणीकृत्य भगवतश्चरणयोर्निपत्योत्थायैवमाह - तत् साधु भगवां निर्दिशतु | शब्दज्ञानगणनानिर्देशं नाम धर्मपर्यायं श्रुत्वा सर्वमन्त्रचर्यानुप्रविष्टानां सत्त्वानां च सर्वशब्दगणनाज्ञानं तद् भविष्यति सर्वसत्त्वानां सर्वमन्त्रचर्यानुप्रविष्टानां च हितोदयं सुखावहं सर्वशब्दगणनासमतिक्रमज्ञानं तद् भगवां अर्थकामो हितैषीं सर्वसत्त्वानामर्थे भाषयतु || अथ भगवां शाक्यमुनिर्मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् | साधु साधु मञ्जुश्रीः ! यस्त्वं तथागतमेतमेतमर्थं सत्त्वसत्त्वार्थसम्पदं प्रति प्रस्तितव्यं मन्यसे | तेन हि त्वा मञ्जुश्रीः ! शृणु निर्देक्ष्यामि || अथ खलु मञ्जुश्रीर्भगवता कृताभ्यनुज्ञातस्ततोत्थाय स्वे आसने निषण्णोऽभूद् धर्मश्रवणाय भगवन्तं व्यलोकयमानो || अथ भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनं बद्धचक्षुषामवलोक्य सर्वशब्दगणनासमतिक्रमास्पन्दना नाम समाधिं समापद्यते स्म | समनन्तरसमापन्नस्य भगवतः नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णादयो महारश्मिजालप्रभामण्डला निश्चचेरुः | निश्चर्य च समन्तात् सर्वसत्त्वानां सर्वलोकधातुं महतावभासेनावभास्य सर्वसत्त्वभवनानि प्. २५४) च सर्वनरकतिर्यक्प्रेतायामलौकिकां असुरभवनां अवभासयित्वा महादुःखवेदनां प्रतिप्रश्रुत्य पुनरेव भगवतः शाक्यमुनेः कायान्तर्द्धीयन्ते स्म || सर्वसत्त्वां सम्प्रबोध्य भगवानेवमाह - अथ शब्दविदं ज्ञानं बाध्यं धर्मार्थपूजितम् | गणनां चैव लोकज्ञो भाषिरे मधुरां गिराम् || बाध्यात् पदतो ज्ञेयं पदं बाध्यसुभूषितम् | धातुस्तेनातिविस्तारं प्रत्ययान्तं क्रियोद्भवम् || लिङ्गं शब्दत ज्ञेयं न लिङ्गं शब्दवर्जितम् | शब्दलिङ्गसमुद्भेदा नीत धर्मार्थयोः || नाना नेयं शब्द च ज्ञानं न शब्दं ज्ञानयोजितः | ज्ञानशब्दाच्च यो भावः स शब्दो तत्त्वार्थयोजनः || प्रत्यया हेतुता ज्ञेया प्रत्ययो हेतुमुद्भवः | प्रत्यये तु तदा हेतौ क्रियायोगविभाविनी || धारणा वा तदो ह्युक्ता आश्रयो प्रत्ययो विदा | धातुप्रत्यययोगेन शब्दो धर्मार्थयोजकः || न शब्दो अर्थतो ज्ञेयं न शब्दादर्थमिष्यते | अर्थप्रत्यययोगेन स शब्दो शब्दविधैर्विदाः || बहुधा धातवो प्रोक्ता प्रत्ययाश्च तदाश्रया | यं प्रतीत्य तदा शब्दा विभेजुस्ते वराश्रया || येन शब्दविदो विद्या मन्त्रा तत्त्वार्थभाषिता | न तां शब्दवदवगच्छेन्मन्त्राणां प्रत्ययैर्विना || नोत्पद्यन्ते तथा मन्त्रा विना प्रत्ययमाश्रया | न तां दिदृक्षु सर्वत्र मन्त्रां प्रत्ययतो शिवाम् || अर्थप्रत्ययतां शून्यां धातवैश्च विवर्जिताम् | न तां विद्धि संयोगं लिङ्गवाक्यार्थसम्मतम् || ५, प्. २५५) न लिङ्गे गति निर्दिष्टा हेतुप्रत्ययधातुजा | तथाश्वयोजिता सिद्धिर्लिङ्गो धर्मार्थयोजिता || गतिदेशक्रियानिष्ठं पदं वाक्यमतःपरम् | चित्रत्वमतिवा शब्दे यो वाचमवसृजेत् सदा || न शब्दादर्थनिष्पत्तिर्लिङ्गेष्वेव तु योजिता | मूर्द्धजं कथितं शब्दं हुङ्कारार्थभूषितम् || सर्वं प्रत्ययदाश्रित्य आश्रयं च विनाश्रये | ताल्वोष्ठपुटो वाक्य आश्रयोद्भावने परे || शमिनादाश्रयते ज्ञेयं युक्तिरव्यभिचारिणी | मतिस्तत्त्व तथा धातो विस्तारामर्थभूषिता || धातुः करोति संयोगं प्रत्ययार्थात्तु लिङ्गितः | दान्त्यं तालवश्चैव ओष्ठं शाब्दमतःपरम् || ऋजिक्षु सर्वतो लोकां विसर्गां धातुचेष्टिताम् | गतिमन्त्रप्रभावेन आश्रयान्तां निबोधताम् || गतिमेव सदा मन्त्रा धातुप्रत्ययजा मता | उभौ तां शब्दनिःपत्तिं प्रत्यमादाश्रयः स्मृतः || विभज्य बहुधा मन्त्रां सद्भावागमनिश्रियाम् | विभक्तियोनिजा ह्येषा शब्दा मन्त्राश्च सर्वतः || ज्ञेया विभजत्यर्थे पूजितास्तथा | एकद्विकसमायोगात् त्रिकसङ्ख्यार्थसप्तमम् | असङ्ख्यादष्टाधिका ज्ञेया मानुषाणां निबोधिता || आधारं ज्ञेयमित्याहुर्मन्त्रतन्त्रार्थपूजने | सप्तमे विधिनिर्दिष्टा मन्त्रसिद्धिषु जापिनाम् || सप्तमर्थार्थतो ज्ञेया सप्तमस्य क्रमो यथा | विविधं क्रमनिर्देशं सप्तम्यर्थेषु योजयेत् || मन्त्राणां षष्ठयो ख्याता समूहावयवास्तथा | सम्बन्धाद्धि मन्त्राणां लिङ्गे द्वे नियोजिता || ६, प्. २५६) विकारं बहुधास्तस्य षट्प्रकारं निगद्यते | स्त्रीषु सलिङ्गिनी षष्ठ्या अष्टमन्त्रेषु योजयेत् || पञ्चप्रकारा ये मन्त्रा पञ्चमर्थार्थयत्नता | नपुंसकलिङ्गमन्त्रार्थो उक्तो धर्मार्थवर्जिता || ये तत्र निसृता मन्त्रा अपादानार्थयोजिता | सर्वेप्राणहराः स्मृताः | मूर्ध्नशब्दसमायोगान्निःसृता ओष्ठदन्तयोः || जिह्वा निष्पीडिता येऽत्र शब्दप्राणापरोधिका | समप्रत्ययशान्ता ते शमिधातुसयोजिता || प्रपन्नासकरान्तानां अस्त्ययनेत्र योजयेत् | पुष्ट्यार्था धातवो ये तु शब्दाः प्रत्ययार्थसुशोभिता || तां विदुः पुष्टिकर्मेषु अपादानेषु योजिताः | विभज्य यं स्थानं येऽन्ये परिकीर्त्तिताः || शब्दाक्षरविपुष्टा ते धातु विकसते स्फुटा | पुंस्कलिङ्गा तथा मन्त्रा महाप्रभावर्थयोजिता || चतुर्थसंविभक्तिभ्यामक्षरं मात्रभूषितम् | पवर्गे कथितं ह्यग्र प्रवरं सर्वकार्मकम् || रेफप्रत्ययसमोद्भूतं उकारावथ शोभनम् | मध्यचिह्नं विसर्गं च भकारं गतिभूषितम् || विदुः प्रवरं शब्दं सर्वकर्मार्थसाधनम् | नियतं नैष्ठिके वर्त्म बोधिसत्त्वे नियोजिते || अनुत्तरं शब्दमित्याहुः महाबोधिपथं पथम् | यं जपं मानुषो क्षिप्रं सर्वमन्त्रा प्रसाधयेत् || पञ्चमार्थमतः प्रोक्तो अक्षरमेकचिह्नितम् | अन्तजं पवर्गेममकारान्तं विदुः सदा || द्वितीयं लोकमुख्यं तु शब्दमित्याहु मानवा | न तु शब्दसमायोगा निःसर्गान्तविभूषितम् || ७, प्. २५७) जज्ञे या प्रवरो मन्त्रो उत्कृष्टो शब्दयोनिजो | बुद्धो लोकगुरुः श्रेष्ठः छत्रोष्णीषेति लक्ष्यते || अन्ते तकारवर्गे तु कथिता लोकगुरो त्रिकम् | मन्त्रा सर्वतः ह्यग्र्ये सशब्दो लोकपूजितो || अकारान्तं विभक्तार्थं विसर्गन्तं विबोधितम् | मध्यलिं * (?) सशब्दान्तं अन्तं शब्दविभूषितम् || तं विदुः शब्दमुत्कृष्टं मन्त्रं देवपूजितम् | पञ्चमार्थे नियुक्ता ये सङ्ख्ये गणनोद्भवे || विभक्तपञ्चमे ह्येते विभक्त्यार्थसुपञ्चमा | अनन्ता कथिता मन्त्रा अनन्ता जिनभाषिता || मन्त्रा उष्णीषा जिनमूर्द्धजा | अनन्ता शब्दविदो ज्ञेया शब्दाः सर्वार्थसम्पदाः | चतुःषष्टिपरोपेतं मन्त्रं शब्दयोजितम् || स शब्दा सर्वतः श्रेष्ठो पवर्गे यः चतुरं पदम् | चतुर्मकारसंयोगाः अन्ते निःप्रयोजिता || सशब्दा मन्त्रमुख्यास्तु छत्रसंज्ञार्थसाधका | चतुर्थगणना प्रोक्ता विभक्तिः शब्दयोनिजाः || सम्प्रदानार्थमन्त्राणां द्विलिङ्गादाश्रयतां गताः | कथिता अब्जिने मन्त्रा पुष्ट्यमर्थार्थसम्पदा || चतुर्थ कथिता मन्त्रा चतुःप्रकारा नियोजिता | चतुरक्षरशब्दानां मूर्धमूष्माथ तालवम् || कथितं शब्दनिर्देशे तृतीये सम्प्रयोजयेत् | विकासार्थं स्फुटधातूनां प्रत्यये लिङ्गेऽथ योजयेत् || प्रथमे अन्ते च यः शब्दो स शब्दो लोकपूजितो | वरो मन्त्रो प्रधानाख्यो सन्नियोजितो || स शब्दो पुष्टिनो ह्युक्तो अब्दकेतुसमुद्भवो | त्रान्तो त्रिकसमायोगो मध्यान्तोऽतिवर्णितो || ८, प्. २५८) स शब्दो लोकमुख्योऽसौ प्रवरो अर्थतो सदा | धात्वोपेतं सदाकालं समार्थे तं प्रयोजयेत् || उषसमे च तदा वव्रे धातुं तां निबोधताम् | मधुराक्षरसम्पन्नो उत्वं तां पुंसि योजिताम् || स शब्दो लोकमग्रोऽसौ व्रवरो मन्त्रमुच्यते | चतुष्ट्यां तमक्षरं वर्ज्ये द्वितीयाया परिकीर्तिता || स ज्ञेयो शान्तिकाम्यार्थं प्रवरो बुद्धभाषितो | तृतीयो ओष्ठपुटोष्माणं प्रत्ययार्थान्तवर्जितम् || पुष्टिलिङ्गे सदा युक्तो भूधातो न्तयोजितो | ऊर्ध्वचिह्नं तथो भ्रान्तं स मन्त्रो बुद्धभाषितो || तृतीये विभक्तिमासृत्य योऽर्थो भूतिसशब्दयोः | आद्या वर्णतो ग्राह्याग्रा शान्तिका पौष्टिकोदया || द्वितीयं कर्मणि प्रोक्तं तृतीया करणे स्तथा | उभयो विभक्तयो ज्ञेयं सशब्दो मन्त्रराट् स्मृतः || प्रथमं कर्ममित्याहुः कर्ता यः स्वतन्त्रयोः | जिनाब्जकुलिशे मन्त्रे मन्त्रनाथा हितास्तथा || हिते विभक्त्यन्ता सर्वतो ज्ञेया प्रत्ययान्ताश्च धातुजा || सलिङ्गमर्थतो ज्ञेयं वाक्यात् पदयोद्भवेत् | मन्त्राः कथितमुख्यास्तु विभोः जिनजा सुराः || जिनाब्जकुलयोर्मन्त्रा वज्रिणे लौकिकास्तथा | मर्थवतः धातुं परिगृह्णाति सङ्क्रमाम् || उदात्तानुदात्ताश्चैव सूचिता ज्ञेयार्थसाधना | मन्त्रा लिङ्गगतान्ता च मध्ये हुत्वा तथोद्यताः || अनादिनिधनं छब्दं तन्मन्त्रांश्च योजयेत् | निवान्ता कलमन्ताश्च रेफयुक्ताश्च विस्तरा | बाध्यार्थपदयोर्मध्ये यो लिङ्गच्छविच्छ्रुतम् || ९, प्. २५९) तं लिङ्गं स्वरितोपेतं क्षिप्रं मन्त्रेषु योजयेत् | पूर्वानुपदयो कालक्रियाशक्तिषु युज्यते || पदयोर्मध्यनिःष्पत्तिः योऽर्थो स शब्दविश्रुतः | तस्मात् तं परिज्ञेयार्थं सुरूपं रूपर्णितम् || फलार्थे निष्पदश्रेयं स मन्त्रो बुद्धभाषितः | अभावस्वभावतो कालं स्वभावतश्च परिकीर्त्यते || तयोर्निजरयं शान्तं पदधर्मार्थभूषितम् | वाक्यं परतो श्रेयं शान्तमर्थाक्षरं शुभम् || यं ज्ञेयो मन्त्रिभिर्मन्त्रा प्रशस्ता बुद्धभाषिता | इतिमेकाक्षरं ब्रह्मं ओं शब्दार्थभूषितम् || ज्ञेया रूपिणः शुभ्रो प्रशस्तो मङ्गलावहो | कल्याणार्थकरो ह्युक्तो प्रशस्तो मङ्गलान्वितो || उक्तो लोकनाथैस्तु स मन्त्रो मुख्यतो स्मृतो | विविधार्थाश्च शब्दमुख्याश्च मुख्यशब्दा परेस्तथा || स शब्दो धर्मिणः श्रेयो क्रियाकालक्रमोदिता | आदित्यवंशात् ते मन्त्रा दीप्तिशब्दार्थभूषिताः || ज्वलन्ते पावके मन्त्रा सौम्यासौम्याख्ययोजिताः | सुरूपा सौम्यचित्ताश्च नक्षत्राभिधार्मिणो सदा || चन्द्रेऽस्मिं उदिता मन्त्राः शब्दैश्चन्द्राक्षरोदितैः | शुचयो निर्मला प्रोक्ता अक्षरा एकजा परा || अमात्रसहविख्याता चारुवर्णा महर्द्धिका | मन्त्रा अग्रवरा प्रोक्ता उष्णीषा जिनसूनुभिः || विविधाकारयोगास्तु योगतुष्टिरिव स्थिता | प्रसन्ना शुचयो नित्यं प्रत्येकार्हथभाषिता || प्रत्येकबुद्धयोर्मन्त्र प्रशस्तो शान्तिकर्मणे | स्वाहावसानयोर्मन्त्रा ओङ्कारार्थपुजितः || १०, प्. २६०) एकद्विकसंज्ञा सो स मन्त्रो सर्वकर्मसु | श्रेयसैव सदा योज्या प्रत्येकजिनमुद्भवो || नन्तः सहितो ज्ञेयः पूर्वदाश्चान्तमध्यमम् | बहुलिङ्गिनो मन्त्रा बहुमन्त्रार्थमक्षरा || बहुधा धातवो ह्येते * * (?) षान्ता निबोधिता | मन्त्रां तां तु वै सिद्धिः तवर्गे मादिमक्षरम् || रेफान्तं आदितः ताडयेन्मन्त्राब्जसम्भवाः | तारय दुःखितां सत्त्वां करुणैषमावलोकिते || सा वै तारमुख्या तु अनन्ता मन्त्रा हि वै तुरे | त्वर्याच्छब्दयोर्मध्ये पवर्ग मामकी स्मृता || पवर्गे देवं विख्याता कुलमातार्थसाधनी | सितचिह्ना प्रसिद्धार्थे देवी षण्डरवासिनी || तारा तु कथितं पूर्वं रक्षोऽर्थे तां प्रयोजयेत् | लकारबहुलो योधर्गच्छब्दान्तं ते त्रयोद्भवम् || जिनाङ्गमसृजं शब्दं देवी लोचनमुच्यते | शब्दमर्थाक्षरं सिद्धिः सर्वमन्त्रेषु योजयेत् || कुलमात्राप्रसिद्धेयं जिनवज्राब्जसर्वतः | सर्वमन्त्रेषु प्रयोक्तव्या पूर्वमादित शान्तये || लोचना भुवि विख्याता मन्त्राग्रा तत्र साधनी | यतः सर्वमिति ज्ञेयं आदिमन्त्रेषु योजयेत् || प्रसिद्ध्यर्थं च मन्त्राणां आत्मरक्षार्थकारणम् | सप्रसिद्धा सर्वतो ज्ञेया देवीं तं जिनलोचनाम् || अनेकाकाररूपास्तु मन्त्रा स शब्दते सदा | आदिमध्येषु वर्णेषु चतुषष्ट्याक्षरेषु च || सर्वत्र सर्ववर्णेषु मन्त्रां तन्त्रांश्च योजयेत् | आदिमेषु च सर्वत्र तवर्गा तच्च वर्णयोः || ११, प्. २६१) सर्वे शान्तिनः प्रोक्तानां त्रिधा प्रयोजयेत् | तकारात् प्रकृतिवर्णेषु लकारान्ता सर्वयोनिजा || ते मय पौष्टिका वर्णा तदन्ये चाभिचारुकाः | ते पुनः त्रिविधा ज्ञेया क्रूरशान्तिकपौष्टिकाः || तथा ते त्रिःप्रकारास्तु तथा ह्युक्ता त्रिधा त्रिधा | योगसमायामा अनन्ता ते पुनस्त्रिधा || सौम्यां अक्षरां विद्धि शान्तये तं वियोजयेत् | वरदा ह्यक्षरा केचिन्मध्यमा पुष्टिहेतुका || रौद्रां पापकरां ज्ञेयां हकारान्तामक्षरां पराम् | एवमेतत् प्रयोगेण शब्दैश्चापि सुभूषिताम् || अनन्तां ह्यक्षरां विद्धि अनन्ता मन्त्रदेवताः | एवमेतेन योगेन अनन्तां मन्त्रांश्च योजयेत् || तं विदुर्मन्त्रराजानं पुंस्कं सर्वार्थसाधकम् | एकारसहितो यो वर्णः स शब्दो मन्त्रभूषितः || नपुंसकं तं विदुर्मन्त्रं मध्यकर्मेषु योजयेत् | इकारसहितो यो वर्णः स मन्त्रो विद्यते कीर्त्यते || सा स्त्रीतरे मन्त्रेषु प्रसिद्धा क्षुद्रकर्मसु | ते त्रिधा पुनः सर्वेऽत्र नानाशब्दविभूषिताः || त्रिधां तां त्रिविधां सर्वां सर्वकर्मेषु योजयेत् | पुल्लिङ्गसंज्ञो यो वाक्यो पुरुषोऽर्थो सर्वतो मतः || तं विदुः पुरुषमन्त्रं वै सर्वकर्मेषु योजयेत् | नपुंसकलिङ्गे यो मन्त्रः तां विद्धि नपुंसकम् || कुर्यात् सर्वकर्मेषु सर्वसौख्यसुखोदयम् | स्त्रीलिङ्गसंज्ञो यो मन्त्रः तां विद्धि सदा स्त्रियम् || सर्वकर्मकरा तेऽपि नित्यं रक्षेषु योजयेत् | अनन्तकर्मकरा मन्त्रा अनन्तार्था शब्दयोनयः || १२, प्. २६२) विविधा शब्दमुख्यास्तु नानातन्त्रमन्त्रयुताम् | तथैवाचरे क्षिप्रं मन्त्रा सिद्ध्यन्त्ययत्नतः || कथितं शब्दविज्ञानं सर्वमन्त्रार्थसाधनम् | * * * * * (?) गणनं कीर्त्यते बुधैः || जापिनां हितकाम्यार्थं तां तु विद्धि दिवौकसाः | एतद्विकसमायोगा * (?) यावच्छतमुच्यते || दशगुणं पञ्चकां विंशत् सहस्रं तं निबोधताम् | दशसाहस्रिको सङ्ख्य अयुतेति परिकीर्त्यते || दशायुतास्तथा नित्यं प्रयुतं लक्षमुच्यते | लक्षसाहस्रिको कोटिः स्थानार्बुदं स्मृतम् || दशार्बुदो निर्बुदो ज्ञेयः समुद्रं च ततः परे | दशोऽन्यत् सागरो ज्ञेयस्ता दशार्थे समुद्यतः || अक्षोभ्यं परे विन्द्यान्निःक्षोभ्यं च ततः परे | देवराट् सर्वे विवाहं कीर्त्यते बुधैः || अधिका दश तरे तस्य खड्गमित्याहु वाणिजाः | निखड्गं तद् विदुर्मन्त्री निखड्गं चापि खड्गिनम् || ततः परेण शङ्खं वै सङ्ख्या तस्य परेण तु | सा मया गणिते ज्ञेया महामायनिपश्चिमा || असङ्ख्या या विदुर्मर्त्या ततोऽन्ये देवयोनिजाम् | दशार्धगुणिता सर्वे सार्धा च दशयोजिताः || ततः परेण शक्यं वै अशक्यं चापि दुर्जयम् | अर्चितोपचितः स्थाने दृष्टिस्थानं विदुर्बुधाः || ततो कृष्टिनिकृष्टिश्च अनन्तानन्तयोनिजा | ततः परेण बुद्धानां ज्ञानं श्रावकखड्गिनाम् || बुद्धपुत्र महात्मानो येऽपि तत्त्वविदो सुराः | अनन्ता गतयो ह्येषां गणनं स्थानमुत्तमम् || १३, प्. २६३) अनन्तज्ञानिनां स्थानं नात्र भूतलवासिनाम् | कथितं गणिते स्थानं गणितज्ञैस्तु मन्त्रिभिः || मन्त्रसिद्ध्यर्थयुक्तानां जपकाले नियोजनाम् | प्रमाणं गणिते ज्ञेयं मन्त्रजापार्थकारणा || सङ्ख्याग्रहणप्रमाणं वा विधियुक्तोऽर्थजापिनाम् | असिद्धा प्रविशे विन्ध्यं सिद्धमन्त्रो व्रजे हितम् || तथा हैमवतं शैलं सिद्धमन्त्रो व्रजेत् सदा | यथेष्टं गमनं तस्य सिद्धमन्त्रस्य देहिनः || असिद्धो हिमालयं गच्छेद् यदि मन्त्री जापकारणात् | न सेहुः दुःसहं सैन्यं सर्वद्वन्द्वां च शीतलाम् || स्वल्पप्राणा स्वल्पप्रयोगाच्च मूल्यसिद्धिः समोदिता | बहुपुष्पफलोपेतं विन्ध्यकुक्षिनितम्बयोः || भेजे मन्त्रसुजप्तर्थं तस्मात् विन्ध्यं तु भूधरम् | पूर्वसेवेत्सदा विन्ध्यो निर्दिष्टो जपकारणात् || तस्मात् सिद्धिं विजानीयाद् विन्ध्याद्रेर्गिरिगह्वरे | गङ्गादक्षिणतो भागे सर्वं विन्ध्ये प्रयोजयेत् || उत्तरतो भागे हिमवन्तं विनिर्दिशेत् | तस्मात् साधयेन्मन्त्रां यथेष्टशुचयोदिताम् || सिद्धो हिमवां गच्छे सिद्धो विन्ध्यनितम्बयोः | गिरिगह्वरकूलेषु गुहावसथमन्दिरे || तटे सरित्पतेर्नित्यं सति कूलेषु वा | सर्वत्र साधयेन्मन्त्रां यथा तुष्टिकरं हितमिति || महायानवैपुल्यसूत्राद् बोधिसत्त्वपिटकावतंसकादार्यमञ्जुश्रियमूलकल्पात् एकविंशतितमः शब्दज्ञानगणनानामनिर्देशपरिवर्तपटलविसरः परिसमाप्त इति | १४, प्. २६४) अथ चतुर्विंशतितमः पटलविसरः | अथ भगवां शाक्यमुनिः सर्वनक्षत्रग्रहतारकज्योतिषां सर्वलोकधातुपर्यापन्नानां सर्वदिग्व्यवस्थितां सर्वमहर्द्धिकोत्कृष्टतरां ग्रहणामन्त्रयते स्म | शृण्वन्तु भवन्तः मार्षाः ! सर्वग्रहनक्षत्रप्रभावस्ववाक्यं प्रभावं निर्देशयितुं भवन्तः सर्वमन्त्रक्रियार्थां साधयन्तु भवन्तः | इह कल्पराजे मञ्जुघोषस्य शासने सिद्धिं परतश्चान्यां कल्पराजांसि औत्सुक्यमाना भवन्तु भवन्त इति || अथ भगवां शाक्यमुनिः ग्रहाणां चरितं सर्वं सत्त्वार्थं वहेकार्थम् | सर्वजापिनां मन्त्रार्थं च प्रसाधितम् || * * * * * * * * (?) वक्ष्ये सर्वं स सर्ववित् | अश्विन्या भरण्या कृत्तिका || नक्षत्रा त्रिविधा ह्येते अङ्गारग्रहचिह्निता | मेषराशिप्रकथ्येते तेषु सिद्धिर्न जायते || उत्तमा मध्यमाश्चैव कन्यसा सिद्धि दृश्यते | न गच्छेत् सर्वपत्थानां क्रूरग्रहनिवारितः || रोहिणी मृगशिरश्चैव आर्द्रं नक्षत्रमुच्यते | पुनर्वसुपुष्यनक्षत्रौ अश्लेषश्च प्रकीर्तितः || मघाफल्गुन्यौ उभौ चापि हस्तचित्रौ तथैव च | स्वात्यविशाखमनुराधज्येष्ठमूलस्तथैव च || आषाढौ तौ शुभप्रशस्तौ जापिनां हितौ | श्रवणधनिष्ठनक्षत्रौ क्रूरकर्मणि || शतभिषभद्रपदौ उभौ नक्षत्रौ सिद्धिहेतवः | रेवत्या जायते श्रीमान् युद्धशौण्डो विशारदः || शेषा नक्षत्रमुख्यास्तु न जायन्ते युगाधमे | अभिजित् सुचरितश्चैव सिद्धिपुण्या प्रकीर्तिता || तिष्य उपपदश्चैव कनिष्ठो निष्ठ एव तु | भूतः सत्यस्तथां लोक आलोकश्च प्रकीर्त्यते || १५, प्. २६५) भोगदः शुभदश्चैव अनिरुद्धो रुद्ध एव तु | यशोदस्तेजराड् राजा लोकस्तथैव च || नक्षत्रा बहुधा प्रोक्ता चतुःषष्टिसहस्रकाः | न एतेषां प्रभावोऽयमस्मिन् काले युगाधमे || कथिता केवलं ज्ञाने कल्पराजे सुखोदये | स्वयम्भुप्रभावास्तु सत्त्वा वै तस्मिन् काले कृतौ युगे || आकाशगामिनः सर्वे जरामृत्युविवर्जिता | अस्मिन् काले न नक्षत्रा नार्कचन्द्रा न तारका || न देवता नासुरा लोके आदौ काले युगोत्तमे | न संज्ञा नापि गोत्रं वै न तिथिर्न च जातकम् || नोपवासो न मन्त्रा वै न च कर्म शुभाशुभम् | स्वच्छन्दा विचरन्त्येते न भोज्यं नापि भोजनम् || शुद्धा निरामया ह्येते सत्त्वा बहुधा समा | लोकभाजनसंज्ञा वै ग्रस्यायां प्रवर्तते || ततस्ते पूर्वेण कर्मेण आकृष्टा यान्ति भूतलम् | भूमौ विमानदिव्यसंस्थां ससुरासुरः || सम्भवं ततो मध्यमे * * * * * * * * (?) | मध्यमे तु युगे प्रपते मानुष्यं तनुमाश्रिताः || आहारपानलुब्धानां सा प्रभा प्रणाशिता | गात्रे खखटत्वं वै शुभाशुभविचेष्टितम् || ततो दिवसमासा वै संवृता वै ग्रहज्योत्स्नया | ततः प्रभृति यत् किञ्चित् ज्योतिषां ज्ञानमेव वा || मया हि तत् कृतं सर्वं सत्वानामनुग्रहक्षमा | ऋषिभिर्वेषः पुरा ह्यासीत् ब्रह्मवेषोऽथ धीमतः || महेश्वरं तनुमाश्रित्य विष्णुवेषोऽथवा पुनः | गारुडीं तनुमाभुज्य यक्षराक्षसवारिणाम् || १६, प्. २६६) पैशाचीं तनु एवं स्याज्जातो जातो वदाम्यहम् | कुशला बोधिसत्त्वास्तु तासु तासु च जातिषु || उपपत्तिवशान्नित्यं बोधिचर्यार्थकारणात् | बोधिसत्त्वः पुरासीदहमेव तदा युगे || अज्ञानतमसा वृतो बलिशोऽहं पुरा ह्यसौ | यावन्ति केचिल्लोकेऽस्मिन् विज्ञाना शिल्पचेष्टिता || शास्त्रे नीतिपुराणां च वेदव्याकरणं तथा | छन्दं च ज्योतिषश्चैव गणितं कल्पसम्मतम् || मिथ्याज्ञानं तथा ज्ञानं मिथ्याचारं तथैव च | सर्वशास्त्रं तथा लोके पुरा गीतं मया चिरा || न च ज्ञानं मया लब्धं यथा शान्तो मुनी ह्ययम् | बोधिकारणमुक्त्यर्थं मोक्षहेतोस्तथैव च || संसारचारके रुद्धो न च मुक्तोऽस्मि कर्मभिः | बुद्धत्वं विरजं शान्तं निर्वाणं यच्युतं पदम् || सम्यक्ष लब्धो मे चिरकालाभिलाषितम् | प्राप्तोऽस्मि विधिना कर्मैः युक्तिमन्तोऽधुना स्वयम् || प्राप्तः स्वायम्भुवं ज्ञानं जिनैः पूर्वदर्शितम् | न तं पश्यामि तं स्थानं बहिर्मार्गेण लभ्यते || भ्रान्तः संसारकान्तारे बोधिकारणदुर्लभाम् | न च प्राप्तो मया ज्ञानं यादृशोऽयं स्वयम्भुवः || अधुना प्राप्तोऽस्मि निर्वाणं कर्मयुक्ता शुभे रतः | केवलं तु मया ह्येतद् वक्ष्यते शास्त्रसङ्ग्रहः || न च कर्मविनिर्मुक्तं लभ्यते सिद्धिहेतवः | दीर्घः संसारसूत्रोऽयं कर्मबद्धो निबन्धनः || तस्यैतद् भूतिमाहात्म्यं पच्यते च शुभाशुभम् | केवलं सूच्यन्त्येते नक्षत्रग्रहज्योतिषाम् || १७, प्. २६७) नान्येषां दृश्यते चिह्नमधर्मिष्ठा मनुजां तथा | अत एव ग्रहाद्युक्ता सानुग्राह्या शुभाशुभे || चत्वारो लोकपालास्तु आपो भूम्यनिलज्योतिषखद्योतिभूताः प्रकीर्त्तिताः | इत्येते च महाभूता भूतसङ्ग्रहकारणा || प्रचोदितास्तु मन्त्रे वै सत्त्वसङ्ग्रहकारणात् | तेषां कालनियमाच्च मन्त्रसिद्धिरजायते || तेषु जापिषु यत्ने वै रक्षणीया शुभाशुभैः | प्रकृष्टो लोकमुख्यैस्तु शक्राद्याश्च सुरेश्वराः || तेऽपि तस्मिन् तदा काले युगान्ते परिकल्पिता | मन्त्रा सिद्धिं प्रयत्नेन सिद्ध्यन्ते च युगाधमे || अत एव हि जिनेन्द्रैस्तु कुमारपरिकल्पितः | मञ्जुघोषो महाप्राज्ञः बालदारकरूपिणः || भ्रमते सर्वलोकेऽस्मिन् सत्त्वानुग्रहतत्क्षमः | तस्मिन् काले तदा सिद्धिर्मञ्जुघोषस्य दृश्यते || नक्षत्रं ज्योतिषज्ञानं तस्मिन् काले भविष्यति | सप्ताविंशतिनक्षत्रा मुहूर्ताश्च प्रकीर्तिता || राशयो द्वादशश्चैव तस्मिन् काले युगाधमे | ते ग्रहा संविभाज्यं वै नक्षत्राणां राशिमाश्रिता || पृथुभूतानि सर्वाणि संश्रयन्ति पृथक् पृथक् | जातकं चरितं चैव सत्त्वा राशे प्रतिष्ठिता || मोहजा विपरीतास्तु शुभाशुभफलोदया | अत एव कर्मवादिन्यो राशयस्ते मुहुर्मुहुः || सत्त्वानां सिद्दियात्रं तु कल्पयन्ति शुभाशुभम् | जातकेषु तु नक्षत्रो रोहिण्यां परिकल्पितः || श्रीमां क्षान्तिसम्पन्नः बहुपुत्रः चिरायुषः | अर्थभागी तथा नित्यं सेनापत्यं करोति सः || १८, प्. २६८) वृषराशिर्भवेदेष वृषे च परिमर्दते | मृगशिरे चैव लोकज्ञः धार्मिकः प्रियदर्शनः || कृत्तिकांशे तथा नित्यं राजा दृश्यति मेदिनीम् | त्रिसमुद्राधिपतिर्नित्यं व्यक्तजातकमाशृते || प्रादेशिकेऽथ दुर्गे वा एकदेशे नृपो भवेत् | यदि जातकसम्पन्नः ग्रहे च गुरुचिह्निते || समन्ताद् वसुधां कृत्स्नां अनुभोक्ता भविष्यति | दश वर्षाणि पञ्च वै तस्य तस्य राज्यं विधीयते || अश्विन्या भरणी चैव कृत्तिकांशं विधीयते | एष राशिसमर्थो वै वणिज्यार्थार्थसम्मदा || यदि जातकसम्पन्नः ऐश्वर्यभोगसम्पदम् | जातकं अस्य नक्षत्रे रक्ते भास्करमण्डले || अस्तं गते यथानित्यं विकृतिस्तस्य जायते | क्रूरः साहसिकश्चैवासत्यलापी च जायते || तनुत्वचोऽथ रक्ताभो दृश्यतेऽसौ महीतले | अस्य जातिक्षणान्मेषनिमिषं च प्रकीर्त्तितम् || अत्रान्तरे च यो जातस्तस्यैते गुणविस्तराः | अच्छटापदमात्रं तु जातिरेषां प्रकीर्त्तिता || अतो जातितो भ्रष्टा ग्रहाणां दृष्टिवर्जिता | जायन्ते विविधा सत्त्वा व्यतिमिश्रे प्रजातके || व्यतिमिश्रा गतिनिष्पत्तिर्व्यतिमिश्रा भोगसम्पदा | अत एव न जायन्ते जातिकेष्वेव वर्णितैः || जातका कथिता त्रिंशत् शुभाशुभफलोदया | क्रूरजातिर्भवे ह्येषां अङ्गारग्रहचिह्निता || महोदरोऽथ स्निग्धाभो विशालाक्षः प्रियंवदः | जायते नित्यं धृतिमां बृहस्पतेग्रहमीक्षिते || १९, प्. २६९) युगमात्रे तथा भानौ उदितौ चन्द्रार्कदेवतौ | अहोरात्रे तथा नित्यं सम्यग् जातकमिष्यते || विपरीतैर्जातकैरन्यैर्विपरीतास्तु प्रकल्पिता | ग्रहदर्शनसिद्ध्यन्तु मिथ्याजातिशुभाशुभे || मिथ्याफलनिःष्पत्तिः सम्यग् ज्ञानशुभोदयः | गतियोनि समाशृत्य क्षेत्रे जातिप्रतिष्ठिताः || अवदातो महासत्त्वो भार्गवैर्ग्रहचिह्निते | आर्द्रः पुनर्वसुश्चैव आश्लेषस्यांश उच्यते || एष जातो महात्यागी शठः साहसिको नरः | स्त्रीषु सङ्गी सदा लुब्धो अर्थानर्थसविद्विषः || परदाराभिगामी स्यात् कृष्णाभः श्याम एव वा | वर्णतो जायते धूम्रो उग्रो वै मैथुनप्रियः || मैथुनं राशिमाश्रित्य जायतेऽसौ शनीश्वरी | शनिश्चरति तत्रस्था दिवा रात्रौ मुहुर्महुः || एष जातकमध्याह्ने प्रभावोद्भवमानसः | तस्मिन् कालेति यो जातस्तत्प्रमाणमुदाहृतम् || स भवे धननिष्पत्तिः ऐश्वर्य भुवि चिह्नितम् | पुष्ये तथैव नक्षत्रे आश्लेषे च विधीयते || एतत् कटको राशिः गुरुयुक्तो महर्द्धिकः | पीतको वर्णतो ह्यग्रो जातकः सम्प्रकीर्तितः || अर्द्धरात्रे तथा नित्यं जातकोऽयमुदाहृतः | तत्कालं तु प्रमाणेन यदि जातः सत्त्वमिष्यते || सर्वार्थसाधको ह्येष विधिदृष्टेन हेतुना | राज्यधननिष्पत्तिः आबाल्याद्धि करोति सः || पीताभासोऽथ श्यामो वा दृश्यते वर्णपुष्कलः | शौचाचाररतः श्रीमां जायतेऽसौ विशारदः || २०, प्. २७०) मघः फल्गुनीश्चैव सांशमुत्तरफल्गुनी | भास्करः स भवेत् क्षेत्रः सिंहो राशिर्विधीयते || तत्र जाता महाशूरा मांसतत्परभोजना | गिरिदुर्ग समाश्रित्य राज्यैश्वर्यं करोति वै || यदि जातकसम्पन्नः क्षेत्रस्था नियताश्रिता | उद्यन्ते तथा भानौ जातक एषु कीर्त्यते || उत्तरा फल्गुनी संशा हस्तचित्रा तथैव च | नक्षत्रेषु च जातस्थो शूरश्चौरो भवेन्नरः || असंयमी परदारेषु सेनापत्यं करोति सः | यदि जातकसम्पन्नः नियतं राज्यकारणम् || कन्याराशिर्भवे ह्येषा यत्रैते तारका सृता | उभौ भवेदेषां स्वामी स्यादन्यो वात्र क्वचित् पुनः || एतेषां तारका श्रेष्ठा ग्रहो रक्षति दारुणः | सौम्यो वा पुनर्भद्रश्च प्रमुद्रः सदा पति || मध्याह्नापूरणाज्जातिः जातकं एषु दृश्यते | चित्रांशं स्वातिनश्चैव विशाखास्यार्द्धसाधिकम् || तुलाराशिः प्रकृष्टार्थसोमश्चरति देहिनाम् | एतदारुणं क्षेत्रं शनिर्भार्गवनालयम् || जातकं ह्येषु जातस्थः प्रहरान्ते निशासु वै | एषु जाता भवेन्मर्त्या बहुपानरताः सदा || अप्रगल्भा तथा ह्रीशा महासम्मतपूजिता | क्वचिद् राज्यं क्वचिद् भोगा. प्राप्नुवन्ति क्वचिद् ध्रुवम् || अनियता जातके दृष्टा मात्रा बाल्यविवर्जिता | यदि जातकसम्पन्ना बह्वपत्या सुखोदयाः || अनुराध दृष्टनक्षत्रे प्रकृष्टः कर्मसाधनम् | मैत्रात्मको बहुमित्रः शूरः साहसिकः सदा || २१, प्. २७१) ज्येष्ठा कथितं लोके जातः प्रचण्डो हि मानवः | बहुदुःखो सहिष्णुश्च क्रूरो जायति मानवः || वृश्चिकां राशिमित्याहुः तीक्ष्णः साहसिकः सदा | एतेष्वेव सदा जाति जातकं च उदाहृतम् || मध्यन्दिने तथादित्ये यदि जन्तुः प्रजायते | तीव्रो विजितसङ्ग्रामः राजासौ भवते ध्रुवम् || बालदारकरूपास्तु ग्रहोमीक्षति तत्क्षणम् | योऽसावङ्गारकः प्रोक्तः पृथिवीदेवताशुभः || अत एव पृथिवीं भुङ्क्ते स्वसुतश्चैव पालिता | ततोऽन्यो विपरीतास्तु जाति एव शुभाशुभा || दीर्घायुषोऽथ तेजस्वी मनस्वी चैव जायते | जायतो ह्यनुराधायां महाप्राज्ञो मित्रवत्सलः || एतदङ्गारकक्षेत्रं व्यतिमिश्रैः ग्रहैः सदा | मूलनक्षत्रसञ्जातः पूर्वाषाढास्तथैव च || आषाढे उत्तरे अंशे धनूराशिः प्रकीर्तिता | एतद् बृहस्पतेः क्षेत्रं जातकं तस्य जायते || अपराह्ने तथा सूर्ये शशिने वापि निशासु वै | तस्य जातकमित्याहुः यो जातो राज्यहेतवः || स्वकुलं नाशयेन्मूले यत्ने शोभनमुच्यते | मध्यजन्मस्थितो भोगान् प्राप्नुयात् स न संशयः || अतिक्रान्ते तु तारुण्ये यथा भास्करमण्डले | वार्द्धिक्ये भवते राजा महाभोगो महाधनः || निम्नदेशे ससामर्थ्यो नान्यदेशेषु कीर्त्यते | ततोऽन्ये विपरीतास्तु दृश्यन्ते विविधा जिना || उत्तराषाढमेवं स्या श्रवश्चैव प्रकीर्त्यते | धनिष्ठः श्रेष्ठनक्षत्रः राशिरेषा मकरो भवेत् || २२, प्. २७२) एतत् शानिश्चरक्षेत्रं तदन्यैर्वा ग्रहचिह्नितम् | जातकर्मेषु नित्यस्थो दृश्यते च महीतले || निर्गते रजनीभागे प्रथमान्ते च मध्यमे | एषु जाता महाभोगा दृश्यते च समन्ततः || नीचा नीचकुलावस्था महीपाला भवन्ति ते | प्रचण्डा कृष्णवर्णाभाः श्यामवर्णा भवन्ति ते || रक्तान्तलोचना मृदवः शूराः साहसिकाः सदा | जलाकीर्णे तथा देशे नृपतित्वं करोति वै || दीर्घायुषो ह्यनपत्या बहुदुःखा सहिष्णवः | ततोऽन्ये विपरीतास्तु दरिद्रव्याधितो जना || धनिष्ठा शतभिषश्चैव पूर्वभद्रपदं तथा | अंशमेतद् भवेद् राशिः कुम्भसंज्ञेति उच्यते || एतद् ग्रहमुख्येन क्षेत्रमध्युषितं सदा | व्यतिमिश्रैस्तथा चन्द्रैः शुक्रेनैव तु धीमता || एषु जातिर्भवेद्रात्रौ प्रत्यूषे च प्रदृश्यते | प्रकृष्टोऽयं जातको नित्यो लोके चेष्टितशुद्धितः || क्रूरकर्मे भवेन्मृत्यो बुद्धिमन्त्यो उदाहृतः | विचित्रां भोगसम्पत्तिमनुभोक्ता महीतले || तदन्ये विपरीतास्तु दरिद्रव्याधितो जना | भद्रपदश्चैव नक्षत्रः रेवती च प्रकीर्तिता || पूर्वभद्रपदे अंशे मीनराशिप्रकल्पिता | जातकर्मेषु नित्यस्था दृश्यते च समन्ततः || रात्र्या मध्यमे यामे दिवा वा सवितो स्थिते | अर्द्धयामगते भानौ मध्याह्णे ईषदुत्थितम् || स्तोकमात्रविनिर्गतं | हस्तमात्रावशेषे तु एककालं तु जातकम् | शुद्धः शुक्लतरश्चैव शुक्लतैव सुयोजितः || २३, प्. २७३) शुक्रक्षेत्रमिति देवा तं विदुर्ब्रह्मचारिणः | पीतकैः शुक्लनिर्भासैर्ग्रहैश्चापि रधिष्ठितः || तत् क्षेत्रं श्रेयसो नित्यं धार्मिकं परमं शुभम् | एषु जाता भवेन्मर्त्या सर्वाङ्गाश्च सुशोभना || राज्यकामा महावीर्या दृढसौहृदबान्धवा | दीर्घायुषो महाभोगा निम्नदेशे समाश्रिता || प्राचिं दिश समाश्रित्य वृद्धिं यास्यन्ति ते सदा | न तेषां जङ्गले देशे वृद्धि जायति वा न वा || न मत्स्या मूलचारिण्या दृश्यन्ते ह कथञ्चन | जलौघ चाभिवर्द्धन्ते ऋषीणामालयोऽम्भसि || तेषु जाति प्रकीर्त्येते राशिरेव प्रकीर्तिता | तेषु जाता हि मर्त्या वै निम्नदेशेऽतिवर्द्धका || महीपाला महाभोगा प्राच्यावस्थिता सदा | ग्रहाः श्रेष्ठाभिवीक्ष्यन्ते बृहस्पत्याद्याः शनैश्चराः || प्राच्याधिपत्यं तु कुर्वन्ति एषु जातं न संशयः | राशयो बहुधा प्रोक्ता नक्षत्राश्च अनेकधा || तृविधा ग्रहमुख्यास्तु चिरकाले तु नाधुना | मानुषाणामतो ज्ञानं तिथयः पञ्चदशस्तथा || त्रिंशतिश्चैव दिवसानि अतो मासः प्रकीर्तितः | पक्षः पञ्चदशाहोरात्राः द्विपक्षो मास उच्यते || ततो द्वादशमे मासे वर्षमेकं प्रकीर्तितम् | एतत् कालप्रप्राणं तु युगान्ते परिकल्पितम् || प्राप्ते कलियुगे काले एषा सङ्ख्या प्रकीर्तिता | मानुषाणां तथायुष्यं शतवर्षाणि कीर्तिताः || तेषां संवत्सरे प्रोक्तो ऋतवः सम्प्रकीर्तिताः | आदिमन्ते तथा मध्ये त्रिविधा ते परिकीर्तिताः || २४, प्. २७४) अन्तरा उच्चनीचं स्यादायुषं मानुषेष्विह | तेषा मनुष्यलोकेऽस्मिं उत्पाताश्च प्रकीर्तिताः || मानुषाणां तथायुष्यं शतवर्षाणि कीर्तितम् | अमानुष्या जीवलोकेऽस्मिन् विद्रवन्ति इतस्ततः || वित्रस्ता तेऽपि भीता वै विचरन्ति इतस्ततः | देवासुरमुख्यानां यदा युद्धं प्रवर्तते || तदा ते मनुष्यलोकेऽस्मिं कुर्वन्ते व्याधिसम्भवम् | केतुकम्पास्तथोल्काश्च अशनिर्वज्र एव तु || धूम्रा दिशः समन्ताद् वै धूमकेतु प्रदृश्यते | शशिमण्डल भानो वै कबन्धाकारकीलका || छिद्रं च दृश्यते भानौ चन्द्रे चैव महर्द्धिके | एवं हि विविधाकारा दृश्यन्ते बहुधा पुनः || दुर्भिक्षं च अनायुष्यं राष्ट्रभङ्गं तथैव च | नृपतेर्मरणं चैव यतीनां च महद् भयम् || लोकानां चैव सर्वेषां तत्र देशे भयानकम् | मघासु चलिता भूमिरश्विन्यां च पुनर्वसू || मध्यदेशाश्च पीड्यन्ते चौराः साहसिकास्तदा | महाराज्यं विलुम्पेते दक्षिणापथसंशृतैः || भरणिः कृत्तिकाश्चैव रोहिण्या मृगशिरास्तथा | यदा कम्पो महाभयो लोको तत्र शङ्का प्रजायते || पश्चिमां दिशिमाशृत्य राजानो म्रियते तदा | येऽपि प्रत्यन्तवासिन्यो म्लेच्छतस्करजीविनः || विन्ध्यपृष्ठे तथा कुक्षौ अनुक्लीनो जनेश्वरः | तेऽपि तस्मिं तदा काले पीड्यन्ते व्याधिमूर्छिताः || अरीणां सम्भवस्तेषामन्योन्यातिशया जनाः | आर्द्रः पुष्यनक्षत्रः आश्लेषाश्चैव फल्गुनी || २५, प्. २७५) * * * * * * * * (?) उभावुत्तरपूर्वकौ | एतेषु चलिता भूमिनक्षत्रेषु नराधिपाम् || सर्वां च कुरुते व्यग्रां अन्यो आतपसरुन्धना | वधबन्धप्रपीडाश्च दुर्भिक्षश्च प्रजायते || हस्तचित्र तथा स्वात्या अनुराधा जेष्ठ एव तु | एषु कम्पो यदा जातः भूरि स्मिं लोकभाजने || हिमवन्तगता म्लेच्छा तस्कराश्च समन्ततः | नेपालाधिपतेश्चैव खशद्रोणिसमाश्रिताः || सर्वे नृपतयस्तत्र परस्परविरोधिनः | सङ्ग्रामशीलिनः सर्वे भवन्ते नात्र संशयः || मूलनक्षत्रकम्पोऽयं आषाढौ तौ पूर्वमुत्तरौ | नक्षत्रेष्वेव दृश्यन्ते चलनं वसुधातले || पूर्वं देशा मनुष्याश्च पौण्ड्रोद्राः कामरूपिणः | वङ्गालाधिपती राजा मृयते नात्र संशयः || गौडानामधिपतिः श्रीमान् रुध्यते परराष्ट्रकैः | ग्लानो वा भवते सद्यं मृत्युर्वा जायते क्वचित् || समुद्रान्तो तथा लोका गङ्गातीरे समाश्रिता | प्लाव्यन्ते उदके सर्वं बहुव्याधिप्रपीडिता || श्रवणे यदि धनिष्ठायां शतभिषा भद्रपदौ तथा | पूर्वमुत्तरमेव स्याद् रेवत्यां यदि जायते || महाप्रकम्पो मध्याह्ने लोकभाजनसञ्चलम् | प्रकम्पते वसुमती सर्वा पर्वताश्च सकानना || सर्वे ते व्यस्तविन्यस्ता दृश्यते गगने सदा | उत्तरापथदेशाश्च पश्चादेशसमाश्रिता || दक्षिणापथे सर्वत्र सर्वां दिशि समाश्रिता | नृपवरा भूतिभूयिष्ठा अन्योन्यापरुन्धिना || २६, प्. २७६) महामार्यो च सत्त्वानां दुर्भिक्षराष्ट्रभेदने | प्रत्यूषे च शिवा शान्तिर्देहिनां च प्रकम्पने || ततोत्कृष्टवेलायां रौद्रकम्पः प्रजायते | ततोत्कृष्टतरश्चापि मागधानां वधात्मकाः || अङ्गदेशाश्च पीड्यन्ते मागधो नृपतिस्तथा | ततो ह्रासि मध्याह्ने अपराह्ने दिवाकरे || यदि कम्पः प्रवृत्तोऽयं कृत्स्ने चैव महीतले | सर्वप्रव्रजिता नित्यं प्राप्नुयाद् व्याधिसम्भवम् || ज्वरारोगशूलैस्तु व्याधिभिः स्फोटकैः सदा | क्लिश्यन्ते सप्तराज्यं तु श्रेयस्तेषां ततः परे || तमो ह्रासिगते भानोः क्ष्माकम्पो यदि जायते | चतुर्वर्णतरोत्कृष्टा ब्राह्मणाः सोमपायिनः || क्लिश्यन्ते नश्यते चापि मन्त्री राज्ञो न संशयः | पुरोहितो धर्मिष्ठो अमात्यो वा राजसेवकः || अन्यो वा व्रतिनो मुख्यो मन्त्रमन्त्रार्थकोविदः | ब्राह्मणः क्षत्रियो वापि वैश्य शूद्रस्तथैव च || निपुणः पण्डितश्चापि शास्त्रतत्वार्थनीतिमाम् | हन्यते नश्यते चापि व्याधिना वा प्रपीड्यते || स्मृतिमान् श्रुतितत्त्वज्ञ इतिहासप्रचिन्तकः | हन्यते व्याधिना क्षिप्रं वज्रेणेव स पादपः || ततोऽस्तं गते भानौ ततोत्कृष्टतराथ पृष्वते | अपराह्णे युगान्ते च यदि कम्पः प्रजायते || व्यतिमिश्रास्तथा सत्त्वास्तिर्यग्योनिसमाश्रिता | मानुषा लोकमुख्यास्तु तस्मिं कम्पेऽधिरीश्वराः || ततो रात्रेः प्रथमे यामे यदि कम्पः प्रजायते | महावृष्टिः प्रदृश्येत शिलापातनसम्भवा || २७, प्. २७७) ततो ह्रासि यामे वै चलिते वसुमती तदा | तस्य चिह्नं तदा दृष्ट्वा वातवर्षं महद् भवेत् || ततो ह्रासि यामान्ते दृश्यते कर्म दारुणम् | परचक्रागमनं विन्द्या पाश्चात्यं तु नराधिपम् || ततो द्वितीयो यदा कम्पः प्रजायते | मृत्युव्याधिपरचक्रकुक्षिरोगं च दारुणम् || पित्तश्लेष्मगता व्याधिं स कोपयति जन्तुनाम् | संवेजयति भूतानि देशाद् देशागमं तथा || ततो द्वितीयमध्ये तु यामे कम्पः प्रजायते | महावातं ततो विन्द्याद् वृक्षदेवकुलां भिदे || अट्टप्राकारशृङ्गाश्च पर्वतानां न संशयः | विहारवसथान् रम्यान् मन्दिरांश्च सतोरणाम् || पातयत्याशु भूतानां आवासां तिर्यग्गतां तथा | अर्द्धरात्रकाले तु यो कम्प प्रजायते || हन्यन्ते नृपवरा मुख्याः प्राच्यानामधिपतिस्तदा | सुतो वा नश्यते तस्य दुर्भिक्षं वा समादिशेत् || ततो ह्रासिमध्ये तु अन्ते यामे प्रजायते | कम्पो महीतले कृत्स्नः शान्तिमारोग्यं निर्दिशेत् || ततोऽन्तेऽर्द्धरात्रे तु यदा कम्पः प्रजायते | अनूपा मध्यदेशाश्च नृपतो व्याधिपीडिताः || म्रियन्ते दारुणैः दुःखैः परस्परविरोधिनः | तृतीये मास सम्प्राप्ते बालिशानां सुखोदयम् || मशदंशपतङ्गाश्च सर्वे नश्यन्ति तस्कराः | आयुरारोग्यसौभिक्षं कुर्यात् प्रत्यूषकम्पने || अग्निदाहं विजानीयान्नगराणां तु सर्वतः | उदयन्तं यदादित्ये भूमिकम्प प्रजायते || २८, प्. २७८) मध्यदेशेऽथ सर्वत्र तस्करैश्च उपद्रुतः | दृश्यते नृपतेर्मृत्युः सप्ताहात्परतस्तदा || यस्मिं स्थाने यदा कम्पो दृश्यते प्रबलो कदा | तस्मिं स्थाने तदा दृष्टः शुभाशुभविचेष्टितम् || उल्कनिर्घातभूकम्पं एककाले समादिशेत् | ज्वलनं सितमुल्कायाः यद्वक्र नाशयेत्तु तम् || सितवर्णास्तथा नित्यं प्रशस्तः शुभदस्तदा | रक्तवर्णो महाघोरः अग्निदाहोऽपदिश्यते || धूम्रवर्णोऽथ कृष्णो वा राज्ञो मृत्यु समादिशेत् | पीतवर्णाथ कपिला वा व्यतिमिश्रा वाथ वर्णतः || व्यतिमिश्रं तदा कम्पं उत्पातं चैव निर्दिशेत् | निर्घातश्चैव कीर्त्यते यस्यां दिशि तस्यामादिशेत् || यदि मध्यं तदा मध्ये देशेष्वेव प्रकीर्तितम् | सस्वरो मधुरश्चैव क्षेममारोग्यमादिशेत् || क्रूरघोरतरो लोके शुभदो दुन्दुभिस्वनः | भीषणो ह्यतिभीमश्च दुर्भिक्षं तत्र निर्दिशेत् || एवमाद्याः प्रयोगास्तु ग्रहाणां वै तदा सदा | सिद्धिकर्म तदा कुर्यान्नक्षत्रेष्वेषु शोभने || अश्विनी भरणी चैव पुष्या भद्रपदा उभे | रेवत्या चानुराधश्च जापकाले प्रशस्यते || सिद्ध्यन्ते एषु मन्त्रा वै सिद्धमर्त्थं ददन्ति ते | मण्डलं चैव आलेख्यमेतेष्वेव तारकैः || वारग्रहमुख्यानां पीतशुक्लावभासिनाम् | तिथयः शोभने ह्येते पूर्णमी पञ्चदशी दथा || प्रवासं नैव कुर्वीत मण्डलं तु समालिखेत् | प्रथमा तृतीयपञ्चम्या दशमी चैव सप्तमी || २९, प्. २७९) त्रयोदश्यां तथा यात्रा कल्पयन्तु नराधिपाः | शुभदः सर्वजन्तूनां यात्रायानं प्रशस्यते || न लिखेत् सर्वमन्त्राणां मण्डलं तन्त्रमन्त्रयोः | न सिद्ध्यन्ते एषु मन्त्रा वै विघ्नहेतुमुदाहृता || यात्रां होमतः सिद्धिः तिथिः श्लिष्टैः ग्रहोत्तमैः | बृहस्पतिः शुक्रचन्द्रश्च बुधः श्रेष्ठः सर्वकर्मसु || एत ग्रहा वरा नित्यं चत्वारस्तिथिमिश्रिता | सिद्धियात्रां तथा लोके कुर्वन्तेऽथ महीतले || दुष्टारिष्टविनिर्मुक्ता छेदभङ्गायतत्त्वरम् | एतेष्वेव विनिर्मुक्ता दिवसांश्चैव प्रकल्पयेत् || द्वादशैव मुहूर्तानि तस्मिं काले प्रयोजयेत् | श्वेतो मैत्र एवं स्यात् रक्ताक्षाः प्रकीर्तिताः || रौद्रो महेन्द्रः शुद्धश्च अभिजिश्चैव सुशोभनः | भ्रमणो भ्रामणश्चैव कीर्त्यते च शुभप्रदः || सौम्योऽथ वरदश्चैव कीर्त्यते च शुभप्रदः | सोमोऽपि वरदश्चैव इत्येते द्वादशा क्षणाः || बहुधा लक्षणा प्रोक्ता मुहूर्तानां तृंशत्संज्ञका | दशम्या वृष्टिरेवं स्यात् चतुर्दश्या रात्रावेव च || अष्टमी द्वादशी चैव * * * * * (?) वर्जिता | त्वराद्या गणिते युक्तो असिते पक्षे तु रात्रितः || विघ्नकारणमेषां तु विनायकोह चतुर्थितः | एतद्गणनयोर्युक्तं कालमेतत् प्रकीर्तितम् || एषोन्मेषनिमेषश्च अच्छटा त्वरिता गतिः | एतत्कालप्रमाणं तु विस्तरं वक्ष्यते पुनः || अच्छटाशतसङ्घातं नाडिकाश्च प्रकीर्तिता | चतुर्नाडिकयो घटीत्युक्ता चतुर्घट्या प्रहरः स्मृतः || ३०, प्. २८०) चतुःप्रहरो दिवसस्तु रात्र्यः एभिः प्रकीर्तिताः | एभिरष्टैस्तथायुक्तः अहोरात्रं प्रकल्पितम् || दशोन्मेषनिमेषं तु क्षणमात्रं प्रकल्पितम् | दशतालप्रमाणं तु क्षणमात्रं तु वक्ष्यते || दश क्षणा निमित्याहुर्मुहूर्त्तं पतिकल्पितम् | चतुर्मुहूर्त्तः प्रहरस्तु मन्त्रज्ञैः परिकल्पितः || एतत्कालप्रमाणं तु त्रिसन्ध्ये परिकल्पयेत् | होमकाले तथा जापे सिद्धिकाले तु योजयेत् || स्वप्नकाले तथा जाग्रं स्नानपानेऽहनिः सदा | अहोरात्रं तु दिवसं वै संज्ञा एषा कीर्त्तिता || दिवसानि पञ्चदशश्चैव पक्षमेकं प्रकीर्त्तितम् | द्विपक्षं मासमित्याहुर्गणितज्ञा विशारदा || षड्भिर्मासैस्तथा चन्द्रः राहुणा ग्रस्यते पुनः | ततो द्वादशमे मासे वर्षशब्दः प्रकीर्तितः || ततो द्वादश वर्षाणि महावर्षं तदुच्यते | विपरीता ग्रहनक्षत्रा दानवेन्द्राश्च प्रकीर्त्तिता || ततो द्वादशमे अब्दे कुर्वन्तीह शुभाशुभम् | एकपक्षे यदा राहुरसुरेन्द्रः प्रदृश्यते || समस्तं व्यस्तविन्यस्तं शशिभास्करमण्डलौ | महान्तं शस्त्रसम्पातं दृश्यते वसुधातले || एवमाद्यां सदा नित्यं कालेकाले प्रयोजयेत् | अनेक बहुधा चैव विघ्ना दृश्यन्ति दारुणाः || प्राप्ते काले युगान्ते वै अधार्मिष्ठे लोकभाजने | समस्तं चन्द्रमसं ग्रस्तं मूलनक्षत्रमाश्रितम् || रात्रौ सङ्ग्रहश्चैव अस्तमेति स चन्द्रमा | दिवा वा यदि * (?) भानोरस्तमेति स पीडितः || ३१, प्. २८१) रविणे चन्द्रमसश्चैव अर्द्धरात्रे तु सग्रहे | अस्तमन्ति यदा भीता दानवेन्द्रस्य च्छायया || हन्यते पूर्वदेशस्थो राजा दुष्टो न संशयः | स्वकं वा मृत्युभयं तस्य परैर्वा स विलुप्यते || म्लेच्छानामधिपतिश्चैव पूर्वदेशं विलुम्पते | उद्रा जनपदा सर्वे उद्राणामधिपतिस्तथा || अश्विन्या यदि दृश्येरं रोहिण्यां भरणीस्तथा | कृत्तिकासो यदा दृश्यौ ग्रहौ चन्द्रदिवाकरौ || विविधाः श्लेष्मिका रोगा पैत्तिका वातमुद्भवा | व्यतिमिश्रास्तथा चान्ये जायन्ते सर्वदेहिनाम् || विविधा रोगमुत्थाना दृश्यते सर्वबालिशाम् | मघासु यदि फल्गुन्यो उत्तरा पूर्वमेर्व तौ || हस्तचित्ते तथा स्वात्यां विशाखासु तथैव च | एषु चन्द्रो यदा गृह्ये भास्करो वा न संशयः || राहुणा ग्रस्यते पूर्वं शशिभास्करमेव तौ | प्राच्यो * * * * * * (?) देशाधिपतिस्तथा || वङ्गाङ्गमागधो राजा अक्षिशूलेन गृह्यते | पुत्रो वा मृयते तेषां मृत्युर्वा पत्नितो भयम् || अरीणां दुष्टचित्तानां सङ्घातो वा भवेत् तदा | मृगशिरार्द्रपुनर्वस्वा पुष्याश्लेषौ तथैव च || एषु दृश्यति राहुर्वै सूर्यशशिने तथा | मागधो नृपतिः पीड्यते मागधा जनपदा तदा || अमात्या व्याधिभयं विन्द्याद् बन्धक्लेशां सपौरजाम् | अनुराधाज्येष्ठयोः सर्वं दृश्येरं दानवेश्वरः || सर्वान् जनपदान् व्याधिं जनयेत् सर्वगतं तदा | वधबन्धपरिक्लेशां आयासां विविधांस्तथा || ३२, प्. २८२) बन्धरुन्ध ततस्तेषु जनमुख्यैस्तु वर्द्धते | पूर्वाषाढे श्रवणे च उत्तराषाढे तथैव च || भानोर्मण्डलं व्यस्तोऽसौ शशिने रक्तभावता | ग्रहस्यागमं नित्यं दुर्भिक्षं चोपजायते || श्रवणधनिष्ठनक्षत्रपूर्वभद्रपदम् | शतभिषेषु यदा चन्द्र भानो वा यदि गृह्यते || कृष्णभावं समाश्रित्य ग्रहस्यागमनं विदुः | महान्तशोकमायासं दुर्भिक्षं च समन्ततः || सर्वां जनपदां विन्द्या राजचौरमहद् भयम् | रेवत्यामथ नक्षत्रे उत्तराभद्रपदा यदा || राहुणा ग्रस्यते पूर्वं शशिनौ भास्करमण्डलौ | पश्चाद् भानोऽथ विन्यस्तः पक्षेनेकेन दृश्यते || राज्याद् भ्रश्यते सर्वः मागधो नृपतिः पतिः | एते च कथिता चिह्ना राहोरागमनं यदा || दिशासु यासु गृह्णाति शशिनो भास्करमण्डलम् | तेषु तेषु तदा देशे उत्पद्यन्ते शुभाशुभम् || य एव भूतले कम्पा कथिता लोकचिह्निता | ग्रहोपरागे तं विन्द्यात् तत्र तत्र शुभाशुभम् || धूमिका वृष्टिहेतुः स्याद् दिवसात्येऽथ पञ्च वै | ततोऽर्द्धं लोकतः चिन्ता तीरभुक्तिसमाशृता || नश्यन्ते जनपदाः सर्वा व्याधिसम्भवमालया | नृपतिश्चापि नश्येत गङ्गातीर उत्तरे || हिमवन्तस्तथा कुक्षौ दुर्भगज्वरमाशृता | भूपाला चापि विन्यस्ता कोहु पालाः समन्ततः || गङ्गाया उत्तरे तीरे तीरभुक्तिपतिस्तदा | विविधैः शोकसन्तापैः मृयतेऽसौ नराधिपः || ३३, प्. २८३) सपुत्रभार्यया सार्द्धं नश्यतेऽसौ नराधिपः | नक्षत्रेषु येषु कम्पो वै तेषु धूमं समादिशेत् || दिशः सर्वासु धूमाश्च घोरा वर्दलवर्जिता | पञ्चाहा समतिक्रान्ता बहुदेवसिके सदा || नश्येत् परस्परा मर्त्या गोचरा मानुषोद्भवा | न दृष्टिस्तत्र प्रवर्तन्ते मानुषाणां परस्परम् || विन्द्यान्महद् भयं तत्र सराष्ट्रं नृपतिं हनेत् | येषु एवं भवेत् कम्पः उल्कापात समन्ततः || पर्येषां चापि विन्यस्तं द्वित्रिश्चैव दारुणः | रात्रौ इन्द्रधनुश्चैव श्वेतपक्षं यदि वायसम् || शुक्लवर्णोऽथ कृष्णो वै कृष्णो शुक्लोऽथ दृश्यते | विपरीता पक्षिणो वर्णा विपरीता ऋतुनिस्वना || विपरीताः पक्षिणः सन्ति यत्र तत्र महद् भयम् | द्विपदाश्चतुष्पदाश्चैव सर्वे बहुपदापदा || पक्षिणः तिर्यक् प्राणा विपरीतास्तु महाभयम् | ऊर्ध्वतुण्डा तथा श्वाना रवन्ते च मुहुर्मुहुः || दिवा वा यदि वा रात्रौ यत्र तत्र महाभयम् | एवम्प्रकारा अनेकाश्च बहुधा यत्र प्रकल्पिता || अनावृष्टिर्भवेत् तत्र राज्ञाश्चक्रं विनश्यति | यथा हि जातकर्माख्यातं प्राणिनां च शुभाशुभम् || तथोत्पाता ततो जाता कुर्वन्तीह शुभाशुभम् | नान्यथा दृश्यते किञ्चिन्निमित्तं पूर्वहेतुना || नाहेतुकं प्रवर्तन्ते विघ्ना उत्पातसम्भवा इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्द्वाविंशतितमः निमित्तज्ञानज्योतिषपटलविसरः परिसमाप्त इति || ३४, प्. २८४) अथ पञ्चविंशतितमः पटलविसरः | अथ भगवांश्छाक्यमुनिः पुनरपि ग्रहनक्षत्रतारकज्योतिषगणानामन्त्रयते स्म | * * * * (?) शृण्वन्तु भवन्तः सर्वे | अनतिक्रमणीयोऽयं कल्पराजा मञ्जुश्रियः कुमारभूतस्य मन्त्रतन्त्राभिषेकमण्डलविधान निच जपहोमनियमविद्यासाधनप्रवृत्तानामस्मिं कल्पवरे विद्याधराणां तिथिनक्ष्त्रचरितगणितामभिज्ञानां नक्षत्र भवद्भिः विघ्नं कर्तव्यम् | प्रवृत्तानां शासनेऽस्मिन् सर्वैश्च देवसङ्घैः तत्र रक्षा कार्या | सर्वे च दुष्टसत्त्वानि निषेद्धव्यानि रोद्धव्यानि शासयितव्यानि सर्वे सर्वं न घातयितव्यानि व्यवस्थासु च स्थापयितव्यानि शासनेऽस्मिन् दशबलानाम् || अथ भगवां शाक्यमुनिः सर्वतथागतोष्णीषाभ्युन्नतं नाम समाधिं समापद्यते स्म सर्वदुष्टनिवारणार्त्थं सर्वसत्त्वानाम् | समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः सर्वे च ते तथागताः दशदिग्लोकधातुव्यवस्थिता भगवन्तं शाक्यमुनिं तथागतं शुद्धावासभवनस्थं व्यलोक्योपसङ्क्रमन्ते | उपसङ्क्रम्य अचिन्त्यबुद्धस्वकाधिष्ठानेन भगवन्तं शाक्यमुनिं तथागतमामन्त्रयते स्म || भाष भाष भो महावीर ! लोकानां च हितोदयम् | प्रवृत्ते सर्वमत्राणां समन्त्रतन्त्र यथाविधि || भाषितः सर्वबुद्धैस्तु विद्याराजा महर्द्धिकः | एकाक्षरः प्रवरो ह्यग्रो नष्टे काले कलौ युगे || प्रवरः सर्वमन्त्राणां सर्वबुद्धैस्तु भाषितम् | उष्णीषराजा महावीर्यः सर्वभूतनिवारणम् || निषेद्धा ग्रहनक्षत्रां मातरां दुष्टचेतसाम् | विघ्नाः सर्वे तथा लोके ये चान्ये दुष्टचेतसा || अनुग्रहार्त्थं तु सत्त्वानां जापिनां च सुखोदयाम् | सकलेऽस्मिन् शासने ह्यग्रः चक्रवर्तिर्महर्द्धिकः || ३५, प्. २८५) उष्णीषराजा महावीर्यः सर्वस्मिं परमेश्वरः | भाष त्वं कालमेतस्य यस्येदानीं तथागत ! || एवमुक्तास्तु ते बुद्धास्तूष्णीम्भावा ह्यवस्थिता | अथ तेषां बुद्धानां सन्निपाता सर्वं त्रिसाहस्रमहासाहस्रो लोकधातवः सर्वसत्त्वानां च लोकभाजनानि एकज्वालीभूतानि न च एकसत्त्वानां पीडा अभूत् | बुद्धाधिष्ठानेन महान्तश्चावभासाः सन्दृश्यन्ते स्म || अथ भगवां शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य तांश्च बोधिसत्त्वान्महासत्त्वान् तत्रस्थितानि च देवपुत्रां सर्वश्रावकप्रत्येकबुद्धांश्च भगवतः महापर्षत्सन्निपातानामन्त्रयते स्म || समन्वाहरन्तु बुद्धा ! भगवन्तः ! सर्वप्रत्येकबुद्धार्यश्रावकाः कल्पमेकाक्षरय विद्याचक्रवर्तिनः सर्वतथागतोष्णीषाणां उपर्युपरिवर्तमानस्याप्रतिहतशासनस्यापरिमितबलपराक्रमस्य भगवतः उष्णीषराजचक्रवर्तिनः पुनरपि कल्पं भाषेऽहम् अस्मिं काले कलौ युगे || अथ भगवतो दुरतिक्रमशासनस्य त्रैलोक्यगुरोः सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसत्कृतस्य सर्वकर्मार्थसाधकस्य मन्त्रे वक्ष्ये पुनरपि कलौ युगे काले शासनान्तर्द्धानकाले समये शासनारक्षको भगवां उष्णीषचक्रवर्ती भविष्यति | सिद्धिं च यास्यते | सर्वकालं सर्वबुद्धानां च शासनान्तर्द्धानकालसमये बुद्धोऽयं भगवां सत्त्वार्थं करिष्यति | आरक्षकोऽयं भगवां सर्वतथागतधर्मकोशसंसृष्टः | शृण्वन्तु भवन्तो देवगणाः ! सर्वसत्त्वाश्च | भ्रूम् || एष भगवां सर्वज्ञः बुद्धैर्मन्त्ररूपेण व्यवस्थितः | महाकारुणिकः शास्ता विचेरुः सर्वदेहिनाम् || मन्त्राणामधिपतिः श्रीमां ख्याता उष्णीषसम्मतः | करुणाध समागम्य स्थितोऽयमेषमक्षरः || ३६, प्. २८६) स धर्मधातुं निःसृत्य स्थितोऽयं विश्वरूपिणः | यथा हि बुद्धानां शरीरा प्रवृत्ता धातवो जने || सामिषा लोकपूज्यास्ते निरामिषाः षु विशेषतः | सद्धर्मधातवः प्रोक्ता निरामिषा लोकहेतवः || सामिषा कलेबरे प्रोक्ता जिनेन्द्राणां महर्द्धिका | विविधा धातवः प्रोक्ताः मुनिचन्द्रा निराश्रवाः || सामिषा निरामिषाश्चैव प्रसृता लोकहेतवः | धर्मधातुं सन्मिश्रं सत्त्वानां करुणावशात् || तिष्ठते मन्त्ररूपेण लोकनाथं प्रभङ्कर | स विश्वरूपी सर्वज्ञः दृश्यते ह महीतले || सर्वार्थसाधको मन्त्रः सर्वबुद्धैस्तु भाषितः | एष संक्षेपतो मन्त्रः जप्तोऽयं विधिना स्वयम् || करोति सर्वकर्मं वै ईप्सितां सफलां सदा | अस्य कल्पं समासेन पुनः काले प्रचक्ष्यते || युगान्ते मुनिवरे लोके अस्तं याते तथागते | कल्पसिद्धिस्तदा काले मन्त्रसिद्धिरुदाहृता || अथ भगवतश्चक्रवर्तिनस्तथागतोष्णीषस्य परकर्मप्रयोगविध्वंसनकरस्याजितंजयस्य सर्वमन्त्राधिपतेः सर्वबुद्धबोधिसत्त्वानुनीतस्योष्णीषचक्रवर्तिनः संक्षेपतः कल्पमेकाक्षरस्य प्रवर्तितपूर्वं विस्तरतः || आदौ तावत् यस्मिं स्थानेऽयं जप्यते तस्मिं स्थाने पथे योजनाभ्यन्तरेण सर्वदुष्टग्रहाः प्रपलायन्ति सर्वमन्त्राः सिद्धा अपि न प्रभवन्ति सर्वदेवाः सान्निध्यं त्यजन्ति अन्यत्र साधकस्येच्छयान्येषां लौकिकलोकोत्तराणां साधकानां सिद्धिमपहरति परप्रयोगमन्त्रां छिन्नभिन्न-उत्कीलनतां मोचयति || स्वयं विद्याच्छेदं कर्त्तुकामः कुशानां हरितानां मुष्टिं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा शस्त्रेणच्छिन्द्यात् तां विद्यामुद्दिश्य सा छिन्ना भवति | अनेन प्रतिकृतिं कृत्वा हृदये कीलकेन ताडयेत् | कीलिता भवते | सप्तजप्तेन सूत्रेण कुसुम्भरक्तेन ग्रन्थिं कुर्यात् | बद्धा भवति | शरावेणाष्टशतजप्तेन पिथयेद् रुद्धा भवति | ३७, प्. २८७) शस्त्रेण हृदयं द्विधा कुर्याद् भिन्ना भवति | राजिकाभिर्विषरुधिररक्ताभिः रञ्जयेच्छिष्टिता भवति | करवीरलतया आहनेत् पीडिता भवति | सर्वविद्याभिचारुकमिच्छया करोति | सर्वत्र पूर्तिकं कर्म मुक्ताक्षीरेण स्नापयित्वा होमं कुर्याच्छान्तिः | घृतहोमेन सर्वेषां शान्तिराप्यायनं कृतं भवति | मुष्टिबन्धेन सर्वमन्त्रां स्तम्भयति मनसा मोक्षयति मन्त्र साधयितुकामस्तमनेनैवोपरुद्ध्य साधयेदन्यकल्पं साधयितुमिच्छति तमनेनैव साधयेत् | सिद्ध्यति | अनेनैव मन्त्रेणावाहनं भवति | पुनरनेनैव विसर्जनं भवति | अनेनैव यस्य रक्षा क्रियते सोऽप्यदृश्यो भवति | यो मन्त्रो न सिद्ध्यति प्रत्यादेशं वा न ददाति अनेनैव सह जपेत् | शीघ्रं सिद्ध्यति प्रत्यादेशं वा ददाति | यदि न सिद्ध्यति प्रत्यादेशं प्रयच्छति | सो मृयते || दधिमधुघृताक्तानां तिलानामष्तशतं जुहुयात् त्रिसन्ध्यं सप्ताहं यं मन्त्रमुद्दिश्य सोऽस्य वशो भवति | यदुच्यते तत् कर्मं करोति | प्रत्यादेशं वा प्रयच्छामि देवा वशीकर्त्तुकामः देवदारुसमिधानामष्टसहस्रं जुहुयात् सप्तरात्रेण वश्यो भवति | नागां वशीकर्त्तुकामः त्रिमधुरं जुहुयात् | वश्या भवन्ति | यक्षां वशीकर्क्षुकामो दधिभक्तं जुहुयात् | सर्वगन्धैर्गन्धर्वं वशीकरोति | अशोकप्रियङ्गुसमिद्भिः कुसुमैर्वा यक्षिणीनागिनागग्रहाणां राजिकाभिः राजानसिद्धार्थकैः ब्रह्माणं पुष्पहोमेन वेश्यं दधिक्षीरघृतेन शूद्रं तुषपांसुभिः स्त्रियां लवणहोमेन रण्डां माषजम्बूलिकाहोमेन कन्यां लाजाहोमेन सर्वान् घृततैलहोमेन वश्यां करोति सर्वत्र त्रिसन्ध्यं सप्तरात्रम् | इत्युक्त्वा तूष्णीम्भूतो जिनोत्तमः | देवसङ्घां तदा मन्त्रे सप्तमो मुनिपुङ्गवः | प्रहस्य लोकधर्मज्ञः मुक्तोऽसौ गतधीस्तदा || मुनिः श्रेष्ठस्तदा ज्येष्ठं बुद्धपुत्रं तदालपेत् | मञ्जुघोषं तदा वव्रे बोधिसत्त्वं महर्द्धिकम् || ३८, प्. २८८) एष कल्पो मया प्रोक्तः एकदेशो हि चक्रिणे | विस्तीर्ण यस्य नाथस्य देवदेवस्य धीमतः || कल्पैर्यस्य प्रमाणं तु न शक्यं भाषितुं जिनैः | संक्षेपेण प्रवक्ष्ये ते मानुषाणां हितोदया || एवमुक्ते तदा श्रीमां मञ्जुघोषो महर्द्धिकः | अद्ध्येषयति तं बुद्धं शुद्धावासोपरि स्थितम् || भाष भाष महावीर ! सम्बुद्ध ! द्विपदोत्तम ! | नष्टे काले युगान्ते वै मानुषाणां सुखोदयम् || कथमस्य महातेजा महावीरस्य मन्त्रराट् | पटसिद्धिः प्रदृश्येते क्षिप्रं पटविधिः कथमिति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतसक्रान्महायानवैपुल्यसूत्रात् त्र्यविंशतितमः एकाक्षरचक्रवर्त्त्युद्भवपटलविसरः परिसमाप्त इति || ३९, प्. २८९) अथ षड्विंशतितमः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु मञ्जुश्रीः ! एकाक्षरचक्रवर्तिनस्य महानुभावस्य संक्षेपेण पटविधानं भवति | विस्तरशः पूर्वमुदीरितम् | अधुना संक्षेपेण युगाधमे सत्त्वा अल्पवीर्या भवन्ति अल्पप्रज्ञा मन्दचेतसः | न शक्यन्ते विस्तरशः पटप्रमाणप्रयोगं साधयितुम् | संक्षेपेण वक्ष्येऽहं सत्त्वानां हितकाम्यया | उत्तमार्थं तु यथा सिद्धिः प्राप्नुवन्ति स जापिनः || उत्तमसाधनं कर्तुकामेन अनाहते पटे अच्छिन्नदशे केशापगते अश्लेषकैर्वर्णैर्भगवां चित्रापयितव्यः | धर्मराजा धर्मचक्रप्रवर्त्तकः सर्वलोकाधिपतिः पुरुषोत्तमः द्विपदानामग्र्यः तथागतरत्नः रत्नकेतुर्नामा जिनोत्तमः धर्मं देशयमानः समन्तज्वालप्रभामण्डलः | अधस्ताद् ब्रह्मा आर्यवज्रपाणिश्च उपरिष्टान्मालाधारिणौ देवपुत्रौ अधस्तात् साधकः || तस्याग्रतस्त्रिसन्ध्यं अगरुधूपं दहता दशलक्षाणि जपेत् | पश्चात् कर्माणि भवन्ति || प्रथमं चक्रसाधनं कर्तुकामः द्वादशारं पुष्पलोहमयं चक्रं कृत्वा प्रातिहारकपक्षे भगवतोऽग्रतस्त्रिसन्ध्यमगरुधूपं दहता दश लक्षाणि जपेत् | अन्ते पूर्णमास्यां उदारां पूजां कृत्वा हस्तेनावष्टभ्य तावज्जपेत् यावत् प्रज्वलितमिति | तं गृहीत्वा विद्याधरचक्रवर्ती भवति | यैर्दृश्यते यांश्च पश्यति तैः सहोत्पतति || अथच्छत्रं साधयितुकामः श्वेतच्छत्रं विचित्रं चाभिनवं कारयित्वा सुवर्णचक्रचिह्नं कौशेयवस्त्रावलम्बितं तेनानेनैव विधानेन शिरसि कृत्वा जपेद् विद्या स्वयमेवोपतिष्ठति | अनेन च भगवतोऽग्रतस्त्रिसन्ध्यमगरुधूपं दशलक्षं जपेत् | अन्ते पूर्णमास्यामुदारां पूजां कृत्वा हस्तेनावष्टभ्य तावज्जपेद् यावत् प्रज्वलितमिति | तं गृहीत्वा विद्याधरचक्रवर्ती भवति | मासे मासे पौर्णमास्यां पञ्चभिः पक्षैः प्रातिहारिकपक्षे सिद्ध्यति | ४०, प्. २९०) अथ सिद्धमात्रेण सर्वधर्मा आमुखीभवन्ति | सर्वाभिज्ञ प्रतिलभते | सर्वबुद्धबोधिसत्त्वाभिनन्दितः सर्वसत्त्वानुप्रवेशः सिद्धो भवति | लोकधात्वन्तरेऽपि सहस्रपरिवारश्चक्रवर्ती भवति || अथोष्णीषं साधयितुकामः हस्तमात्रे दण्डे सौवर्णरजतताम्रमयं मणिमयं वा कृत्वा तावज्जपेद् यावत् प्रज्वलितमिति | तं गृहीत्वा यथेष्टं विचरति | सत्त्वेभ्यो धर्मं देशयति | महाकल्पं जीवति || अथ भद्रघटं साधयितुकामः सौवर्णं भद्रघटं कृत्वा सर्वबीजरत्नौषधिपरिपूर्णं शुक्लवस्त्रावकुण्ठितं तमनेन साधयेद् एकस्मिं प्रातिहारकपक्षे कर्मारभेद् अपरस्मिन् सिद्ध्यति | तस्मिं हस्ते प्रक्षिप्य यमिच्छति तं लभते | अक्षयं भवति || अथ चिन्तामणिरत्नं साधयितुकामः सौवर्णदण्डो जात्यमणिं स्फटिकमणिं च सौवर्णं वा वस्त्रावलम्बन्तं कृत्वा अनेनैव विधानेन साधयेद् यं चिन्तयति तत् सर्वं सिद्ध्यति | देवमनुष्येषु चानेन गृहीतेनाप्रतिहतबलपराक्रमो भवति | अथ भगवतः कोटि जपेत् स्वशरीरेणोत्पतति | दिव्यबहुमहाकल्पं जीवति | अन्ये वा योरसितातपत्रप्रमुख्यादयः तदप्यनेन भगवतो दशलक्षजप्तेन कर्माणि कर्तव्यानि सिद्ध्यन्ति | एवमप्रतिहतः तथागतोष्णीषः परकल्पविधानेनापि यथा यथा प्रयुज्यति तथा तथा सिद्ध्यति | अचिरादेव भगवतः उष्णीषचक्रवर्त्तिनः दशलक्षजप्तः सर्वं साधयति सर्वविद्यामन्त्राधिपतिचक्रवर्ती || अथ वज्रं साधयितुकामः रक्तचन्दनमयं एकसूचिकं वज्रं कृत्वा अथवा पुष्पलोहमयं कृत्वा पञ्चगव्येन प्रक्षाल्य शुक्लपञ्चदश्यां पटस्याग्रतः उदारां पूजां कृत्वा घृतप्रदीपान् प्रज्वाल्य गन्धोदकेन प्रक्षाल्य यक्षा वश्या भवन्ति | सर्वबुद्धबोधिसत्त्वानमात्मानं निर्यात्य अनेनोष्णीषराजा परिवारेण तेजोराशिसितातपत्रेण वा रक्षां ४१, प्. २९१) कृत्वा मण्डलबन्धं सहायानां च रक्षां कृत्वा वज्रं दक्षिणेन हस्तेन गृहीत्वा प्रथमे यामेऽतिक्रान्ते द्वितीये यामे उपविश्य एकाग्रचित्तः तावज्जपेद् यावत् प्रज्वलितमिति | अत्रान्तरे सर्वविद्याधरा सर्वे देवनागयक्षाः सन्निपतन्ति | सर्वे च विद्याधरराजानः आगच्छन्ति | तैरभिष्टूयमानः विद्याधरपुरं गच्छति | विद्याधरचक्रवर्ती भवति | वज्रपाणिसदृशकायः वज्रपाणिसमबलः क्षणलवमुहूर्त्तेनाकनिष्ठं देवबह्वनं गच्छति | महाकल्पस्थायी भगवन्तमार्यमैत्रेयं पश्यति | धर्मं शृणोति | मृतो यत्रेच्छति तत्रोपपद्यते | यदिच्छति वज्रपाणिसकाशादुत्पद्यते | अथ खड्गं साधयितुकामः निर्व्रणं खड्गं गृहीत्वा अहोरात्रोषितो भगवतोदारां पूजां कृत्वा तावज्जपेद् यावज्ज्वलितेन सिद्धेन सपरिवारेणोत्पतति | आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृतिः अपन्थदायी अगम्यः सर्वविद्याधराणां अन्तरकल्पं जीवति || अथ मनःशिलां साधयितुकामः वीरक्रयेण क्रीत्वा पुष्पयोगत्रिरात्रोषितः सङ्घोद्दिष्टकां भिक्षां भोजयित्वा आज्ञा दापयितव्या | अनुज्ञातस्तत्र साधनं प्रविशेत् | उदारां पूजां कृत्वा घृतप्रदीपसहस्रं प्रज्वालयितव्यम् | त्रिरात्रोषितः सर्वसत्त्वानां मैत्रचित्तमुत्पाद्य आत्मानं निर्यात्य मनःशिलां गृहीत्वा तावज्जपेद् यावत् त्रिविधा सिद्धिः | ऊष्मधूमज्वलितपूर्वमेव चिन्तयितव्यम् | अमुक्तसिद्धिरूष्मायमानतिलकं कृत्वा सर्वदेवनागयक्षभूतपिशाचादीं जम्बूद्वीपनिवासिनश्च सत्त्वा दासभूता भवन्ति | किङ्करा भवन्ति | वर्षसहस्रं जीवति | धूमायमाने तिलकं कृत्वा अन्तर्द्धीयते | यदिच्छेद् देवानामप्यदृश्यो भवति | क्षणलवमुहूर्तेन दृश्यते | पुनरन्तर्धीयते | सर्वान्तर्द्धानिकानां राजा भवति | त्रीणि वर्षसहस्राणि जीवति ज्वलितेन विद्याधरो भवति | सपरिवार उत्पतति | विद्याधरराजा भवति | देवकुमारवपुः अधर्षणीयः सर्वदेवानां कः पुनर्विद्याधराणां कल्पस्थायी भवति | कालगतस्तूषिते देवनिकाये उपपद्यते || ४२, प्. २९२) अथ त्रिशूलं साधयितुकामः पुष्पलोहमयं तृशूलं कृत्वा संवत्सरं जपेत् | ततो वालुकामयं हस्तप्रमाणं चैत्यं कृत्वा तस्य महतीं पूजां कृत्वा उदारं च बलिं निवेद्य दक्षिणहस्तेन तृशूलं गृहीत्वा तावज्जपेद् यावत् पर्यङ्कं बध्वा याव स्फुरति ज्वलति रश्मिसहस्राणि प्रमुञ्चति | अत्रान्तरे महेश्वरप्रमुखा देवा मागच्छन्ति | सर्वविद्याधरा पुष्पवर्षं प्रवर्षन्ति | ततस्तैः परिवृतः यावतां पश्यति यैश्च दृश्यते तैः सहोत्पतति | त्रिनेत्रः द्वितीय इव महेश्वरः सर्वविद्याधरनमस्कृतः महाकल्पस्थायी निरीक्षितमात्रेण दुष्टचित्तां पातयति | न कस्यचिद् गम्यो भवति | सदेवके लोके प्रागेव विद्याधराणां च्युतः सुखावत्यावुपपद्यते | अथ वेताडं साधयति | अक्षताङ्गं पुरुषं गृहीत्वा चतुरखदिरकीलकैः यन्त्रितस्योरस्युपविश्य रत्नचूर्ण जुहुयात् | तस्य जिह्वाग्रे चिन्तामणिरत्नं दृश्यते | तं गृह्य विद्याधरचक्रवर्ती भवति | यानि प्रहरणानि चिन्तयति तानि मनसैवोपपद्यन्ते | योजनशतं प्रभयावभासयति | इच्छया कालं करोति | यत्रेच्छति तत्र गच्छति | लोकधात्वन्तरेऽपि विद्याधरचक्रवर्ती भवति | च्युतो विमलायां लोकधातावुपपद्यते || द्वितीयं वेतालसाधनम् | अक्षताङ्गं वेतडं गृहीत्वा बदरकीलकैः कीलयित्वा तस्य मुखे लोहचूर्णं जुहुयात् | तस्य जिह्वा निर्गच्छति | तं छित्वा शतपरिवार उत्पतति | अन्तरकल्पं जीवति | सुमेरुमूर्द्धनि क्रीडति रमति | यदा मृयते तदा एकदेशिको राजा भवति || अथाङ्कुशं साधयितुकामः कुशमयमङ्कुशं कृत्वा कृष्णमयोरेकतरेण पञ्चगव्येन प्रक्षाल्य एकरात्रोषितः अङ्कुशस्य हस्तं प्रमाणमात्रं कर्तव्यम् | उदारां पूजां कृत्वा वज्रपाणेर्घृतप्रदीपशतं प्रज्वाल्ययितं कर्तव्यम् | तेजोराशिना मण्डलबन्धं विकरेणेन कीलकां सप्ताभिमन्त्रितां कृत्वा चतुर्दिशं निखानयितव्या | अथाबन्धं स्थानं च परिग्रहं कृत भवति | ततो द्वितीये प्रहरे एकाग्रमनाः पर्यङ्कं बध्वा अङ्कुशम् गन्धपुष्पधूपैरभ्यर्च्य ४३, प्. २९३) कृतरक्षः सर्वबुद्धबोधिसत्त्वां नमस्कृत्य अङ्कुशं हस्तेन गृह्य तावज्जपेद् यावदत्रान्तरे नरकायिकानां देवानां वेदनान्युपशाम्यन्ते | सर्वबुद्धबोधिसत्त्वां नमस्कृत्य उत्पतति | विद्याधरराजो अप्रतिहतगतिः अङ्कुशव्यग्रहस्तः | सर्वदेवनागयक्षादयश्च दृष्ट्वा दूरादेव प्रणामं कुर्वन्ति | कल्पस्थायी यदा मृयते तदा वज्रभवनं गच्छति | वज्रपाणिं पश्यति | यदि पटं साधयति तेन ज्वलितेन विद्याधरो भवति | यमिच्छति कल्पं साधयितुं तस्य मन्त्रस्य नामं ग्रहाय लक्षं जपेदन्ते एकारात्रोषितः उदारां पूजां कृत्वा अर्ककाष्ठैरग्निं प्रज्वाल्य तिलानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् | होमान्ते आगच्छति | धनं यमिच्छति तं ददाति | वशं तिष्ठति किङ्करवशः || अथ महेश्वरं कर्तुकामः महेश्वरस्य महतिं पूजां कृत्वा दक्षिणायां मूर्त्तौ अर्ककाष्ठैरग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात् | हाहाकारशब्दं भवति | न भेतव्यं तत आगच्छति ब्रवीति किं कर्त्तव्या सर्वे महेश्वरा विद्या मम सिद्धा भवन्तु | यद्वरं रोचति तं तदाति | एवमस्त्विति कृत्वा अन्तर्द्धीयते || एवं विष्णुब्रह्माद्यमाकर्षयति | यं चारोचयति तस्याप्येषो विधिः कर्त्तव्यः | कृतरक्षेण कार्यम् || अथ यक्षिणी आकर्षयितुकामः तस्य नामं गृह्य सप्ताहमशोकपुष्पाणि जुहुयात् | आगच्छति वरं ददाति सप्तमे सप्ताहेऽवश्यमागच्छति | माता भगिनी भार्या यं चारोचति | अथ न वा गच्चह्ति | मूर्द्धानमस्य स्फुटति || नागीमाकर्षितुकामस्य नागपुष्पाणामेष एव विधिः | यक्षं आकर्षितुकामस्य मासत्रयं दधिभक्तं जुहुयात् | अन्ते एकरात्रोषितः भगवतः पूजां कृत्वा यक्षाणां यक्षबलिं चोदनानि निवेद्य यक्षाकर्षणं करिष्यामीति मनसि कृत्वा वटवृक्षसमिधां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | अत्रान्तरे कुबेराद्या यक्षा आगच्छन्ति | तेषां रक्तकुसुमैः अर्घो दीयते | वक्ष्यन्ति किं कर्तव्यं ते | वक्तव्य ४४, प्. २९४) एकैकं दिने यक्ष आज्ञाकरं यक्षं प्रेषयेति | तत एकैकं यक्षं प्रयच्छन्ति | तस्य आज्ञा दातव्या | योजनशतादपि स्त्रियमानयन्ति | प्रभाते तत्रैव नयन्ते | शतपरिवृतस्य भक्तं प्रयच्छन्ति | पृष्ठमारुह्य यत्रेच्छति तत्र गच्छति | नयति | रसायनं ददाति | आज्ञप्ताः सर्वं करोति || अथ वज्रपाणिं साधयितुकामः चतुर्गुणं सप्तगुणं पूर्वसेवां कृत्वा प्रातिहारकपक्षे सकलामुदारतरां पूजां कृत्वा यावत् पूर्णमासीति पूर्णमास्यां पूजां कृत्वा भिक्षवः सङ्घोद्दिष्टकां भोजयित्वा आर्यवज्रधरस्यैव अनुमोदितव्या तत उदारां पूजां कृत्वा प्रथमे यामेऽतिक्रान्ते द्वितीये यामे पर्यङ्कं बद्ध्वा उपविश्यैकाग्रमनसः वज्रधरं द्रक्ष्यामीति चित्तं सङ्कल्प्य गुग्गुलुगुलिकानां बदरास्थिप्रमाणां रात्रावेकयामं जुहुयात् | ततो भगवतः स्रग्दामचलनं भवति | भूः प्रकम्पति | मेघा गुलुगुलायन्ति | सर्वे विद्याधराः पुष्पवर्षं प्रवर्षन्ति | अत्रान्तरे बह्गवां वज्रपाणिरागच्छन्ति सर्वविद्याभिः परिवृतः विद्योत्तमप्रमुखैः विद्याराजैः परिवृतः सर्वदेवैः सर्वनागैः सर्वयक्षैः सर्वगन्धर्वैः किन्नरैर्बोधिसत्त्वैः परिवृतः आगच्छति | तत्क्षणं नारकाणां सत्त्वानं तीव्रवेदना व्युपरता भवन्ति | गन्धोदकेन अर्घ्यो देयः | प्रणिपत्य स्थातव्यं ततो वज्रधरो वक्ष्यति किं ते वरं ददामि | विद्याधरचक्रवर्त्तित्वं बिलप्रवेशं राष्ट्रं अन्तर्द्धानं यद्वा रोचते तस्यैव भगवतः सकाशाल्लभ्यते | यद्वा रोचति विद्याधरचक्रवर्तित्त्वं सर्वविद्याधराणां चक्रवर्त्ती वज्रकायो वज्रपाणिसदृशः चित्तमात्रेण सर्वप्रहरणान्युत्पद्यन्ते | महाकल्पस्थायी | यदा मृयते तदा वज्रभवनं गच्छति | अन्येषामपि विद्याधराणां एष एव विधिः संक्षेपतो यानि वज्रपाणिकल्पे यानि अवलोकितेश्वरकल्पे यानि च भगवता प्रोक्तानि कल्पानि यानि ब्रह्मकल्पे यानि महेश्वरकल्पे संक्षेपतो लौकिकलोकोत्तरेषु कल्पेषु ये साधनीयाः ते एतेनैव साधनया सिद्ध्यन्ते | महामन्त्रा साध्यमाना न सिद्ध्यन्ति | अनेन सार्द्धं जप्तव्याः सप्तरात्रं नियतं दर्शनं ददाति | अथ न ददाति विनश्यति | महेश्वरप्रमुखानां देवानां अग्रतः यदि जपति सप्तरात्राभ्यन्तरेण दर्शनं ददाति | यदि न ४५, प्. २९५) ददाति त्रिसप्तधा मूर्ध्ना स्फुटति | चन्द्रग्रहे आदित्यग्रहे वा घृतवचाञ्जनपवित्रदण्डकाष्ठयज्ञोपवीतहरितालमनःशिलादयः साधयितव्याः || अथ द्रव्यं साधयितुकामस्य मनःशिलां गृह्य मानुषक्षीरेण पीषयित्वा पञ्चगुलिका कर्त्तव्या | अगुरुसमुद्गके प्रक्षिप्य श्वेतसिद्धार्थकसहितां साधयेत् | चन्द्रग्रहे सूर्यग्रहे वा बलिविधानं कृत्वा यदा सर्षप चिटिचिटीयन्ति तथा प्रथमा सिद्धा या वा सर्वजनवशीकरणं तया सर्वस्य लौकिकेया विधेया भवन्ति | यदुच्यते तत् सर्वं करोति | अथ धूमायते सर्वान्तर्द्धानिकानां राजा भवति | अन्तरकल्पं जीवति | ज्वलिते तदा देवकुमारवपुः तरुणार्कतेजो विद्याधरराजा भवति | महाकल्पं जीवति || एवं रोचनाहरितालादीनि साधयितव्यानि || अथाञ्जनं साधयितुकामः श्रोताञ्जनं नीलोत्पलं कुष्ठं चन्दनं चैकतः कृत्वा ताम्रभाजने संस्थाप्य चन्द्रग्रहे तावज्जपेद् यावद् धूमायति | तेनाञ्जितनयनः अन्तर्द्धीयते कामरूपी सर्वान्तर्द्धानिकाना राजा भवति || अथ खड्गं साधयितुकामः निर्व्रणं खड्गमादाय कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पटस्योदारां पूजां कृत्वा बलिविधानं च कृतरक्षः खड्गं दक्षिणहस्तेन गृहीत्वा तावज्जपेद् याव स्फुरति | ज्वलिते स्फुरिते एकाकी विद्याधरो भवति | ज्वलितेन सर्वविद्याधराणां राजा भवति | अप्रतिहतबलपराक्रमः यैर्दृश्यते यांश्च पश्यति तैः सहोत्पतति || अथ वज्रं साधयितुकामः पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलं उभयत्रिशूचकं रक्तचन्दनेनानुलिप्य प्रातिहारकपक्षप्रतिपदमारभ्य पटस्योदारां पूजां कृत्वा जपेत् प्रतिदिनं वर्द्धमाना भिक्षवो भोजयितव्या | अन्ते त्रिरात्रोषितः पटं सधातुके चैत्ये प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपशतं प्रज्वाल्य कुशविण्डकोपविष्टः वज्रमुमाभ्यां पाणिभ्यां गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति | तं गृह्य सप्तपरिवार उत्पति | ४६, प्. २९६) विद्याधरचक्रवर्त्ती भवति | वज्रपाणितुल्यपराक्रमः महाकल्पे जीवति | भिन्ने देहे वज्रपाणिभवनं गच्छति || एवं शूलचक्रशरशक्तिप्रभृतय सर्वे प्रहरणाः पटपादुकदण्डकाष्ठयज्ञोपवीतादीनि परकल्पविधानेन साधयितव्यानि | सर्वेषां त्रिविधा सिद्धिः || शान्तिकं कर्तुकामह् पद्माकारं वेदिं कृत्वा याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य स्रुवेण परमान्नाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | त्रिरात्रेण आत्मनः परस्य वा शान्तिर्भवति | सप्तरात्रेण ग्रामस्य वा नगरस्य वा | महामारि उपद्रवे शमीसमिधानां दधिमधुघृताक्तानां जुहुयादनावृष्टेः | तृमधुरं जुहुयात् | सर्वत्र परमशान्तिर्भवति | भिक्षाहारः त्रिंशलक्षं जपेत् | प्रातिहारकपक्षे शुक्लपूर्णमास्यां त्रिरात्रोषितः चन्द्रग्रहे कृष्णगोक्षीर अष्टशताभिमन्त्रितं कृत्वा पिवेद् रसायनं गुणोपेतं भवति | दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं दशरात्रं जुहुयात् | अकालमृत्युः प्रशाम्यति | दीर्घायुर्भवति | ध्वजशङ्खादीनि अभिमन्त्रयेत् | दृष्ट्वा श्रुत्वा च परसैन्यं स्तम्भयति | सर्वव्रीहिगन्धोदकपरिपूर्णं नवं कलशं कृत्वा अष्टशतजप्तेन विनायकोपद्रुतं स्पृष्ट्वा स्नापयेत् | अभिषिक्तो लक्ष्मीवां भवति | अनेनाभिषेकेण सर्वपापैः प्रमुच्यते | मण्डलकर्माणि करोति | ग्रहकर्माणि शतसहस्रजप्तेन मयूरपिच्छकेन सर्वविषां नाशयति | तेनैव ज्वरमक्षिशूलरोगादीं नाशयति | सूत्रकेण सर्वज्वरां मुद्रासमेतयुक्तो मन्त्रेणासुरयन्त्राणि घातयति | खदिरसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | महानिधानं प्रयच्छति || समुद्रगामिनीं नदीमवतीर्य रक्तचन्दनाक्तानां पद्मानां शतसहस्रं प्रवाहयेत् | पद्मराशितुल्यं निधानं लभति | दीयमानमक्षयं भवति | बिल्वाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | भोगां प्राप्नोति || ४७, प्. २९७) देवां वशीकर्तुकामः अगरुसमिधानां दधिमधुघृताक्तानां जुहुयात् अष्टसहस्रं | त्रिसन्ध्यमेकविंशतिरात्रं तन्दुलानां दधिमधुघृताक्तानामेकीकृत्य जुहुयात् | अक्षयमन्नं भवति || यक्षाणां वशीकरणे गुग्गुलुगुलिकानां दधिमधुघृताक्तानां जुहुयात् | अशोकसमिद्भिर्यक्षिणीनाम् नागानां नागपुष्पां आर्यवज्रवज्रपाणिरगरुसमिधाभिः विद्याधराणां दमनकसमिधाभिः अगुरुसमिधानां तुरुष्कतैलाक्तानां गन्धर्वाणां कुन्दुरुहोमेन प्रेतानां श्रीवासकहोमेन किन्नराणां सर्जरसहोमेन विनायकानां सर्वेषामष्टशतिको होमः सप्ताहं राजानस्य राजसर्षपतैलाक्तानां अष्टशतं जुहुयात् | त्रिसन्ध्यं सप्तरात्रं आदित्याभिमुखं लक्षं जपेत् सर्वपापैः प्रमुच्यति || सर्वविद्यानामाप्ययनं कर्तुकामः गोमूत्रयावकाहारः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लपुष्पैरभ्यर्च्य क्षीराष्टशतं जुहुयात् | क्षीरेण च स्नपयेत् | अष्टशतजप्तेन अगरुधूपं दद्यात् | आप्यायितो भवति | सकृदुच्चारितेन आत्मरक्षा कृता भवति | द्विरुच्चारितेन परस्य त्रिरुच्चारितेन द्रव्यस्य रक्षा कृता भवति || छिन्नभिन्ननष्टकीलितानां आप्यायनं कर्तुकामः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लपुष्पैरभ्यर्च्य अनेन उष्णीषराजेन पटस्याग्रतः राजसर्षपाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | विद्यामुद्दिश्य उत्कीलिता भवति | पापिजनातिरिक्तां विद्यां ज्ञात्वा गोरोचनया भूर्यपत्रे लिख्य ततः आत्ममन्त्रमष्टशताभिमन्त्रितं कृत्वा भगवतः उदारां पूजां कृत्वा अनेन भगवता सार्द्धं अष्टसहस्रं जप्त्वा तत्रैव कुशसंस्तरे स्वपेत् | ऊनातिरिक्तां स्वप्ने आगत्य कथयति || अथ पद्मं साधयितुकामः रक्तचन्दनमयं पद्मं कृत्वा उदारां पूजां कृत्वा त्रिरात्रोषितः तं पद्मं दक्षिणेन हस्तेन गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति | विंशतिपरिवारः उत्पतति | विद्याधरचक्रवर्त्ती भवति | अप्रतिहतगतिः | यदा मृयते तदा सुखावत्यामुपपद्यते || अथ वज्रं साधयितुकामः वल्मीकमिश्रया मृत्तिकया वालुकमिश्रय वज्रं कृत्वा भिक्षाहारः मौनी अपत्थदायी वज्रं गृह्य त्रीणि लक्ष जपेत् | ४८, प्. २९८) एकसूचिकं वज्रं कर्त्तव्यम् | तं वज्रमन्ते सिद्धार्थकमध्ये स्थाप्य चन्द्रग्रहे चन्द्रग्रहे स्थातव्यम् | तावज्जपेद् यावत् सर्षपा चिटिचिटायन्ति | वज्रं सिद्धं भवति | तेन वज्रेण गृहीतेन सर्वकर्मणि करोति | पर्वतशिखराणि चूर्णयति | नागह्रदं शोषयति | नदीः प्रतिस्रोतमानयति | नागां विद्रापयति | विषाणि निर्विषीकरोति | सर्वे प्राणिनः स्तम्भयति | मोहयति | पातयति | यन्त्राणि चूर्णयति | शकटप्रभृतीनि च स्तम्भयति | चूर्णयति | एवमादीनि सर्वकर्माणि करोति | एष एकसूचिकस्य वज्रस्य साधनम् || उष्णीषचक्रवर्त्तिनं साधयतो न कश्चिच्छक्नोति विघ्नं कर्तुम् | साक्षान्मूर्ध्नटकोऽपि हि विधिना नाविधिना | अस्य च जापकाले सततं बुद्धलोचनां पूर्वं पश्चाच्च जप्तव्यम् | एवं सौम्यत्वं भवति | सिद्धिस्याभिमुखीभवति || अथ समुद्रगामिनीं नदीमवतीर्य पद्मानां लक्ष निवेदयेत् | श्री आगत्य वरं प्रयच्छति | राष्ट्रं ददाति | अथ त्रीणि लक्षाणि निवेदयेत् | सार्वभौमिको राजा भवति | जम्बूद्वीपाधिपतिर्भवति | विवरस्याग्रतः पटं प्रतिष्ठाप्य लक्षा.इ त्रीणि जपेत् | सर्वयन्त्राणि पतन्ति | निर्विशङ्केन प्रवेष्टव्यम् | प्रविश्य रसरसायनं निःकाशयति | अथ तत्रैव तिष्ठति वैष्णवचक्रभयमुत्पद्यते | अथ प्रविशति अनुस्मरितमात्रेण भस्मीभवति | मनसेन उत्थापयति | न कदाचिदपि प्रविशति तस्मिं || शुक्लप्रतिपदमारभ्य त्रिःकालं जातीकुसुमैः सकृज्जप्तेन भगवता पादाङ्गुष्थे ताडयितव्यम् | यावत् पादाङ्गुष्ठाद् रश्मिर्निश्चरति | साधकशरीरेऽन्तर्द्धीयति | तत्क्षणादेवाकुञ्चितकुण्डलकेशो भवति | सपरिवार उत्पतति | विद्याधरराजा भवति कल्पस्थायी || अथ समुद्रतटे पश्चान्मुखं पट. प्रतिष्ठाप्य नागकाष्ठैः अग्निं प्रज्वाल्य समुद्रस्यौद्दिश्य नागपुष्पाणां लक्षं जुहुयात् | समुद्रे ऊर्मय आगच्छन्ति | सिद्धिनिमित्तं न भेतव्यम् | तावद् यावत् समुद्रो ब्राह्मणवेषेणागच्छति | ब्रवीति किं मया कर्त्तव्यम् | वक्तव्यम् | वश्यो मे भव | ततो यदुच्यते तत् सर्वं करोति || ४९, प्. २९९) पद्मं भूम्यां लिख्य सहस्रपत्रं तस्योपर्युपविश्य शतसहस्रं जपेत् | भूमिं भित्त्वा उत्तिष्ठति | सहस्रपरिवार उत्पत्ति महाकल्पस्थायी विद्याधरराजा भवति | अपरिपत्थदायी तेजेन पञ्च योजनानि अवभासयति || प्रातिहारकपक्षे जातीपुष्पाणां भगवतः उष्णीषराजस्योपरि लक्षं निवेदयेत् | एकैकं जप्तव्यम् | तावद् यावदुष्णीषाद् रश्मि निश्चरति | साधकस्य शरीरेऽन्तर्द्धीयते | तत्क्षणादेव पञ्चाभिज्ञो भवति | दशलक्षजप्तः यथा यथा प्रयुज्यति तथा तथा अनेनैव भगवता सार्द्धं यदि विद्या जप्यते सा नियतमागच्छति | साक्षादस्य जप्यमाना यदि न वागच्छति स मूर्ध्ना स्फुटति | शुष्यति || अयं च एकाक्षर उष्णीषचक्रवर्ती तथागत एव साक्षात् कोऽन्यः सदेवके लोके सर्वमन्त्रविद्यानां राजा तथागत एव | सितातपत्रतेजोराशिप्रमुखानि अस्य परिवारः | सर्वेषामुष्णीषराजानाम् | साधनविधान सर्वं अत्रैव योज्यम् | सर्वे च उष्णीषराजा अनेन साध्या | उत्तमसाधनं इच्छता अस्थानेन योज्यम् | यदि युज्यति उत्तमा सिद्धिर्न भवति | संक्षेपतः सर्वे देवा अनेनाकृष्यन्ते | अथ निधानमुद्धाटयति | यत्र निधानं तिष्ठति तत्र गत्वा अकालकलशं गृह्य सर्वगन्धैर्लिप्य श्वेतचन्दनोदकं कुम्भे प्रक्षिप्य अष्टसहस्राभिमन्त्रितं कृत्वा निधानं स्थापयेत् | यदि निधानं तिष्ठति तदा स भूमिः स्फुटति | यदि निधानं पुरुषमात्रे तिष्ठति उदकेन स्पष्टव्यम् | हस्तमात्रं खत्वा ग्रहेतव्यः || अथ सिंहं साधयितुकामः वल्मीकमृत्तिकया कृत्वा गोरोचनया समालभ्य पिण्डिकायां प्रतिष्ठाप्य उदारां पूजां कृत्वा तावज्जपेद् यावच्चलति | चलितेन सिद्धो भवति | पृष्ठमारुह्य आकुञ्चितकुण्डलकेशः आत्मपञ्चमोत्पतति | ब्रह्मायुषो नववर्षसहस्राणि जीवति | सर्वविद्याधराणामागम्य || एवं हस्त्यश्वमहिषश्च साधयितव्या | याअ सिंहनादं नदति तदा देवा आसनेभ्यश्चलन्ति || ५०, प्. ३००) पद्मसरं गत्वा पद्मानां लक्षं निवेदयेत् | सामन्तराज्यं प्रतिलभते | रक्तकरवीरकलिकानां लक्षं जुहुयात् | राजकन्यां लभते | जातीपुष्पाणां लक्षं समुद्रगामिन्यां नद्यां प्रवाहयेत् कन्यां लभते यामिच्छति | सर्वे ते उत्तमसाधनानि सिद्ध्यन्ति || अनेनोष्णीषचक्रवर्तिना स यत्र गच्छति इन्द्रोऽप्यस्यासनं ददाति | सर्वे च देवराजानः दूरादेव दृष्ट्वा भीता त्रस्ता भवन्ति | सर्वेषां च देवराजानां प्रभां व्यामीकरोति | योजनशताभ्यन्तरेण करोति || अयं चक्रवर्ती तथागत एष देवलोके सर्वे च कल्पस्य भगवतः उष्णीषचक्रवर्तिनः एकाक्षरस्य वशे वर्तन्ति | तन्निम्नाश्च सर्वे मन्त्रतन्त्राः सकल्पकाः सविस्तरा इत्याह भगवां शाक्यमुनिः सिंहो नरोत्तम इति || आर्यमञ्जुश्रीयमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् चतुर्विंशतिमः एकाक्षरचक्रवर्तिकर्मविधिपटनिर्देशपटलविसरः परिसमप्त इति || ५१, प्. ३०१) सप्तविंशतितमः पटलविसरः | अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तत्रस्थांश्च देवसङ्घां सर्वांश्च बुद्धबोधिसत्त्वा प्रत्येकबुद्धार्यश्रावकां पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | निर्दिष्टोऽयं मञ्जुश्रीः ! सर्वतथागतानां सर्वस्वभूतं धर्मकोशं चिन्तामणिप्रतिप्रख्यं लोकानामाशयसफलीकरणार्थं तस्मिं काले युगाधमे शून्ये बुद्धक्षेत्रे परिनिर्वृतानां तथागतानां सद्धर्मनेत्री अन्तर्द्धानकालसमये तस्मिं काले तस्मिं समये सर्वतथागतानां मन्त्रकोशसंरक्षणार्थं त्वदीयकुमारमन्त्रतन्त्राणां कल्पराजेऽस्मिं निधानभूतो भविष्यति | जप्यमानो विधिना सारभूतोऽयं मञ्जुश्रीः ! सर्वतथागतमन्त्रतन्त्राणां त्वदीये च कुमारकल्पराजेऽग्रभूतो भविष्यत्ययं एकाक्षरचक्रवर्त्ती | अनेन जप्यमानेन सर्वे ताथागता विद्याराजानः जप्ता भवन्ति || अपरमपि मञ्जुश्रीः ! त्वदीयकल्पराजे निधानभूतं सारभूतं अग्रभूतं ज्येष्ठभूतमेकाक्षरं पूर्वमासीत् | अतीते काले अतीते समये द्वाषष्टिगङ्गानदीसिकतप्रख्यैः कल्पैः अमितायुर्ज्ञानविनिश्चयराजेन्द्रो नाम तथागतोऽर्हन् सम्यक् सम्बुद्धः वियाचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवां | यस्य स्मरणादेव नामग्रहणमात्रेण पञ्चानन्तर्याणि क्षयं गच्छन्ति | नियतं बोधिपरायणा बहवः सत्त्वाः ये नाममात्रं श्रोष्यन्ते | कः पुनर्वादो ये मन्त्रसिद्धये | अवश्यं च सर्वमन्त्रजापिभिः अयं बह्गवानमितायुर्ज्ञानविनिश्चयराजा तथागतः प्रथमत एव मनसि कर्त्तव्यः | वाचा च वक्तव्या नमस्तस्मै भगवते अमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक् सम्बुद्धाय || ततोऽमिताभं रत्नकेतुं ततः सर्वबुद्धानां प्रणामं कृत्वा यथेप्सितं मन्त्रा जप्तव्या | आशु सिद्धिं प्रयच्छन्ति | यत् कारणं महापुण्याभिवृद्धये मन्त्राणां तथागतानां संज्ञापरिकीर्त्तनं नमस्कारं च सर्वतथागतानां च प्रमाणं नियतं बोधिपरायणोऽयं कुशलसम्भारपरिपूरितो भवति | बोधिसत्त्वसङ्ख्यं गच्छति | मन्त्रा च तस्य आशु सिद्धिं प्रयच्छन्ति | ५२, प्. ३०२) अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन अयमेकाक्षरमन्त्रः सर्वतथागतहृदयः सर्वमन्त्रतन्त्राभिमतः सर्वकर्मार्थसाधकः मञ्जुघोष ! त्वदीये कल्पराजे परमरहस्यं परमगुह्यतमं लोकेनात्महिताय प्रयोक्तव्यम् | अशिष्ये चापि अधार्मिके अप्रसन्ने तथा शास्तु शासनेऽस्मिं जिनोदिते | दुष्टे मानिने चापि शास्तुः शासनच्छिद्रिणे || न कथञ्चित् प्रयोक्तव्यः अप्रसन्ने जिनसूनुनाम् | श्रावकां खड्गिणांश्चापि पूजानुग्रहमक्षमे || न तस्य देयं मन्त्रं वै सिद्धिस्तस्य न दृश्यते | श्राद्धः सौम्यचित्तश्च प्रसन्नो जिनशासने || बोधिसत्त्वो तथा नित्यं पूजानुग्रहतत्परः | तस्य सिद्धिर्भवेन्मन्त्रे इह कल्प मयोदिते || एकाक्षरे महामन्त्रे मञ्जुघोषनियोजिते | तेनासील्लोकनाथेन मन्त्रं दत्तं सुखावहम् || हृदयं सर्वबुद्धानां सर्वमन्त्राणां च उद्भवः | षट्सप्तत्यः तथा कोट्यः पुरा गीतं स्वयम्भुना || मन्त्राणां श्रेयसार्थाय देहिनां पापमोहिनाम् | सर्वेऽस्तं गता मन्त्राः शास्तुबिम्बं समाश्रिताः || तेषु सारभूतोऽयं विद्याराजा महर्द्धिकः | एक अक्षरविन्यस्तो शाश्वतोऽयं प्रवर्त्तते || स्थितैषा धर्मकोटिस्थः बुद्धानां तु जगद्धिताम् | धर्मनेत्र्या समाश्रित्य स्थितोऽयमेकमक्षरः || सर्वार्थसाधको मन्त्रः दुष्टराज्ञां निवारकः | करोति कर्मवैचित्र्यं सर्वकर्मप्रसाधकः || साष्टं कर्मसहस्रं च कुरुते च ध्रुवं तहा | विचित्रां सम्पदं दद्याद् विधिदृष्टेन कर्मणा || ५३, प्. ३०३) मञ्जुश्रियस्य हृदयोऽयं मकारो मन्त्रसंयुतः | उकारगतिनित्यज्ञः आशील्लोके प्रवर्तितः || अमितायुर्ज्ञानराजेन विनिश्चितार्थः प्रकाशितः | मञ्जुघोषस्य बुद्धेन प्रवृत्तोऽयं वशहेतुना || त इमं युगान्तके लोके शास्तरिः परिनिर्वृते | सिद्धिं च यास्यते क्षिप्रं विधिदृष्टेन कर्मणा || अमितायुर्नाम आशीत् बुद्धक्षेत्रविकल्पितम् | तत्रासौ भगवां बुद्धः धर्मचक्रप्रवर्तकः || तिष्ठत्यपरिमितां कल्पां आयुर्वसितमधिष्ठितः | अत एव तस्य संज्ञाभूदमितायुर्ज्ञानविनिश्चयः || राजेन्द्रः सर्वलोकानां महर्द्धिकोऽयं तथागतः | स दद्युः मन्त्रवरं मुख्यं बुद्धपुत्रस्य धीमते || ज्येष्ठः तनयमुख्यस्य महास्थाने महर्द्धिके | ततस्तेन सुतेनैतत् समन्तभद्रस्य योजितम् || ततस्तं बुद्धपुत्रो वै मञ्जुघोषस्य दत्तवां | अधुनाहं तथागतो ह्यग्रकल्पमस्य मुदीरयेत् || इदं तन्मन्त्रमुख्यं वै धर्मराजेन भाषितम् | श्रेयसार्थं तु भूतानां सर्वेषां मन्त्रमव्रीत् || नमोऽमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक्सम्बुद्धा नमः सर्वबुद्धानां शालेन्द्रराजरमितायुरमितायुरत्नकेतुप्रभृतीनाम् | एभ्यो नमस्कृत्वा त्रिरपि मन्त्रो जप्तव्यमेकाक्षरम् | कतमं च तत् | मुं || एष सः मार्षा ! अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितम् | अमितव्यूहवत्यां लोकधातौ स्थितेन सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनस्यार्थाय अनागतानां च जनतामवेक्ष्य शासनान्तर्द्धानकालसमयं विदित्वा अन्ते युगाधमे रत्नत्रयापकारिणां दुष्टराज्ञां निवारणार्थं ज्येष्ठमौरसं पुत्रं ५४, प्. ३०४) सर्वतथागतानां महास्थामप्राप्ताय बोधिसत्त्वाय महासत्त्वाय दत्तवां | बुद्धाधिष्ठानेन समन्तभद्रस्य दत्तवां | समन्तभद्रो बोधिसत्त्वो महासत्त्वः मञ्जुश्रियस्य कुमारभूतस्य दत्तवां | ततो मञ्जुश्रियेण कुमारभूतेन सर्वसत्त्वानामनुग्रहार्थं महाकरुणावशेन हृदयस्थः स्वमूर्त्तौ स्थापितवां | अनागतकालमवेक्ष्य युगाधमे शासनान्तर्द्धानकालसमये अहमपश्चिमकस्तथागतः दुष्टे काले कलौ युगे मम शासनसंरक्षणार्थं करिष्यत्ययं मन्त्रवतः || अस्य कल्पं वक्ष्ये समासतः | शृणु कुमार ! मञ्जुस्वर ! सुस्वर ! तवैतन्माहात्म्यं कल्पविस्तरम् | अस्य कल्पराजेन्द्रस्य सविस्तरतरं वक्ष्ये || आदौ तावत् पर्वताग्रमारुह्य विशल्लक्षाणि जपेत् | पूर्वसेवा कृता भवति | क्षीराहारेण मौनिना नान्यत्र मन्त्रगतचित्तेन तृशरणपरिगृहीतेन उत्पादितबोधिचित्तेन च मोषधशीलसंवरसमादापनाबोधिसत्त्वसंवरसंवरपरिगृहीतेन जप्तव्यम् | ततः कर्माणि भवन्ति | आदौ तावत् पटं लिखापयितव्यम् | उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैः अन्यतरेण शुचिना चेलखण्डेन पट्टके वा चन्दनकर्पूरकुङ्कुमपर्युपितेन शुचौ देशे शुचिना चित्रकरेण त्रिशुक्लभोजिना शचिवस्त्रप्रावृतेन आदित्योदयकालपरिपूर्णपञ्चदश्यां विशुद्धनक्षत्रेण लिखापयितव्यं याव न्मध्याह्नम् | परतो वर्जयेत् | एवं दिवसे दिवसे यावत् परिसमाप्त इति || आदौ तावत् पटस्य अमितायुर्वतीं लोकधातुमालिखेत् | हस्तमात्रे पटे सुगतवितस्तिचतुरश्रे पट्टके वा समन्तादमितायुर्वतीं लोकधातुं समन्तात् पद्मरागेन्द्रनीलस्फटिकमरकतपर्वतैरधस्तात् उपशोभितं उपरिष्टाच्च तेषां महारत्नविमानोपशोभिताकारं ध्वजपताकोपशोभितोच्छ्रिताकारं तत्र मध्ये रत्नसिंहासनोपविष्टममितायुविनिश्चयराजेन्द्रं तथागतं देशयमानं समन्तप्रभाज्वालामालिनं ईषद्रक्तावदातं वामपार्श्वरत्नोपलनिषण्णं महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वं चामरव्यग्रहस्तं तथागतदृष्टिं वामहस्तबीजपूर्णकफलन्यस्तं प्रियङ्गुश्यामावदातं ५५, प्. ३०५) सर्वालङ्कारालङ्कृतशरीरं समन्तज्वालं दक्षिणपार्श्वे भगवन्तं समन्तभद्रं बोधिसत्त्वं महासत्त्वं रत्नोपलस्थितं चामरव्यग्रहस्तं उद्धूयमानसितविन्यस्तपाणिं वामहस्तेन रत्नपाणिसर्वालङ्काररत्नमकुटविच्छुरितमियङ्गुश्यामावदातं नीलपट्टचलनिकानिवस्तं मुक्तिकाहाररत्नयज्ञोपवीतं समन्तज्वालामालाववद्धं तस्य दक्षिणपार्श्वे आर्यमञ्जुश्रियं रत्नोपलस्थितकं कुमारभूतं पञ्चचीरकोपशोभितं शिरं बालदारकालङ्कारालङ्कृतं कनकवर्णं नीलपट्टचलनिकानिवस्तं मुक्तावलीरत्नव्यतिमिश्रं यज्ञोपवीतं तथागतदृष्टिं ईषत्प्रहसितवदनं सौम्याकारं चारुरूपं कृताञ्जलिपुटं सर्वाकारवरोपेतं लिखापयितव्यम् | तस्याधस्ताद् यथा चे लिङ्गं वेषी संस्थानधारी साधकः पद्ममालां गृह्य जानुकोर्परसंस्थितः अवनतशिरः पटकोणान्तदेशे लिखापयितव्यः | भगवतः उपरिष्टाच्चत्वारो बुद्धाः भगवन्तः लिखापयितव्यः | दक्षिणोद्देशे द्वौ अमिताभः पुण्याभश्च | वामपार्श्वे उपरिष्टाद् द्वौ तथागतौ अभिलिखापयितव्यौ सालेन्द्रराजा रत्नकेतुश्च | समन्तप्रभा समन्तज्वाला कनकवर्णाः सर्वाकारवरोपेता सर्वपुष्पाभिकीर्णा निषण्णा पद्मासनेष्वेव नान्यासनेषु धर्मं देशयमानाः पर्यङ्कोपविष्टाः सौम्याकारा भगवतः उपरिष्टात् पुष्पवर्षं प्रवर्पयमानं मेघान्तर्गतलीन. तथागतविग्रहमुत्पतमानं सुनेत्रनामा अभिलिखापयितव्यः | सर्वाकारवरोपेतं समन्तप्रभाज्वालामालिनं दक्षिणहस्तेन वरप्रदं वामहस्तेन चीवरकर्णकावसक्तम् || एतद् भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य पटविधानम् | एतस्यैव भगवतः अयमेकाक्षरो मन्त्रः | उष्णीषराजोऽयं उष्णीषचक्रवर्त्ती प्रतिस्पर्द्धी समतुल्यवीर्यः तुल्यप्रभावः | अचिन्त्यमस्य गुणविस्तारप्रभावं महर्द्धिकोऽयं महानुभावः | संक्षेपतः सर्वतथागतोष्णीषराजानं महाचक्रवर्तिनमेकाक्षरस्य च यानि कल्पविस्तराणि उक्तानि तानि सर्वाणि करोति | असाधितोऽपि जप्तमात्रः कर्माणि कुरुते | कः पुनर्वादः साधितः | यथेष्टफलसम्पदां ददाति | ईप्सितं भवति | मनसा यदभिरुचितं अस्य पटस्य दर्शनादेव नियतं बोधिपरायणो भवति || ५६, प्. ३०६) तस्यैव भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्याधिष्ठानेन सर्वतथागतहृदय इत्युच्यते सर्वतथागत उष्णीषराजमित्युच्यते | चक्रवर्ति इत्युच्यते | महाचक्रवर्तिराज इत्युच्यते | मञ्जुश्रियः कुमारभूतस्य हृदय इत्युच्यते | एकाक्षर इत्युच्यते | संक्षेपतः अचिन्त्यमस्य प्रभावः | अचिन्त्या हि बुद्धानामधिष्ठानः | अचिन्त्यं बुद्धविकुर्वितम् | असाधितोऽपि अकृतपुरश्चरणोऽपि सर्वगृहारम्भप्रतिष्ठितोऽपि सर्वभक्षमद्यमांसग्राम्यधर्मप्रतिषेविणोऽपि वर्जयित्वा अश्राद्धस्य अनुत्पादितबोधिचित्तस्य | एतेषां नास्ति सिद्धिः | रत्नत्रयोपकारिणां तत्प्रतियत्नोपघातिनां च | एतेषां क्षुद्रकर्मापि न सिद्ध्यन्ति | कः पुनर्वादो मध्यमोत्तमा सिद्धिः | सर्वकामप्रचारभक्ताचारप्रचारस्य साधिकाष्टं कर्मसहस्रं क्षुद्रकर्मप्रयुक्तस्य सिद्ध्यन्ते | कतमे च ते || आदौ तावदेकजप्तः आत्मरक्षा | द्विजप्तः पररक्षा | त्रिजप्तो महारक्षा भवति | महाबोधिसत्वेनापि दशभूमिप्रतिष्ठितेन न शक्यते संक्षोभयितुम् | कः पुनर्वादः तदन्यैः सत्त्वैः | पञ्चरङ्गिकेण सूत्रेण चतुर्जप्तेन कट्यां वेष्टयेत् | शुक्रबन्धः कृतो भवति | स्वप्नोपघातं चास्य न भवेत् | वर्जयित्वा तु स्वेच्छया तदह एव रात्र्यामेको यदि रोचते दिने दिने कर्तव्यः | अथ न रोचते भस्म सप्ताभिमन्त्रितं कृत्वा नाभिदेशं स्पृशेत् | त्रिसप्ताहं शुक्रबन्धः कृतो भवति | पञ्चजप्तो बुद्धं भगवन्तं ध्यात्वा यं स्पृशेत् स वश्यो भवति | चन्द्रमसग्रहे शशिग्रहे शशिमण्डले अर्ककाष्ठैरग्निं प्रज्वाल्य विनापि पटेन पूर्वाभिमुखः आज्याहुतीनां दशसहस्राणि जुहुयात् | राजकुलसमीपे निम्नगानान्तरिते देवावसथे वा नान्तरितं यस्मिं देशे राजा तिष्ठति तत्र समीपे होमकर्मः प्रयोक्तव्यः | प्रभाते राजा वश्यो भवति | यदुच्यते तत् सर्वं करोति | यदा न पश्यते तदा तस्य चित्तं न्यस्तं भवति | मान्द्यो वा भवति | चित्तविक्षेपतां प्रतिपद्यते | भूयो प्रत्यायनं कर्त्तव्यम् | क्षीराहुतीनामष्टसहस्रं जुहुयात् | यत्र वा तत्र वा काले | ततः प्रभृति स्वस्थो भवति | एतत् कर्म श्राद्धानां रत्नत्रयप्रसन्नानां उत्पादितबोधिचित्तानां न कर्तव्यम् | यदि करोति महान्ततरं अपुण्यस्कन्धं प्रसनुयात् | ५७, प्. ३०७) अन्येषामपकारिणं कर्तव्यम् | दुष्टचित्तानां रौद्रचित्तानां दिनेदिने दर्शनं च दातव्यम् | सौम्यचित्ता भवन्ति | यदि न भवन्ति महता अर्थेन वियुज्यन्ते | प्राणावशेषा भवन्ति || पुनरपि कर्मं भवति | चन्द्रग्रहे पलाशसमिद्भिरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् | प्रभाते देशस्वामी राजा भवति मन्त्रापयति मन्त्रितव्यम् | सद्भावमुपदर्शयते | उपदेष्टव्यं षण्मासाभ्यन्तरेण सहस्रपिण्डं ग्रामं ददाति | यद्यर्द्धरात्रं जुहोति त्रिभिर्मासैः | यदि सर्वयामिकं रात्रिं जुहोति मासेनेकेन लभते | यदि मासं जुहोति रात्र्यां रात्र्यां विषयं प्रतिलभते | विषयप्रतितुल्यं वा ग्रामं अन्यं वा यत् किञ्चिद् वित्तम् | अरयो न प्रभवन्ति | यदि सम्प्रभवन्ति पुनरपि कर्म भवति || चन्द्रग्रहे अपामार्गकाष्ठैरग्निं प्रज्वाल्य पलाशसमिधानां ब्राह्मणारे दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् | अन्ते पिचुमन्दपत्राणां कटुतैलाक्तानां आहुतिमष्टसहस्रं जुहुयात् | प्रभाते सौम्या ब्राह्मणा राजा विद्विष्टो भवति || अपरमपि कर्म भवति | चन्द्रग्रहे यथोपपन्नकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् | होमान्ते च यस्यां दिशि प्रभुस्तिष्ठति तस्यां दिशि तद् भस्म क्षिपेत् | स वश्यो भवति | यं ता तं वा यस्मिं वा तस्मिं वा काले रोचते भोगां विस्तरतैः साहाययतां च प्रतिपद्यते | स्वल्पमल्पं वा महान्तं वा ग्राममनुप्रयच्छति विषयं वा | अमोघा च सिद्धिर्भवति षड्भिर्मासैः नियतम् || अथ क्रुद्धचित्तश्चतुर्वर्ण्यो अन्यतरं विकृतस्थाने वा यातो विकृष्टप्रधानलिङ्गेन वा अन्यदेवताभक्तं लौकिकेषु यस्मिं दिशि ते तिष्ठन्ति तदेव वेश्म सोऽस्य देशान्तरं प्रक्रमते | उद्विग्नश्च भवति | रात्रौ प्रपलायते वा | कुटुम्बं वास्य भिद्यते | प्रत्यायनं क्षीराष्टसहस्राहुतयो होतव्यः | स्वस्थो भवति || अपरमपि कर्म भवति | चन्द्रग्रहे तेनैव विधिना बुद्धबोधिसत्त्वप्रतिमापटस्य वा सद्धर्मपुस्तके वा सधातुकगर्भचैत्ये वा शुचिना ५८, प्. ३०८) शुचिवस्त्रप्रावृतेन अहोरात्रोषितेन निष्प्राणकेनोदकेन कर्म कर्त्तव्यम् | शुष्कपुष्पैः सुगन्धैः चन्दनकुङ्कुमपरिपूर्णः कर्पूरधूपधूपितोद्देशं तं कुर्यात् | यत्र कर्म प्रयुज्यते ब्राह्मणारेः पलाशकाष्ठैः क्षत्रियारे अश्वत्थकाष्ठै. वैश्यारेः खदिरकाष्ठैः शूद्रारेस्तदन्यैः काष्ठैः अग्निं प्रज्वाल्य तदेव कर्म कुर्यात् | ब्राह्मणस्य पलाशसमिध क्षत्रियस्याश्वत्थसमिदं वैश्यस्य खदिरसमिधं शूद्रस्य अपामार्गसमिधं तदन्यैर्वा यथालब्धैः राज्यहोमान्ते कुर्यात् | कर्मं तथैव महाराज्ञा अपराजितमूलसमिधं जुहुयात् | अष्टसहस्रं घृताहुतीनां अष्टसहस्रं अन्ते च तस्यां तदेव भस्मं क्षिपेत् | यस्यां दिशि महाराजा तिष्ठति | दुष्टचित्त आगच्छति वा उष्णीषचक्रवर्त्ती एकाक्षरमुद्रं बध्वा क्षिपेत् | उत्पलमुद्रं वा स वित्रस्तो निर्वर्त्तति | भग्नचक्रो वा भवति | अन्यद् वा यत्किञ्चिन्महोत्पातं भवति | महोपसर्गं चित्तदौस्थित्यं येन वाचास्य निर्वर्त्तते || एतानि वा पराणि च यथेष्टानि कर्माणि भवन्ति | वस्त्रमभिमन्त्र्य प्रावरेत् | सुभगो भवति | अक्षिण्यभिमन्त्र्य अञ्जयेत् | सर्वजनप्रियो भवति | सप्ताभिमन्त्रितं कुर्यात् | अक्षिणी मुखं च सर्वतः कृत्वा क्रुद्धस्य मुखं निरीक्षयेत् | स वश्यो भवति | सौम्यश्च पुष्पफलं अन्यं वा यत्किञ्चित्सगन्धं सप्ताभिमन्त्रि कृत्वा राज्ञो निवेदयेत् | स चिघ्रीतमात्रेण वश्यो भवति | अन्यो वा यः कश्चित् सत्त्वः स दर्शनमात्रेणैव वश्यो भवति | सर्वाङ्गशूलेषु अष्टशतमभिमन्त्रितं कृत्वा उष्णवारिणा स्नायीत | स्वस्थो भवति || एतानि कर्माणि कुर्यान्न दुःखितेभ्यः सत्त्वेभ्यः | अनाथे पतिते क्लीबे व्रतिने चेह शासने || रत्नत्रयप्रसन्नेन कुर्यात् तत् कर्म ईदृशम् | स्त्रीषु कर्म न कुर्याद् वै बालवृद्धे तथातुरे || दरिद्रे दुःखिते चापि अल्पसत्त्वे वियोनिजे | न कुर्यात् कर्ममेवं तु महासत्त्वे प्रयोजयेत् || शूरे साहसिके लुब्धे महापक्षे महाधने | अतिमानिने प्रचण्डे च कुर्यात् कर्म ईदृशम् || ५९, प्. ३०९) शासनद्वेषिणे क्रुद्धे परद्रव्यापहारिणे | अश्राद्धे सर्वमन्त्राणां ओषधीनां च योगिनाम् || प्रगल्भे दुष्टचित्ते च नृपे लोककुत्सिते | एतेषु कर्म प्रयुञ्जीत धार्मिकेषु विवर्जितम् || अपरं कर्ममित्याहुः बुद्धैस्तत् परिवर्जितम् | तदेव भस्म क्रुद्धो वै यां दिशं क्षिपते जपी || तत्रस्था अरयः क्रुद्धा नृपतिश्चापि नश्यते | दीर्घग्लान्यतां याति तेऽपि जना ध्रुवम् || महामार्योपसर्गं च तस्मिं देशे तु दृश्यते | न कुर्यात् कर्म एवं तु स कृच्छ्रपतितोऽपि हि || त्रिसप्ताहाद् विनश्यन्ते सर्वे तत्र जनाधिपाः | यावत् तत्कर्मणा पूर्णे द्विसप्ताहा तु संहरेत् || प्रथमे चित्तविक्षेपं द्विसप्ताहे तु ग्लान्यताम् | तृसप्ताहे तथा मृत्युः तस्मात् तं परिवर्जयेत् || प्रथमे विद्रवन्ते ते द्वितीये देशविभ्रमम् | त्रिसप्ताहे तथा नाशं न कुर्यात् कर्म ईदृशम् || केवलं सत्त्ववैनेया निर्दिष्टं लोकनायकैः | न भृशं सम्पदं ह्येते बुद्धा ते शुद्धमानसाः || प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु गर्हितम् | न कुर्यात्तजपी कर्म उत्तमं सिद्धिमिच्छता || नरकोपपत्तिः कामेषु एतेष्वेव प्रदृश्यते | केवलं तु इदं प्रोक्तं कृष्णशुभकर्मफलोदयम् || कर्मवैचित्र्यमाहात्म्यं यथा दृष्टं द्विपदोत्तमैः | शक्तं शुबोदयं नित्यं कृष्णं चास्य शुभप्रदम् || व्यतिमिश्रं तथा कर्म व्यतिमिश्रं तु पठ्यते | तथेदं कर्मवैचित्र्यं दर्शितं तत्त्वदर्शिभिः || ६०, प्. ३१०) तां जापी वर्जयेत् कृष्णं व्यतिमिश्रं कर्म एव वा | शुक्लं भजेत कल्याणं शुभकर्मफलोदयम् || प्राणोपरोधान्नरकं तु जापी याति पुनः पुनः | तन्निवृत्तेस्तथा धर्मः अहिंसः कर्ममुत्तमम् || स्वर्ग तथा सिद्धिः मन्त्राणां च शुभा गतिः | प्राप्यते सुकृतैः कर्मैः विरुद्धैर्विरुद्धमुच्यते || धर्माधर्म मया प्रोक्तं सर्वज्ञत्वं विचेष्टितम् | शुभकर्मसदाजापी आरभेत् सिद्धिलिप्सया || मन्त्रा तस्य सिद्ध्यन्ते जापिनस्य शुभे स्थिते | अनिवर्तनं तस्य मोक्षं वै सितकर्मपरायणे || मन्त्रिणे श्रेयसा सिद्धिः प्रवदन्ति तथागताः | विनयार्थं तु सत्त्वानां कर्मवैचित्र्यमुच्यते || यथेष्टं सहस्रकर्मं तु साधिकाष्ठं च सिद्ध्यते | क्षुद्रकर्म प्रकुर्वीत उत्तमं तु न लभ्यते || मध्यमं सिद्ध्यते किञ्चिद् यत्नाज्जापहोमितम् | अधमं सिद्ध्यते क्षिप्रं विधिदृष्टेन कर्मणा || त्रिविधं कर्म निर्दिष्ट उत्तमाधममध्यमाः | उत्कृष्टरूपी तपस्वी च लभते उत्तमं तथा || मध्यजापी तथा मध्यं कर्मसिद्धिमवाप्नुयात् | स्वल्पजापी तथा नित्यं स्वल्पकर्मसमावृत || लभते क्षुद्रसिद्धिं तु नान्यसिद्धिमवाप्नुयात् | कालप्रमाणजपस्तु होमे दृष्टस्तृधा पुनः || अधिकादधिकं सिद्धि मध्यमध्येषु दृश्यते | स्तोक स्तोकतरं कर्म लभ्यते क्षुद्रसिद्धिरिति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चविंशतिमः एकाक्षरमूलमन्त्र आर्यमञ्जुश्रीहृदयकल्पपटविधानविसरः परिसमाप्त इति || ६१, प्. ३११) अथ अष्टाविंशतितमः पटलविसरः पटलविसरः | अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! अपरमपि त्वदीयपटविधानं साधनौपयिकं सर्वकर्मार्थसाधकम् | एतेनैव तु एकाक्षरेण हृदयमन्त्रेण षडाक्षरेण वामकरान्तेन त्वदीयेन मूलमन्त्रेण वा षडक्षरहृदयेन ओंकाराद्येन एकाक्षरेण वा पटस्याग्रतः अस्यैव कल्पं भवति | पश्चिमे काले पश्चिमे समये मयि तथागते परिनिर्वृते शून्ये बुद्धक्षेत्रे युगाधमे प्राप्ते अत्राणे लोके अशरणे अपरायणे इदमेव कल्पराजा त्राणभूतं भविष्यति | शरणभूतं लयनभूतं परायणभूतम् | कतमं च तत् || आदौ तावत् पूर्वमेवानाहते पटे केशापगते सप्तहस्तायते तृहस्तपृथुके सदशे कुङ्कुमचन्दनरसपर्युषिते बुद्धं भगवन्तं शाक्यमुनिं लिखयेत् | पद्मासनोपविष्टं धर्मं देशयमानं मञ्जुश्रियं कुमारभूतमवलोकयन्तम् | दक्षिणे पार्श्वे सुधनं सुभूमिं आर्याक्षयमतिं मञ्जुश्रियं च भगवतो नमस्कारं कुर्वन्तं कुमाररूपिणं सर्वालङ्कारविभूषिताङ्गं वामपार्श्वे समन्तभद्रं आर्यावलोकितेश्वरं भद्रपालं सुशोभनं च लेखयेत् | भगवत्प्रतिमा ह्रस्वतरा च लेखयितव्या | आर्यावलोकितेश्वरसुधनौ चमरव्यग्रहस्तौ कार्यौ | वसुधा चाधस्तात् | रत्नकरण्डकव्यग्रहस्थाः पूर्वकायविनिर्गताः लेखयितव्या | उपरिष्टाच्च विद्याधरकुमारौ मालाधारिणौ मेघाश्च वर्षमाणाः सविद्युता लेखयितव्याः | सर्वे च बोधिसत्त्वा पुष्पमाणा यो भगवतो मुखं व्यवलोकयन्तः कर्तव्याः | सालङ्काराः प्रसन्नदृष्टयः पूर्वकाये निषीदवनतेन लेखयितव्याः || तमीदृशं पटं सधातुके चैत्ये स्थाप्य पश्चान्मुखमक्षरलक्षं जपेत् | अस्य मञ्जुश्रियः काष्ठमौनी त्रिःकालस्नायी तृचेलपरिवर्त्ती सततपोषधिकः शाकयावकयथाभैक्षभैक्षाहारश्चतुर्भागमन्नं कृत्वा रत्नत्रयस्य भागमेकं अन्यः मञ्जुश्रियः अन्यत् सर्वसत्त्वानां शेषमात्मनोपयुञ्जीत | अक्षान्तकायो मनसि भगवन्तं कृत्वा सर्वसत्त्वानालम्बनेन मनसा नात्मार्थमहं किञ्चित् करोमि करिष्याम्यन्यत्र सर्वसत्त्वानामर्थायेति ध्यात्वा जापं कुर्यात् | ६२, प्. ३१२) स्नानं गन्धं पुष्पं धूपं बलिं प्रदीपांश्च दद्यात् | स्नापनं पटच्छायायाः गन्धानधस्तात् पुष्पाणि च बलिं च सततं दद्यात् | तत्रैव तेषां पूर्वं दद्यात् | रत्नत्रयस्य पश्चान्मैत्रेयस्य तदनन्तरमवलोकितेश्वरस्य आर्यसमन्तभद्रस्य आर्याकाशगर्भस्य आर्याक्षयमतेः कुमारभूतस्य चन्द्रप्रभस्य सर्वनीवरणविष्कम्भिणः आर्यवज्रधरस्य आर्यतारायाः आर्यमहामायूर्या आर्यपराजितायाः भगवत्याः प्रज्ञापारमितायाश्च गन्धं पुष्पं धूपं बलिं च सर्वमेतेषां पूर्वं दत्वा पश्चात् पटस्य दद्यात् || पश्चाद् बहिरेकस्मिं प्रदेशे सर्वोष्ट्रगर्दभश्वहस्तिरूपाणि विनायकानि वल्मीकमृत्तिकया कृत्वा तेषां चाशेषं दद्यात् | अविस्मृत्य पिण्याकपिष्टकतिलकृतकुलत्थमत्स्यमांसमूलकवार्ताकपद्मपत्रकांस- भाजनानि च वर्जयेत् | कुशविण्डकोपविष्टः तत्रैव श्रान्तः सर्वबुद्धानुस्मृतिं भावयेत् | मनसा जापं कुर्यात् | अन्यत्र विविक्ते कुशसंस्तरे शययां कल्पयेत् | अतिपानमतिभोजनं अतिपर्यटनं अतिदर्शनमतिशययां च वर्जयेत् | त्रिः कालं बुद्धानुस्मृति भावयेत् | शुक्रबन्धं च कुर्यात् | शोभनानि च स्वप्नानि नान्यस्य प्रकाशयेत् | भगवतो निवेदयेत् || एवमनुपूर्वेण त्वरमाणः अक्षरलक्षं जपेत् | अन्ते च भगवतीं प्रज्ञापारमितां वाचयेत् | जपकाले भगवतोऽथ मञ्जुश्रियः कुमारभूतस्य मुखमवलोक्य जापं कुर्यात् | अनाकुलाक्षरपदः | अक्षसूत्रान्ते च नमस्कारं कृत्वा निवेदयेत् || अनेन विधिना पूर्वसेवां कृत्वा पटं क्वचित् स्वस्थे स्थाने स्थाप्य कर्म कुर्यात् | यत्र मनसः परितुष्टिरस्ति || पटविधानं समाप्तम् || पश्चाद् भगवन्तं मञ्जुश्रियं श्वेतचन्दनमयं पद्मासनस्थं भगवतीं प्रज्ञापारमितां एकहस्ते दधानं दक्षिणेन फलं दधानं कारयेत् | तमेकस्मिं शुचौ प्रदेशे पश्चान्मुखं स्थापयित्वा तस्याग्रतोऽग्निकुण्डं कुर्यात् | सर्वकर्म सचतुरश्रं द्विवितस्तिप्रमाणं अधश्च गन्धां सर्वधान्यानि च क्षिपेत् | तस्योपरि कुर्यात् || ६३, प्. ३१३) अनेन विधिना नवमग्निमुत्पाद्य अश्वत्थसमिद्भिरग्निं अथवाशोकस्य वा घृततन्दुलोदनं क्षीरदधि मधु च सर्वमुपहृत्य ताम्रभाजने स्थापयित्वा अष्टसहस्रं परिजप्य पूर्णाहुतिं दद्यात् | पश्चादन्यस्मिं दिने शुक्लप्रतिपदमारभ्य कर्म कुर्यात् अश्वत्थसमिद्भिरग्निं प्रज्वाल्य विगतधूमं दृष्ट्वा अग्निमावाहयेत् | आगच्छ हरिपिङ्गल ! दीप्तजिह्व ! लोहिताक्ष ! हरिपिङ्गल ! देहि ददापय स्वाहा || अनेन मन्त्रेणाहुतित्रयं दद्यात् | पश्चाद् भगवन्तमावाहयेत् | आगच्छगच्छ कुमारभूत ! सर्वसत्त्वार्थमुद्यतोऽहं साहाययं मे कल्पय गन्धपुष्पधूपं च प्रतिगृह्ण स्वाहा || यद् ददाति तदनेन दातव्यम् | आगतस्य चार्घो देयः सुगन्धपुष्पपानीयेन पश्चाद्धोमं कुर्यात् | सप्तवारानुदाहृत्य एकैवाहुतिं क्षिपेत् | एवं सप्तदिवसानि घृततन्दुलानि तिलयावकेन चाप्यायनं कुर्यात् || अत्रान्तरादवश्यमार्यमञ्जुश्रियं कुमाररूपिणं पश्यति | द्व्यङ्गुलप्रमाणानां चन्दनसमिधानामष्टसहस्रं जुहुयात् | दिनेदिने शतं पृथिवीपतीनां वशमानयति | जातीकुसुमानां लक्षं जुहुयात् | राजा वश्यो भवति | पद्मानां दधिमधुघृताक्तानां सहस्रं जुहुयात् | द्रव्यं लभते | शमीसमिद्भिरग्निं प्रज्वाल्य तिलां जुहुयात् | धनपतिर्भवति | सततमुदकमुदके जुहुयात् | प्रातरुत्थितः सर्वजनप्रियो भवति | अर्कसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् | सहस्रपिण्डं ग्रामं लभते | बहुपुत्रिकां जुहुयात् | कन्यां यामिच्छति तां लभते | अपामार्गं जुहुयात् व्याधिं प्रशमयति | क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलाहुतीनां लक्षं जुहुयात् | यां चिन्तयित्वा करोति तां लभते | विषयार्थी पद्मानां लक्षं जुहुयात् | विषयं लभते | यवानां लक्षहोमेनाक्षयमन्नमुत्पद्यते | गुग्गुलुपृयङ्गं च घृतेन सह होमयेत् | पुत्रं लभते | अकाकोलीने जातीकुसुमानां पानीये जुहुयात् | सप्ताहेन ग्रामं लभते | जातीकुसुमानां जले एकैकं पुष्पं गृहीत्वा जुहुयात् | अवशेषं खण्डं यस्य घ्राणाय दीयते स घ्राणमात्रेण वश्यो भवति | कुङ्कुमकस्तूरिकालवङ्गपुष्पं च मुखे प्रक्षिप्य जपेत् | ६४, प्. ३१४) येन सह मन्त्रयते स वश्यो भवति | मरीचमष्टसहस्राभिमन्त्रितं कृत्वा मुखे प्रक्षिप्य क्रुद्धोऽपि वचनेन प्रियो भवति | शिखामनेनैव बध्नीयात् | अदृश्यो भवति | शक्रं दृष्ट्वा मनसानुस्मरेद् विगतक्रोधो भवति | नित्यजापेन सर्वजनप्रियो भवति | महति प्रयूषेऽभ्युत्थाय जातीकुसुमसहितं पानीयं शुचौ प्रदेशे भूमौ जुहुयात् | मन्त्री भवति | अनतिक्रमणीयवचनः | भये समुत्पन्ने मनसि कुर्यात् | भयं न भवति | परस्य क्रुद्धस्यापि मैत्रीं भावयित्त्वा अनुस्मृत्य मुकं व्यवलोकयेत् | विगतक्रोधो भवति | सर्वसुगन्धपुष्पैः होमं कुर्याद् यमुद्दिश्य करोति स वश्यो भवति | सप्ताभिमन्त्रितं उदकं प्रत्युषसि पिबेत् | नियतवेदनीयं कर्म क्षपयति | सप्तजप्तेनोदकेन मुखं प्रक्षालयेत् सर्वजनप्रियो भवति | पुष्पाण्यभिमन्त्र्य यस्य ददाति स वश्यो भवति | आचार्यत्वमेकेन लक्षहोमेन तन्दुलानाम् | विषयपतित्वं तिलानां | पद्मानां सहस्रं जुहुयात् | दीनारसहस्रं लभते | वीरक्रयक्रीतां गुग्गुलुसर्जरसं गन्धरसं श्रीवासकं चैकतः कृत्वा जुहुयात् | पञ्चम्यां पञ्चम्यां षण्मासम् | पूर्णे सहस्रगुणं लभते | सर्वगन्धैः प्रतिकृतिं कृत्वा तीष्णशस्त्रेणैकधारेण च्छित्व | च्छित्वा जुहुयात् | दक्षिणेन पादा पुरुषस्य वामपादं स्त्रियः यमिच्छति स वश्यो भवति | सप्ताहं त्रिसन्ध्यं धुत्तूरकपुष्पाणि जुहुयात् | गावो लभते | अर्ककाष्ठैर्धान्यं शिरीषपुष्पैरश्वां अशोकपुष्पैः सुवर्णं व्याधिघातकपुष्पैर्वस्त्राणि लभते | यद् यदिच्छति तत् सर्वं जातीकुसुमहोमेन करोति | यद्वर्णानि पुष्पाणि पानीये जुहोति सवितुरुदये | तद्वर्णानि वस्त्राणि लभते | सप्तजप्तं भाजनं कृत्वा भिक्षामटति भिक्षामक्षयां लभते | रात्र्यामुत्थाय परिजप्यात्मानं स्वयं शोभनानि स्वप्नानि पश्यति || अथ राजानं वशीकर्तुकामं तस्य पादपांसुं गृहीत्वा सर्षपैस्तैलैश्च मिश्रयित्वा जुहुयात् | सप्ताहं त्रिसन्ध्यं वश्यो भवति || राज्ञीं वशीकर्तुकामः सौवर्चलां शतपुष्पां वाराहीं चैकतः कृत्वा जुहुयात् | सप्तरात्रं त्रिसन्ध्यं वश्या भवति | राजमात्यं वशीकर्तुकामः भल्लातकानां तिलां वचां च प्रतिकृतिं कृत्वा जुहुयात् | सप्ताहं सप्तरात्रं च वश्यो भवति || ६५, प्. ३१५) पुरोहितं वशीकर्तुकामः ब्रह्मदण्डीं शतपुष्पां चैकतः कृत्वा जुहुयात् | सप्तरात्रं त्रिसन्ध्यं वश्यो भवति || ब्राह्मणानां वशीकर्तुकामः पायसं घृतसहितं जुहुयात् | सर्वे वश्या भवन्ति || अथ क्षत्रियं वशीकर्तुकामः शाल्योदनं घृतसहितं जुहुयात् | सप्ताहम् || वैश्यानां वशीकरणे यावकां गुडसहितां जुहुयात् | वश्यो भवति || पिण्याकं जुहुयात् | शूद्रा वश्या भवन्ति || सर्वानेकतः कृत्वा जुहुयात् सर्वे वश्या भवन्ति || चतुःपथे एकशून्ये गृहे वा बलिं निवेद्य योऽस्य ग्लानः स तस्माद् विनिर्मुक्तो भवति || मुखं स्पृशं जपे ज्वरमपगच्छति | अष्टशतजप्तेन शिखाबन्धेन सर्वव्याध्भ्यः परिमुच्यते | सर्वरोगेभ्यः मूश्रकं बध्वा शिखाबन्धं कृत्वा स्वप्तव्यं | सर्वरोगा अपगच्छन्ति | व्याधिना ग्रस्तः जपमात्रेण मुच्यते | गलग्रहे वल्मीकमृत्तिकां जप्त्वा लेपः कार्यः | व्याधिरपगच्छति | अक्षिरोगे नीलीकलिकानि जुहुयात् | व्युशाम्यति || पटविधानस्यार्तरिकर्म्मः || पूर्वोक्तेन विधानेन अनाहते पटे केशापगते आर्यमञ्जुश्रीः कुमारभूतः आभिलेख्यः सर्वालङ्कारविभूषितः | रक्तवर्णः कुमाररूपी पद्मासनस्थः | दक्षिणपार्श्वे आर्यावलोकितेश्वरः वामपार्श्वे समन्तभद्रः | आर्यमञ्जुश्रियस्य किञ्चिदूनौ | तं पटं स्थापयित्वा कोटिं जपेत् | राजा भवति || चन्दनसमिधानां कुङ्कमाभ्यक्तानां लक्षं जुहुयात् | राजा भवति | अगरुसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् | राजा भवति | जातीकुसुमानां घृताक्तानां कोटिं जुहुयात् | राजा भवति || ६६, प्. ३१६) यत्प्रमाणानां पद्मानां राशिं जुहोति तत्प्रमाणानां दीनाराणा राशी लभते | यावद् यावत् तावज्जप्यमानां न गृह्णाति तावद् विद्याधरचक्रवर्ती भवति | भल्लातकानां लक्षं जुहुयात् दीनारसहस्रं ददाति | व्याधिघातकफलानां लक्षं जुहुयात् महाधनपतिर्भवति | अष्टसहस्रहोमेन गुग्गुलुसमिधानां धान्यं लभते | सतततिलहोमेनाव्यवच्चिन्नं धान्यं लभते | गोतण्डुलानां लक्षं जुहुयात् | सह दध्ना गोसहस्रं लभते | बहुपुत्रिकाफलानि शमीफलानि चैकतः कृत्वा जुहुयात् | यामिच्छन्ति कन्यां तां लभते | शमीपत्राणि जुहुयात् | सर्वकामदो भवति | अगस्तिपुष्पाणि क्षीराक्तानि जुहुयात् | ब्राह्मणवशीकरणा | करवीरपुष्पाणि शुक्लानि जुहुयात् | क्षत्रियवशीकरणे | कर्णिकारपुष्पाणि जुहुयाद्राजा वशीकरणे | धुत्तूरकपुष्पाणि जुहुयात् | शूद्रवशीकरणे | अर्कपुष्पाणां दधिमधुघृताक्तानां लक्षं जुहुयात् | सर्वव्याधिभ्यः परिमुच्यते || अनेनैव विधिना पुष्पाणां सुगन्धानां लक्षं पादमूले निवेदयेत् | नित्यसुखी भवति | अश्वत्थसमिद्भिरग्निं प्रज्वाल्य शमीपुष्पाणां सहस्रं जुहुयात् | नक्षत्रपीडा व्युपशाम्यति | गोरोचनया मन्त्रमभिलेख्य शिरसि बध्वा सङ्ग्रामेऽवतरेत् | शस्त्रैर्न स्पृश्यते | हस्तिस्कन्धे मञ्जुश्रियमग्रतो बलस्य दत्त्वा दर्शनमात्रेणैव परबलस्य भङ्गो भवति | ध्वजाग्रे कुमाररूपिणं सौवर्णमयूरासनस्थं कृत्वा सङ्ग्राममवतरेत् | दर्शनादेव परबलस्य भङ्गो भवति | जातीकुसुमानां पादमूले लक्षं निवेदयेत् | तत्रैव कुशसंस्तरे शययां कुर्वीत | स्वप्ने यथाभिलषितं कथयति | प्रदीपानां सहस्रं दत्त्वा एकप्रदीपं पद्मसूत्रवर्त्तिं कृत्वा मधुयष्टिं वेष्टयित्वा प्रज्वाल्य पश्येद् यथाभूतं मञ्जुश्रियं कुमारभूतं पश्यति || द्वितीयं पटविधानं समाप्तम् | सौवर्णं रजतं वा कुमारं कृत्वा वरदं दक्षिणेन पाणिना | वामेन भगवतीं प्रज्ञापारमितां दधानं तमीदृशं सधातुककरण्डकं पुरतः स्थाप्याक्षरलक्षं जपेत् | पूजां वासरिणां कुर्यात् | बालदारकदारिकाश्चास्याग्रतो भोजयितव्या | ६७, प्. ३१७) गीतं वादितं पुस्तकवाचनं चाकुर्यात् | जपपरिसमाप्तौ पुष्पत्रयेणार्घं दत्वा प्रेषयेत् | पूर्वोक्तेन विधानेनावाहनविसर्जनं पद्ममुद्रां बध्वा जापं कुर्यात् | ध्वजमुद्राया आवर्त्तनं स्वस्तिकमुद्रया आसनं पूर्णमुद्रायार्घं एकलिङ्गमुद्राया पुष्पाणि मनोरथमुद्राया प्रदीपं यमलमुद्राया धूपं मयूरासनमुद्राया गन्धं यष्टिमुद्राया बलिं अनेन विधानेन रात्रौ दिनेदिने कुर्याद् यावज्जापपरिसमाप्तिरिति | पश्चात् कर्माणि कुर्यात् || जातीकुसुमानां समुद्रगामिन्यां नद्यां लक्षं प्लावयेत् | विषयं लभते | रात्रौ जातिकुसुमौघं कृत्वा भगवतः पुरतः स्वपेत् | भगवन्तं पश्यति धर्म देशयमानं बोधिसत्त्वपरिवृतं यमुद्दिश्य करोति तदेव कम कुर्यात् | नान्यस्य कुर्यात् | उपोषधिकेन शुक्लप्रतिपदमारभ्य श्रीवासकधूपं मधुमिश्रं जुहुयात् राज्यं लभते | कोटि जपेत् मञ्जुश्रियं स्वयमेव पश्यति धर्मदेशनां च करोति | यदि केनचित् सहोल्लापयति सम्मुखमवभाषते अवैवर्त्तिकश्च बोधिसत्त्वो भवति || तृतीयं विधानम् | रक्तचन्दनमयं कुमाररूपिणं एकेन पार्श्वेन प्रियंकरं अन्येन वीरमती साशोकवृक्षाश्रयां कारयेत् | तमेकपार्श्वे स्थापयित्वा लवणसर्पपराजिकाव्यामिश्रेण रक्तचन्दनप्रतिकृतिं कृत्वा च्छित्वा च्छित्वा जुहुयाद् यस्य नाम्ना स वश्यो भवति | उदुम्बरफलानि यस्य नाम्ना जुहुयात् स वश्यो भवति | काकोदुम्बरिकाफलानि जुहुयाद् यस्य नाम्ना स वश्यो भवति | शृङ्गाटकं जुहुयात् ब्राह्मणवशीकरणे पद्ममूलानि क्षत्रियवशीकरणे कशेरुकाणि जुहुयात् | वैश्यवशीकरणे शालूकानि जुहुयात् | शूद्रवशीकरणे लवणशर्कराणामष्टसस्रं जुहुयात् | त्रिसन्ध्यं सप्ताहं यस्य नाम्ना जुहोति स वश्यो भवति | निम्बपत्राणि कटुतैलाक्तानि जुहुयात् आहुत्याष्टसहस्रं त्रिसन्ध्यं सप्ताहं यस्य नाम्ना स वश्यो भवति | सर्वेण होमेन वशीकरणम् || बृहतीकुसुमानां लक्षं जुहुयात् सुवर्णं लभते | कालाञ्जनिकाकुसुमानामष्टसहस्रं जुहुयात् महान्तं ग्रामं लभते | पाटलपुष्पाणि जुहुयाद् धान्यमक्षयं लभते | ६८, प्. ३१८) श्रीपर्णीपुष्पाणि जुहुयात् सुवर्णं लभते | वचां दधिमधुघृताक्तां जुहुयात् सर्ववादेषूत्तरवादी भवति | ब्राह्मीरसघृतसहितं ताम्रभाजने स्थापयित्वा तावज्जपेद् यावद् दशसहस्राणि पश्चात् पिबेत् सर्ववादिनो विजयते | यस्य क्रुद्धस्याष्टसहस्राभिमन्त्रितं कृत्वा लोष्टं क्षिपेत् पुरतः स क्रोधः मुञ्चति || चतुर्थं विधानम् | अनाहते पटे केशापगते उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रियश्चित्रापयितव्यः | पद्मासनोपविष्टं धर्म देशयमानं दक्षिणपार्श्वे आर्यमहामेखला वामपार्श्वे चार्यप्रज्ञापारमिता जापवती सर्वालङ्कारविभूषिता शुक्लवस्त्रनिवसना | तस्याधस्तात् पद्मसरः बहुविधपुष्पसङ्कीर्णः नागराजानौ अकायविनिर्गतौ पद्मदण्डधृतहस्तौ आर्यापराजिता चैकस्मिं विघ्नविनायकां नाशयन्ती अग्निज्वालामुखी भृकुटीकृतलोचनां अन्यस्मिं पार्श्वे आर्यपर्णशबरी पाशपरशुव्यग्रहस्ता कृष्णरक्तनेत्रा मयूरपृष्ठाभिरूढा साधकं परिरक्षन्ती | साधकश्च पद्ममालाव्यग्रहस्थाः भगवतो मञ्जुश्रियमुखं व्यवलोकयमानः उपरिष्टाच्चामरपुष्पमालादुन्दुभिधारिणौ देवपुत्रौ लेखयितव्यौ || तं पटं पश्चान्मुखं स्थाप्य सधातुके चैत्ये कोटिं जपेत् | जपान्ते च महतीं पूजां कृत्वा भगवतीं प्रज्ञापारमितां वाचयित्वा दशसहस्राणि जपेत् | मञ्जुश्रियो मुखं व्यवलोकयमानः | पश्चात् पटं कम्पते | राज्यं लभते | चक्षुश्च लभते | विद्याधरो भवति | हसते चक्रवर्त्ती भवति | भाषणे बोधिसत्त्वः प्रथमभूमिप्रतिलब्धो भवति | धर्मदेशनां चास्य शृणोति || तस्यैव पटस्याग्रतः कपिलायाः समानवत्सायाः गोघृतं गृह्यताम्रभाजने स्थाप्य तावज्जपेद् यावदूष्मायति | धूमायति | प्रज्वलति | ऊष्मायमानं पीत्वा परममेधावी भवति | श्रुतिधरः धूमायमानेऽन्तर्द्धानम् ज्वलमाने आकाशगमनम् | आमशरावसम्पुटे स्थाप्य ६९, प्. ३१९) वचां जातीकुसुमैर्वेष्टयित्वा तावज्जपेद् यावदङ्कुरीभवति | तां भक्षयित्वा श्रुतिधरो भवति | अन्यां कोटि जपेत् मञ्जुश्रियं साक्षात् पश्यति | धर्मदेशनां च शृणोति | तां चाधिमुच्यते || सौवर्णपद्मं शतपत्रं कारयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलतीति | तेन गृहीतमात्रेण विद्याधराणां चक्रवर्ती भवति परैरधर्षणीयः | मनःशिलां हरितालमञ्जनं वा श्रीपर्णीसमुद्गके प्रक्षिप्य तावज्जपेद् यावत् खुट्खुटाशब्दं करोति | गृहीतमात्रेण भूमिचराणां राक्षसपिशाचानामधिपतिर्भवत्यधृष्यः | खड्गं गृह्य सल्लक्षणसङ्कीर्णं अव्रणं तावज्जपेद् यावदहिरिव फणं कृत्वा तिष्ठति | तं गृह्य विद्याधरचक्रवर्ती कल्पायुरधृष्यः | मनःशिलां तृलोहपरिवेष्टितां कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायतीति | अदृश्यो भवति | खड्गहर्ता अदृश्यः सर्वाणि कुशलोपसंहितानि करोति | वर्जयित्वा कामोपसंहितम् | शमीवृक्षरूढस्याश्वत्थस्य सारं गृह्य तृलोहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायति | अधृष्यो भवति वर्षसहस्रं जीवति || रजतं चक्रं कृत्वा असुरविवरस्याग्रतः तावज्जपेद् यावच्चक्रं असुरजन्त्राणि भित्त्वा प्रविशति | तत्क्षणमेवासुरयुवतयो निर्गच्छन्ति | ताभिः सह प्रविश्य कल्पस्त्थायी भवति | लोहमयं तृशूलं कृत्वा तस्मिं विवरद्वारे जापं करोति तत्र सर्वयन्त्राणि स्फुटन्ति | यावद्भिः सहेच्छति तावद्भिः सह प्रविशति | कल्पस्थायी भवति | मैत्रेयं च भगवन्तं पश्यति || पञ्चमं पटविधानम् | श्वेतार्कमयं अङ्गुष्ठमात्रं भगवन्तं मञ्जुश्रियं कारयित्वा अर्कपुष्पाणां लक्षं निवेदयेत् | सामन्तराज्यं प्रतिलभते | श्वेतकरवीरमूलमयं कृत्वा अङ्गुष्ठमात्रमेव तत्पुष्पाणामेकां कोटिं निवेदयेत् मन्त्री भवति | करहाटवृक्षमयं वितस्तिप्रमाणमात्रं कारयित्वा तत्पुष्पाणां लक्षं निवेदयेत् | सेनापत्यं लभते | श्वेतचन्दनमयं वितस्तिप्रमाणमात्रं भगवन्तं मञ्जुश्रियं कृत्वा जातीकुसुमानां लक्षं निवेदयेत् | पुरोहित्यं लभते | अश्वत्थवृक्षमयं अङ्गुलमात्रप्रमाणं भगवन्तं मञ्जुश्रियं कारयित्वा ७०, प्. ३२०) अकाकोलीने पानीयकुम्भं निवेदयेत् | बहुजनसम्मतो भवति | सर्वगन्धमयं कृत्वा सर्वगन्धपुष्पैर्निवेदितैः यमिच्छति तमाप्नोति | सतत्तसमितमगरुसमिधानां जुहुयात् मन्त्री बहुजनस्य सम्मतो भवति | सततजापेन पञ्चानन्तर्याणि विक्षिपयति | मरणकाले मञ्जुश्रियं पश्यति | धर्मदेशनां चास्य करोति | उत्थायोत्थाय अष्टशतं जपेत् सर्वसत्त्वानामधृष्यो भवति | अक्षिणी परिजप्य स्वामिनं पश्येत् | प्रसादवां भवति | यमुद्दिश्य कर्मकरो तत्रस्थं सप्तभिर्दिवसैः ग्रामान्तरस्थं एकविंशतिभिर्दिवसैः विषयान्तरस्थं चतुर्भिः मासैः नद्यन्तरितं षड्भिर्मासैः स्वकुलविधानेनान्यमन्त्रविधानेन चाशेषं कर्मं करोति | वर्जयित्वा कामोपसंहितम् | आभिचारुकं चेति || षष्ठो विधानः | इत्युक्तं युगान्तेहितं * * * * * * (?) तथा | सत्त्वानामल्पपुण्यानां हितार्थं मुनिना पुरा || शासनान्तर्हिते शातु शाक्यसिंहस्य तापिने | सिद्धिं यास्यते तस्मिं काले रौद्रेऽतिभीरवे || सप्तमं वक्ष्यते ह्यत्र कल्पराजे सुखावहे | ममैतत् कथितं कल्पं तस्मिं काले सुदारुणे || सत्त्वानामल्पपुण्यानां मार्गो ह्येष प्रवर्तितः | बोधिसम्भारहेतुत्वं त्रियानपथनिम्नगम् || उपायकौशल्यसत्त्वानां दर्शयामि तदा युगे | तृष्णामूढा हि वै सत्त्वा रागद्वेषसमाकुला || तेषां दर्शयाम्येतं मार्गं तृष्णावशानुगम् | तृष्णाबन्धनबद्धास्तु कुशलं वा कर्महेतुतः || सिद्धिसाध्यं तथा द्रव्यं मन्त्रतन्त्रं समोदितम् | विनयार्थं तु सत्त्वानां कथितं लोकनायकैः || एतत् कर्मस्य माहात्म्यं साधकानां तु जापिनाम् | इत्युक्त्वा मुनिवरो ह्यग्र शाक्यसिंहो नरोत्तमः || ७१, प्. ३२१) कथित्वा मन्त्रतन्त्राणां बलं वीर्यं सविस्तरम् | अमोघं दर्शयेत् सिद्धिं तस्मिं काले युगाधमे || शुद्धावासं तदा वव्रे देवसङ्घा जिनोत्तमो | यमेतन्मार्षा प्रोक्तं कल्पराजं सविस्तरम् || सर्वलोकहितार्थाय मञ्जुघोषस्य शासनमिति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षड्विंशतिमः कर्मविधानार्यमञ्जुश्रीयपरिवर्त्तपटलविसरः परिसमाप्त इति | ७२, प्. ३२२) अथैकोनत्रिंशः पटलविसरः | अथ बह्गवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये कल्पविधानपरिवर्ते सप्तमः पटकर्मविधानं यो तस्मिं काले तस्मिं समये युगान्ते साधयिष्यन्ति अमोघा तस्य सिद्धिर्भविष्यति | सफलाः सुखादयाः सुखविपाकाः दृष्टधर्मवेदनीया सर्वदुर्गतिनिवारणीया नियतं तस्य बोधिपरायणीया सिद्धिर्भविष्यति || अथ भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य हृदयं भाषते स्म || षडक्षरं षड्गतिमोचनात्मकं अचिन्त्यतुल्याप्रतिमं महर्द्धिकम् | विमोचकं सर्वभवार्णवार्णवं तृदुःखदुःखा भवबन्धबन्धनात् || असह्यं सर्वभूतानां सर्वलोकानुलिप्तकम् | अधृष्यं सर्वभूतानां भवमार्गविशोधकम् || प्रापकं बुद्धधर्माणां सर्वदुष्टनिवारणम् | अनुमोदितं सर्वबुद्धैस्तु सर्वसम्पत्तिकारकम् || उत्कृष्टः सर्वमन्त्राणां मञ्जुघोषस्य शासने | कतमं च तत् | ओं वाक्येद नमः || अस्य कल्पं भवति | शाकयावकभिक्षभैक्षाहारो वा त्रिःकालस्नायी त्रिचेलपरिवर्त्ती अक्षरलक्षं जपेत् | पूर्वसेवा कृता भवति || ततः अच्छिन्नाग्रदशके पटे पोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रीश्चित्रापयितव्यः पद्मासनस्यो धर्मं देशयमानः सर्वालङ्कारविभूषितः कुमाररूपी मुक्तोत्तरासङ्गः तस्य वामेन आर्यावलोकितेश्वरः पद्महस्तः चामरव्यग्रहस्तः दक्षिणेन आर्यसमन्तभद्रः उपरि मेघगर्भविनिर्गतौ विद्याधरौ मालाधारिणौ लिखापयितव्यौ अधस्तात् साधको धूपकटच्छकव्यग्रहस्तः समन्तात् पर्वतशिखरा लिखापयितव्या | अधस्तात् पद्मसरः || ७३, प्. ३२३) सधातुके चैत्ये पटं पश्चान्मुखं प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपांश्च प्रज्वाल्य जातीपुष्पाणां अष्टसहस्रेण एकैकमभिमन्त्र्य मञ्जुश्रीमुखे ताडयेत् | ततो महागम्भीरहुङ्कारशब्द श्रूयते | पटो वा प्रकम्पते | हुङ्कारशब्देन सार्वभौमिको राजा भवति | पटप्रकम्पने सर्ववादिषूत्तरवादी भवति | सर्वलोकैकशास्त्रज्ञः अथ न सिद्ध्यति सर्वकर्मसमर्थो भवति || अयं प्रथमः कल्पः | अगरुसमिधानामध्यर्द्धमङ्गुलप्रमाणानां निर्धूमेषु खदिराङ्गारेषु कृत्स्नां रात्रिं तुरुष्कतैलाक्तानां जुहुयात् | अरुणोदये आर्यमञ्जुश्रियं पश्यति | सोऽस्य यथेप्सितं वरं ददाति | वर्जयित्वा कामोपसंहितम् || तस्यैव पटस्याग्रतः चन्दनधूपमव्यवच्छिन्नं इदं कृत्स्नां रात्रिं जपेत् | ततः आर्यमञ्जुश्री साक्षामागच्छति गम्भीरां धर्मां देशयति | तामधिमुच्यति | अधिमुच्य सर्वव्याधिविनिर्मुक्तः वशिता प्राप्तो भवति || रक्तचन्दनमयं पद्मं कृत्वा षडङ्गुलपरिणाहं सनालं रक्तचन्दनेन म्रक्षयित्वा सहस्रं सम्पाताहुतं सहस्राभिमन्त्रितं कृत्वा पूर्णमास्यां पटस्याग्रतः पद्मपत्रे स्थाप्य हस्तेनावष्टभ्य तावज्जपेद् यावत् प्रज्वलित इति | तेन गृहीतेन द्विरष्टवर्षाकृतिः तप्तकाञ्चनप्रभः भास्करस्योपिरकेतेजा देवकुमारः सर्वविद्याधरनमस्कृतः महाकल्पं जीवति | भिन्ने देहे भिरत्यामुपपद्यते || चन्द्रग्रहे श्वेतवचां गृह्य पञ्चगव्येन प्रक्षाल्य अश्वत्थपत्रैरवष्टम्भयित्वा तावज्जपेद् यावदूष्मायति धूमायति ज्वलति | सर्वजनवशीकरणः सर्ववादिविजयी धूमायमाने अन्तर्द्धानं त्रिंशद्वर्षसहस्राणि जीवति | ज्वलिते आकाशगमनं महाकल्पं जीवति || कपिलायाः समानवत्सायाः घृतं गृह्य ताम्रभाजनं सप्तभिरश्वत्थपत्रैः स्थाप्य तावज्जपेद् यावत् त्रिविधा सिद्धिरिति | तं पीत्वा श्रुतिधरमन्तर्धानाकाशगमनमिति || ७४, प् ३२४) पुष्करबीजं मुखे प्रक्षिप्य चन्द्रग्रहे तावज्जपेद् यावच्चुलुचुलायति | त्रिलौहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्यान्तर्हितो भवति | उद्गीर्णायां दृश्यति || लवङ्गगन्धं मुखे प्रक्षिप्य षड्लक्षं जपेत् | यमालपति स वश्यो भवति | क्षीरयावकाहारः लक्षं जपेद् विद्याधरो भवति | भिक्षाहारः काष्ठमौनी लक्षं जपे अन्तर्हितो भवति | कोटिं जपेदार्यमञ्जुश्रीस्तथा धर्मं देशयति यथा चरमभविको बोधिसत्त्वः भवति | सततजापेन सर्वार्थवृद्धिर्भवति || सर्वगन्धैर्यस्य प्रतिकृतिं कृत्वा च्छित्वा जुहोति स सप्तरात्रेण वश्यो भवति | गुग्गुलुगुलिकानां बदरास्थिप्रमाणानां घृताक्तानां शतसहस्रं जुहुयाद् दीनारलक्षं लभति || समुद्रगामिनीं नदीमवतीर्य पद्मानां शतसहस्रं निवेदयेत् | पद्मराशितुल्यं महानिधानं पश्यति | क्षयं न गच्छति | गौरसर्षपाणां कुङ्कुमाभ्यक्तानां अष्टसहस्रं जुहुयात् | राजा वश्यो भवति | तिलानां दधिमधुघृताक्तानां शतसहस्रं जुहुयात् | सर्वन्ददो महागृहपतिर्भवति | अपतितगोमयेन मण्डलकं कृत्वा मुक्तपुष्पैरभ्यवकीर्याष्टशतं जपेत् | ततः सद्धर्मपुस्तकं वाचयेत् | मासेन पर्ममेधावी भवति | रोचनाष्टशतं कृत्वा तिलकं कुर्यात् | सर्वजनप्रियो भवति | शिखां सप्तजप्तां कृत्वा सर्वसत्वानामावध्यो भवति | किरिमालं दशसहस्राणि जुहुयात् | सर्वव्याधिर्मुच्यते | दिनेदिने सप्तवारां जपेत् | नियतवेदनीयं कर्म क्षपयति अथाष्टशतजपेन मरणकालसमये समस्तं सम्मुखं आर्यमञ्जुश्रियं पश्यतीति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तविंशतिमः मञ्जुश्रीपटविधानपरिवर्तकर्मविधिः सप्तमकपटलविसरः परिसमाप्तमिति | ७५, प्. ३२५) अथ खलु भगवां शाक्यमुनिः पुन्रपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः त्वदीयमन्त्रतन्त्रे विद्याराज्ञां चक्रवर्त्तिप्रभृतीनां सर्वतथागतोष्णीषप्रमुखानां सर्वमन्त्राणां सिद्धिस्थानानि भवन्ति | तत्रोत्तरापथे सर्वत्र ताथागती विद्याराज्ञः सिद्धिं गच्छन्ति संक्षेपतः || चीने चैव महाचीने मञ्जुघोषोऽस्य त्रस्यति | ये च तस्य मन्त्रा वै सिद्धिं यास्यन्ति तत्र वै || उष्णीषराज्ञां सर्वत्र सिद्धिर्दृश्येयु तत्र वै | काविशे वखले चैव उदियाने समन्ततः || कश्मीरे सिन्धुदेशे च हिमवत्पर्वतसन्धिषु | उत्तरां दिशि निःसृत्य मन्त्रा सिद्ध्यन्ति श्रेयसाः || ये च गीता पुरा बुद्धैः अधुना च प्रवर्त्तिता | अनागता च सम्बुद्धैः उद्गीर्णा शान्तिहेतवः || सर्वे वै तत्र सिद्ध्यन्ति हिमाद्रिकुक्षिसम्भवे | जनपदे श्रेयसे भद्रे शान्तिं कर्तु समारभे || मध्यदेशे तथा मन्त्राः सिध्यन्त्येते पद्मसम्भवा | गजोमानिकुले चापि सिद्धिस्तत्र प्रदृश्यते || पञ्चिकस्य च यक्षस्य हारीत्या यक्षयोनिजा | गान्धर्वा ये तु मन्त्रा वै सिद्धिस्तेषां समोदिता || काशिपुर्यां ततो नित्यं मगधेषु समन्ततः | अङ्गदेशे तथा प्राच्यां कामरूपे समन्ततः || लौहित्यां तु तटे रम्ये वङ्गदेशेषु सर्वतः | जम्भलस्य भवेत् सिद्धि तथा मणिकुलोदिते || समुद्रतीरे द्वीपेषु सर्वतत्र जलाश्रये | सिंहलानां पुरी रम्या सिद्ध्यन्ते मन्त्रदेवता || ७६, प्. ३२६) भृकुटी चैव महाश्रिया यशस्विनी | सिताख्याः सर्वमन्त्रास्तु चतुःकुमार्या महोदधौ || सिध्यन्ते तत्र वै स्थाने पूर्वदेशे समन्ततः | विन्ध्यकुक्षिनिविष्टाश्च अग्रेन्द्रे च समन्ततः || कार्तिकेयोऽथ मञ्जुश्रीः सिद्ध्यन्ते च समन्ततः | शृङ्गारगह्वरः कुक्षाद्रेः कन्दरे च सकानने || सिद्धिर्विनायकां तत्र विघ्नकर्ता सजापिनाम् | हस्ताकारसमायुक्तानेकदन्तां महौजसाम् || अश्वरूपा तथानेका कारशालिनाम् | ईशानस्य सुतां दिव्यां विविधां विघ्नकारकाम् || तत्प्रोक्ता मन्त्रयुक्तांश्च सिद्धिक्षेत्रं प्रदृश्यते | मातरा विविधाकारां ग्रहांश्चैव सुदारुणाम् || प्रेतायोनिसमादिष्टा मानुषाहारनैरृताम् | प्रेतराज्ञः समादिष्टं सिद्धिक्षेत्रं ततोदितम् || तदाद्यात् सर्वभूतानां सिद्धिक्षेत्रं समादिशेत् | वज्रक्रौञ्चो महावीर्यः सिद्ध्यन्ते तत्र वै दिशे || आसुरा मन्त्रमुख्यास्तु ये चान्ये लौकिकास्तथा | सिद्ध्यन्ते तत्र मन्त्रा वै दक्षिणां दिशिमाश्रिताः || प्रेतराज्ञस्तथा नित्यं यमस्यैव विनिर्दिशेत् | सिद्ध्यन्ते जात्यमन्त्रांस्तु सशैवा च सवैष्णवा || क्रूराश्चाक्रूरकर्मेषु क्षेत्रमादिष्वदक्षणम् | वज्रपाणिसमादिष्टा मन्त्राः क्रूरकर्मिणः || दक्षिणापथमासृत्य सिध्यन्ते पापकर्मिणाम् | अशुभं फलनिष्फत्तिं दृश्यते तत्र वै दिशे || आदित्यभाषिता ये मन्त्राः सौम्याश्चैव प्रकीर्तिताः | ऐन्द्रा मन्त्राः प्रसिध्यन्ते पश्चिमे दिशि शोभने || ७७, प्. ३२७) स्वयं तत्र सिध्येत यक्षेन्द्रोऽत्र महर्द्धिकः | धनदः सर्वभूतानां बालिशानां तु मोहिनाम् || चित्तं ददाति जन्तूनां विधिदृष्टेन हेतुना | सिद्ध्यन्ते पश्चिमे देशे भोगवानर्थसाधकः || धनदो नाम नामेन विश्रुतोऽत्र महीतले | वज्रपाणिः स्वयं यक्षः बोधिसत्त्वो महर्द्धिकः || मन्त्रमुख्यो वरश्रेष्ठो दशभूमाधिपः स्वयम् | सिद्ध्यन्ते सर्वमन्त्रा वै वज्राब्जकुलसम्भवा || तथाष्टकुलिका मन्त्रा अष्टभ्यो दिक्षु निश्रिता | उत्तरायां दिशि सिध्यन्ते मन्त्रा वै जिनसम्भवा || पूर्वदेशे तथा सिद्धिः मन्त्रा वै पद्मसम्भवा | दक्षिणापथनिशृत्य सिध्यन्ते कुलिशालयाः || पश्चिमेन गजः प्रोक्ता विदिशे मणिकुलस्तथा | पश्चिमे चोत्तरे सन्धौ सिद्धिस्तेषु प्रकल्पिता || पश्चिमे दक्षिणे चापि सन्धौ यक्षकुलस्तथा | दक्षिणे पूर्वदिग्भागे श्रावकानां महौजसाम् || कुलाख्यं तेषु दृष्टं वै तत्र स्थानेषु सिध्यति | पूर्वोत्तरे दिशाभागे प्रत्येकानां जिनसम्भवम् || कुलाख्यं बहुमतं लोके सिद्धिस्तेषु तत्र वै | अधश्चैव दिशाभागे सिध्यन्ते सर्वलौकिका || पातालप्रवेशिका मन्त्रा वै सिध्यन्तेऽष्टकुलेषु च | लोकोत्तरा तथा मन्त्रा उष्णीषाद्याः प्रकीर्तिताः || सिद्धिमायान्ते ते ऊर्ध्वं चक्रवर्तिजिनोदिता | दिक्समन्तात् सर्वत्र वज्रिणस्य तु सिद्ध्यति || तथान्ये मन्त्रराट् सर्वे अब्जयोनिसमुद्भवा | सिद्ध्यन्ते सर्वदा सर्वे सर्वमन्त्राश्च भोगदा || सिद्ध्यन्ते सर्वकालेऽस्मिं वज्राब्जकुलयोरपि | एतत् क्षेत्रं तु निर्दिष्टं कालं तत् परिकीर्त्यते || ७८, प्. ३२८) उत्पत्तेः सर्वबुद्धानां मन्त्रसिद्धि जिनोदिताम् | मध्यकाले तु बुद्धानां अब्जवज्रसमुद्भवाम् || मन्त्राणामन्यकालेऽस्मिन् तदन्येषां मन्त्रशालिनाम् | सिद्धिश्च कालतः प्रोक्ता नान्यकाले प्रकीर्त्तिता || तपसादुत्तमा सिद्धिस्त्रिभिर्जन्यैरवाप्नुयात् | सातत्यजापिनां मन्त्रं तद्भक्तां गतमानसाम् || प्रसन्नानां जिनपुत्राणां इह जन्मेऽपि सिध्यति | रत्नत्रये च भक्तानां बोधिचित्तविभूषिताम् || संवरस्थां महाप्राज्ञं तन्त्रमन्त्रविशारदाम् | मन्त्राः सिद्ध्यन्त्ययत्नेन बोधिसंवरतस्थिताम् || सत्वानां कर्मसिद्धिस्तु आत्मसिद्धिमुदाहृता | सिद्धा एव सदा मन्त्रा असिद्धा सत्त्वमोहिता || अत एव जिनेन्द्रैस्तु कल्पराज उदाहृतः | सविस्तरकृथा मन्त्रं बुद्धश्रेष्ठो हि सप्तमः || स वव्रे मुनिमुख्यस्तु बुद्धचन्द्रो महर्द्धिकः | ज्येष्ठं च बुद्धपुत्रं तं मञ्जुघोषो महौजसम् || शृणु त्वं कुमार ! मन्त्राणां प्रभावगतिनैष्ठिकम् | यस्मिं काले सदा बुद्धः ध्रियन्ते लोकनायकाः || तस्मिं काले तदा सिद्धिः उष्णीषाद्यां प्रकीर्त्तिता | चक्रवर्त्तिस्तथा राजा तेजोराशिः प्रकीर्तितः || सितातपत्रजपोष्णीष बहवः वर्णिता जिनैः | एवमाद्यास्तथोष्णीषाः सिद्ध्यन्ते तस्मिं काले || चक्रवर्त्तिर्यदा काले जम्बूद्वीपे भविष्यति | धर्मराजा च सम्बुद्धः तिष्ठते द्विपदोत्तमः || तस्मिं काले भवेत् सिद्धिः मन्त्राणां सर्वभाषितामिति | आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादष्टाविंशतिमः क्षेत्रकालविधिनियमपटलविसरः परिसमाप्तमिति || ७९, प्. ३२९) अथैकत्रिंशह् पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु मञ्जुश्रीः कुमार पूर्वनिर्दिष्टं पदं सत्त्वाविष्टानां चरितं शुभाशुभं निमित्तं च वक्ष्ये || अथ खलु मञ्जुश्रीः कुमारभूतः उत्थायासनाद् बह्गवतश्चरणयोर्निपत्य मूर्ध्निमञ्जलिं कृत्वा भगवन्तमेतदवोचत् | तत् साधु भगवां वदतु सत्त्वानां परसत्त्वदेहसङ्क्रान्तानामार्यदिव्य एतिसिद्धगन्धर्वयक्षराक्षसपिशाचमहोरगप्रभृतीनां विचित्रकर्मकृतशरीराणां विचित्रगतिनिश्रितानां विविधाकारानेकचिह्नानां मनुष्यामनुष्यभूतानां चित्तचरितानि समयो भगवां समयः सुगतः | यस्येदानी कालं मन्यसे | एवमुक्तो मञ्जुश्रियः कुमारभूतो तूष्णीम्भावेन स्वके आसने तस्थुः अध्येष्य जिनवरं लोकनायकं जिनसत्तमं गौतममिति || अथ बह्गवां छाक्यमुनिः सत्त्वानां चित्तचरितनिमित्तज्ञान चिह्नं कालं च भाषते स्म || परदेहगतः सत्त्वः आकृष्टो मन्त्रयुक्तिभिः | केचिदाहारलोभेन गृह्णन्ते मानुषं भुवि || अपरे क्रुद्धचित्ता वै पूर्ववैरात्र चापरे | गृह्णन्ते मानुषां लोके भूतलेस्मिं सुदारुणाः || वीतरागा तथा नित्यं कारुण्यात् समया पुनः | अवतारं मर्त्यलोकेऽस्मिं गृह्णते मानुषां शुभाम् || प्रशस्तां शुभमव्यङ्गां नराणां वर्णसाधिकाम् | उदयन्तं तथा भानो तेषामावेशमुच्यते || अवतारास्तेषु कालेऽस्मिं भानोरस्तमने निशा | रात्र्यां च प्रथमे यामे सितपक्षेषु दृश्यते || प्रशस्ता शुभकर्माणां ये नरा धार्मिकाः सदा | शुचिदक्षसमायुक्ता अवतारस्तेषु दृश्यते || आविष्टास्तु ततो मर्त्या वीतरागैर्महर्द्धिकैः | ८०, प्. ३३०) शुचिदेशे जने चवै शुभे नक्षत्रतारके | प्रशस्ते दिवसे वारे शुक्लपक्षे शुभेऽहनि || शुक्लग्रहसंयुक्ते तिथौ पूर्णसमायुते | परिपूर्णे तथा चन्द्रे अवतारं तेषु दृश्यते || अवतीर्णस्य भवे चिह्नं वीतरागस्य महर्द्धिके | आकाशे तालमात्रं तु पृथिव्यामुत्प्लुत्य तिष्ठते || पर्यङ्कोपविष्टोऽसौ दृश्यते नियताश्रये | नानादिव्यमतुल्याद्या ब्राह्मार्कर्णसुखास्तथा || वदतेऽसौ महासत्त्वो यत्रासौ पीदधियोस्थितः | उष्णीषमुद्रैराकृष्टः पततेऽसौ महीतले || महीमस्पृश्यतस्तिष्ठेदर्घं दद्यात्तु तत्क्षणात् | जातीकुसुमसन्मिश्रं श्वेतचन्दनकुङ्कुमम् || मिसृतं उदकं दद्यादर्घं पाद्यं तु तत्क्षणम् | प्रणिपत्य महीं मन्त्री अध्येष्ये हितकाम्यया || अध्येष्टो हि सः सत्त्वो वीतमत्सरचेतसः | वाचं प्रभाषते दिव्यां अनेलां कर्णसुखांस्तथा || यथेप्सं तु ततः पृच्छे मन्त्रज्ञे हि विशारदः | न भेतव्यं तत्र काले तु मञ्जुघोषं तु संस्मरेत् || मुद्रां पञ्चशिखां बद्ध्वा अन्यं वोष्णीषसम्भवम् | दिशाबन्धं ततः कृत्वा दित्यूर्ध्वमध एव तु || ततोऽसौ सर्ववृत्तान्तमध्यान्तं च प्रवक्ष्यते | आदिमध्यं तथा कालं भूतं तथ्यमनागतम् || वर्तमानं यथाभूतं आचष्टेऽसौ महाद्युतिः | अनिमिषाक्षास्तथा स्तब्धः प्रेक्षतेऽसौ भीतविद्विषः || यस्तेनोदिता वाचा सत्यं तं नान्यथा भवेत् | सिद्धिसाध्यं तथा द्रव्यं योनिं स निचयं गतिम् || ८१, प्. ३३१) प्रत्येकबोधिमर्हत्वं महाबोधिं नियतं च तत् | बुद्धत्वगोत्रनियतं * * * * * * * * (?) || अगोत्रं चैव कालं वै भव्यसत्त्वमहर्द्धिकम् | सर्वं सो कथये सत्यं समयेनाभिलक्षितः || लक्षणमात्रं कथेद् योगी नान्यकालमुदीक्षयेत् | एतत्क्षणेन यत् किञ्चित् प्रार्थये सौमनसात्मना || तत् सर्वं लभते क्षिप्रं मन्त्रसिद्धिश्च केवला | प्राप्नुयात् सर्वसम्पत्तिं यथेष्टां चाभिकांक्षितम् || विसर्ज्य मन्त्री तत् क्षिप्रमर्घं दत्वा तु सम्मताम् | पात्रसंरक्षणां कुर्याद् विधिदृष्टेन कर्मणा || पतितं देहमत्वा वै शयानं चैव महीतले | उष्णीषमुद्रया युक्तं मन्त्रं चैव जिनोचितम् || तेनैव रक्षां कुर्वीत मुद्रापञ्चशिखेन वा | स्वस्थदेहस्तदा सत्व उच्छिष्टेन महीतले || सर्वमाविष्टसत्त्वानां रक्षा एषा प्रकल्पिता | अशक्ता दुष्टसत्त्वा वै हिंसितुं पात्रनिश्रिते || रक्षा च महती ह्येषा जन्तूनां पात्रसम्भवाम् | वाचा तस्य मध्यस्था मध्यदेशे प्रकीर्तिता || देवयोनिं समासृत्य अकनिष्ठाद्याश्च रूपिणाम् | एतेऽन्ये तानि चिह्नानि दृश्यन्ते रूपसम्भवाम् || कामधात्वेश्वरा ये तु कामिनांश्चैव दिवौकसाम् | ततो हीना गतिश्चिह्ना वाचा चैव समाधुरा || ततो भूनिष्पन्ना विमानस्था सदिवौकसाम् | वाचा काशिपुरीं तेषां यक्षाणां च समागधिम् || अङ्गदेशां तथा वाचा महोरगाणां प्रकीर्त्तिता | पूर्वीं वाचा भवेत् तेषां गरुडानां महौजसाम् || ८२, प्. ३३२) तथा वङ्गे समा जाता या वाचा तु प्रवर्त्तते | किन्नराणां तथा वाचा सा वाचा परिकल्पिता || यौद्ध्री वाचा भवेन्नित्यं सिद्धविद्या सखड्गिणाम् | विद्याधराणां तु सा वाचा * * * * * * * (?) || ऋषीणां तु कामरूपी तु वाचा विश्वरूपिणाम् | पञ्चभिज्ञं तु सा वाचा ऋषीणां परिकल्पिता || या तु सामा तटी वाचा या च वाचा हरिकेलिका | अव्यक्तां स्फुटां चैव डकारपरिनिश्रिता || लकारबहुला या वाचा पैशाचीवाचमुच्यते | कर्मरङ्गाख्यद्वीपेषु नाडिकेसरमुद्भवे || द्वीपवारुषके चैव नग्नवालिसमुद्बह्वे | यवद्वीपिवा सत्त्वेषु तदन्यद्वीपसमुद्भवा || वाचा रकारबहुला तु वाचा अस्फुटतां गता | अव्यक्ता निष्ठुरा चैव सक्रोधां प्रेतयोनिषु || दक्षिणापथिका वाचा अन्ध्रकर्णाटद्राविडा | कोसलाडविसत्त्वेषु सैहले द्वीपमुद्भवा || डकारे रेफसंयुक्ता सा वाचा राक्षसी स्मृता | तदन्यद्वीपवास्तव्यैः मानुष्यैश्चापि भाषितम् || स एष वचनमित्युक्त्वा मातराणां महौजसाम् | पाश्चमी वाच निर्दिष्टा वैदिशीश्चापि मालवी || वत्समत्सार्णवी वाचा शूरसेनी विकल्पिता | दशार्णवी चापि पार्वत्या श्रीकण्ठी चापि गौर्जरी || वाचा निर्दिष्टा आदित्याद्यां ग्रहोत्तमाम् | तदन्यां ग्रहमुख्यां तु पारियात्री विकल्पिता || अर्बुदे सह्यदेशे च मलये पर्वतवासिनाम् | खषद्रोण्यां तु सम्भूते जने वाचा तु यादृशी || ८३, प्. ३३३) तादृशी वाच निर्दिष्टा कूष्माण्डाधियोनिजम् | शरषस सम्भूता यरलावकमुद्भवा || घकारप्रथिता या वाचा दानवानां विनिर्दिशेत् | कश्मीरे देशसमुद्भूता काविशे च जनालये || सर्वे कुलोद्भूता वज्रपाणिकुलोद्भिता | तेषां मन्त्रमुख्यानां सर्वेषां वाचमिष्यते || तथाब्जमध्यदेशस्था कुलयोनिसमासृता | वाचा गतिचिह्नाश्च दृश्यन्ते अब्जसम्भवा || पूर्वनिर्दिष्टमेवं स्यात् जिनमन्त्रा विकल्पिता | वीतरागां तु ये चिह्ना ते चिह्ना जिनसम्भवा || यत्र देशे भवेद् वाचा तत्रस्था गतिचेष्टिता | तदेव निर्दिशेत् सत्त्वं तच्चिह्नं तु सर्वतः || हिमाद्रेः कुक्षिसंविष्टा गङ्गातीरे तु चोत्तरे | यक्षगन्धर्वऋषयो जने वाचा प्रदृश्यते || विन्ध्यकुक्ष्यद्रिसम्भूता गङ्गातीरे तु दक्षिणे | श्रीपर्वते तथा शैले सम्भूता ये च जन्तवः || राक्षसोस्तारकप्रेता विकृता मातरास्तथा | घोररूपा महाविघ्ना ग्रहाश्चैव् सुदारुणाम् || परप्राणहरा लुब्धा तज्जनोद्वाचसम्भवा | तत्र देशे तु ये चिह्ना तद्देशे गतिचेष्टिता || तद्वाचवाचिनो दुष्टा आविष्टानां विचेष्टितम् | एते चान्ये च बहवो तच्चेष्टागतिचेष्टिनः || विचित्राकाररूपाश्च विविधाकारचिह्निता | विविधसत्त्वमुख्यानां विविधायोनिमिष्यते || एतदाविष्टचिह्नं तु लक्षणं गतिचिह्नितम् | सर्वेषां तु प्रकुर्वीत मानुषाणां सुखावहम् || ८४, प्. ३३४) रक्षार्थं प्रयोक्तव्या कुमारो विश्वसम्भवः | षडक्षरेणैव कुर्वीत मन्त्रेणैव जापिनः || महामुद्रासमायुक्तं * * * * * * * * (?) | पञ्चचीरासु विन्यस्तः महारक्षो कृता भविष्यति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् एकूनत्रिंशतिमः आविष्टचेष्टविधिपरिवर्तपटविसरः परिसमाप्तः इति || ८५, प्. ३३५) अथ द्वात्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः त्वदीयमन्त्राणां सर्वतन्त्रेषु समनुप्रवेशसर्वविद्यारहस्यमनेककालगुणशकलफलोदयमप्यनुबन्धनिमित्त. म् प्रमाणतो वक्ष्ये सिद्धिकारणानि | तद्यथा - जन्मान्तरिता सिद्धिः न सिद्धिः कालहेतुतः | तत्प्रमाणप्रयोगस्तु पूर्वसम्बद्धमुद्भवा || अहितावहितो सिद्धिः भवेद् युक्तिविचारणम् | त्वत्कुमाराश्रययुक्तिः दृश्यते सर्वदेहिनाम् || अत्र पूर्वकृतं कर्म युक्तिरित्यभिधीयते | तद्योगे युक्तितः धीरो प्राप्नुयात् सिद्धिमुत्तमाम् || असिद्धं सिद्ध्यते कर्म न सिद्धिः कर्मणा विना | कर्मकर्तृसमायुक्तं संयुक्तः सिद्धि कल्प्यते || लिलेभ परमं स्थानं विधियुक्तेन हेतुना | न वव्रे मन्त्रिणा मन्त्रं अमन्त्रो मन्त्रिणो भवेत् || मौनकर्मसमाचारे सिद्धिमाप्नोति पुष्कलाम् | जापी बीजसमाहार आजहार धियोत्तमम् || वियतः श्रेष्ठतमं स्थानं प्रथमं गतिमाप्नुयात् | वियताभावतः स्वस्थो प्राप्नुया निर्जरसम्पदम् || निमित्ता कालतो यस्य अकाले सिद्धिकांक्षिणः | न सिद्धिस्तस्य मन्त्राणां शक्रस्यापि समासतः || अहितो भूतजन्तूनां अकालाक्रमणः पुनः | न सिद्धिस्तस्य दृश्यते ब्रह्मणस्यापि महात्मनः || तन्द्रीतृष्णासमायुक्तो मदामानसमन्वितः | शैथिल्योदीर्यमुद्वेक्षी नित्यं प्राव्यजने रतः || ८६, प्. ३३६) आलस्या मिथुनसंयोगी अस्य सिद्धिः कुतो भवेत् | सुराणां गुरवो यद्य असुराणां च येस्तदा || तेऽपि साधयितुं मन्त्रं न शक्तो विधिवर्जितम् | विधिहीनं तथा कर्म चित्तविभ्रमकारकम् || तस्मात् तं जपेन्मन्त्रं अयुक्तं विधिना विना | बालानां दृष्टिसम्मोहं जनयन्ति तथाविधा || संमूढास्तु ततो बाला पतन्ते कष्टतमां गतिम् | ततस्ते मन्त्रधरास्तस्मादुज्जहार ततः पुनः || अनुपूर्व्या ततह् सिद्धिं प्रयच्छन्ति शुभां गतिम् | ततो तं जपिनं मन्त्रा स्थापयन्ति शिवाचले || एवममोघं मन्त्राणां जपमुक्तं तथागतैः | दृष्टिभ्रान्तेऽपि चित्तस्य अनुग्रहायैव युज्यते || एते कल्याणमित्रा वै एते सत्त्ववत्सला | एतेषां सिद्धिनिर्दिष्टा त्रियानसमता शिवा || तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं समाहितः | अविधिप्रयोगान्मन्त्रा हि प्रयुक्ता मन्त्रजापिभिः || चिरकालं तु संसारात् कथञ्चिन्मुक्तिरिष्यते | सुचिरात् कालतरं गत्वा मन्त्राणां सिद्धि दृश्यते || विधियुक्ता हि मन्त्रा वै क्षिप्रं सिद्धिमवाप्नुयात् | पश्यते फलनिष्पत्तिं नाफलं मन्त्रमुच्यते || इहैव जन्मे सिद्ध्यन्ति मन्त्राः फलसमोदिता | न निष्पत्तिः फलकर्मणां नाफलं कर्ममिष्यते || फलं कर्मसमायोगात् सफलं कर्म उच्यते | तज्जापी जन्मजनिता वियत्याभावसम्भवः || शिवं लोकनिर्दिष्टं शान्तभावा विमुच्यते | तद्गतं गतिमाहात्म्यं बुद्धवर्त्मानुसेविनः || ८७, प्. ३३७) विपरीतकलौ काले सिद्धिस्तस्यापि दृश्यते | इहैव जन्मे भवेत् सिद्धिः जन्मान्ते च प्रवर्त्तते || यावन्निष्ठा भवेच्छान्ति शिववर्त्ममसंस्कृतम् | यत्तु लोकविनिर्दिष्टं शिवं स्थानं सुनिर्मलम् || बुद्धत्वं सप्रकाशं तु जनैः सर्वप्रकाशितम् | तदन्तं तस्य अन्तं वै मन्त्रसिद्धिरुदाहृता || अप्रकाश्यमभावं तु जिनानां प्रत्यात्मसम्भवम् | मन्त्रा तु कथितं लोके मुनिचन्द्रैर्महर्द्धिकैः || साक्षात् सिद्धि समादिष्टा इह जन्मेऽपि देहिनाम् | शून्ये तत्वविदे क्षेत्रे मन्त्रा बुद्धत्वमाविशेत् || अन्ते कलियुगे काले शान्तिं तत्त्वविदे गते | मन्त्रा सिद्धिं न गच्छेयुः क्षिप्रमर्त्थाभिकांक्षिणाम् || तस्मिं काले प्रयोगेन विधिदृष्टेन कर्मणा | साधयेन्मन्त्रतन्त्रज्ञः शासनेऽस्मिं मुनिर्वचे || ध्रियते तथागते सिद्धिः उत्तमा क्षिप्रमिष्यते | मध्यकाले तथा सिद्धि मध्यमा तु उदाहृता || युगान्तं कालमासाद्य अधमा सिद्धिरुच्यते | युगे शोभने काले वियत्योत्पतनं तथा || सिद्धिश्च सर्वमन्त्राणां निर्दिष्टा लोकनायकैः | तदा काले जिनेन्द्राणां कुलाग्र्यं तत् प्रसिध्यति || मध्ये पद्मकुले सिद्धिः युगान्ते वज्रकुलस्य तु | प्रणिधानवशात् केचित् मन्त्रा सिद्ध्यन्ति सर्वदा || अवलोकितेशो मञ्जुश्री तारा भृकुटी च यक्षराट् | सर्वे माणिचरा यक्षा सिद्ध्यन्ते सर्वकालतः || रागिणो ये च मन्त्राद्या प्रयुक्ता सर्वदैवतैः | सिद्ध्यन्ते कलियुगे काले लौकिका ये सुचिह्निताः || ८८, प्. ३३८) प्रोक्ता देवमनुजैः दानवेन्द्रैर्यक्षराक्षसैः | ऋषिभिर्गरुडैश्चापि पिशाचैर्भूतगणैर्ग्रहैः || मानुषामानुषाश्चैव कामधातुसमासृतैः | महर्द्धिकैः पुण्यवद्भिश्च क्रूरकर्मैः सुदारुणैः || शक्रब्रह्मतथारुद्रैः ईशानेन तथापरैः | विष्णुना सर्वभूतैस्तु मन्त्र प्रोक्ता महर्द्धिकाः || तेऽपि तस्मिं युगान्ते वै सिद्धिं गच्छन्ति जापिनाम् | क्रूरकर्मे तथा सिद्धिः तस्मिं काले महद्भये || वश्याकर्षणभूतानां क्रव्यादानां महीतले | दृश्यते निःफला सिद्धिः परलोकान्तगर्हिता || अत एव जिनेन्द्रेण तस्मिं काले महद्भये | मञ्जुघोषसमादिष्टः सत्त्वानुग्रहतत्परः || विनश्यन्ति तदा सत्त्वां मन्त्ररूपेण जापिनाम् | शासनेऽस्मिन् प्रसन्नानां त्रिरत्नेष्वेव पूजकामिति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् त्रिंशतिमः विधिनियमकालपटलविसरः परिसमाप्त इति || ८९, प्. ३३९) अथ त्रयस्त्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः सर्वावन्तं शुद्धावासभवनमवंलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | त्वदीये मञ्जुश्रीकल्पराजे निर्दिशसमाख्याते धर्मधातुकोशतथागतगर्भधर्मधातुनिष्पन्दानुचरिते महासूत्रवररत्नपटलविसरे तथागतगुह्यवरमनुज्ञाते मन्त्रवधसाध्यमाने निमित्तज्ञानचिह्नकालप्रमाणान्तरितसाधनौपयिकानि सर्वभूतरुतवितानि असत्त्वसत्त्वसंज्ञानिर्घोषाणि भवन्ति || शाब्दिकं ज्ञानं इत्युक्त अशाब्दिकं चैव कीर्त्यते | व्यतिमिश्रं तथा युक्तिमन्त्राणां त्रिविधा क्रिया || दिव्यशब्दसमायुक्ता अनित्यार्त्थप्रयोजिता | अपशब्दापगता नित्यं संस्कारार्थार्थभूषिता || अबहिः सर्वसिद्धान्ते आर्यामन्त्राः प्रकीर्त्तिता | नित्यं पदार्थहीनं तु तत् त्रिदा परिभिद्यते || गुरुलघु तथा मध्यैः वर्णैश्चापि विभूषिता | सा भवेन्मन्त्रदेवी तु स्वरच्छन्दविभूषिता || संस्कृतासंस्कृतं वाक्यं अर्थानर्थ तथा परे | धात्वर्त्था तथा युक्तिः गतिमन्त्रार्थभूषिता || विकल्पबहुला वाचा मन्त्राणां सर्वलौकिका | एकद्विकवर्णं तु च्छन्दैः साश्वरितालयः || त्रिचतुःपञ्चषष्ठं वा सप्तमं वाष्टमं तथा | नवमं दशमं चैव वर्णानां सिद्धिरिष्यते || दशाक्षरसमायुक्ता वर्णानां हेतुनाम् | यावद्दशगुणा ह्येते वर्णा दृश्यन्ति महीतले || शताक्षरं विंशतिकं यावदेकाक्षरं भवेत् | एतत्प्रमाणैर्वर्णैस्तु ग्रथिता मन्त्रसम्पदा || पदैश्चतुर्भिः संयुक्ता मन्त्रा सर्वार्थसाधकाः | ज्येष्ठाः प्रवरा ह्यार्या मन्त्रा ये जिनभाषिताः || ९०, प्. ३४०) ते तु मध्यमा अधमा * * * * * * (?) तदा | तदात्मजैर्जिनपुत्रैस्तु भाषिता ते तु मध्यमा || अधमा ये तु मन्त्रा वै भाषिता सर्वलौकिका | निकृष्टा कथिता मन्त्रा भाषिता नैरृतैस्तु ये || दशाष्टसप्तविंशं वा यावदभ्यधिकं शतम् | एतत्प्रमाणं तु मन्त्राणां आर्याणां जिनभाषिताम् || एकद्विकवर्णं तु सहस्रार्द्धं वर्णतो भवेत् | यावत्प्रमाणं तु मन्त्राणां बोधिसत्त्वैः प्रकाशिता || तदक्षरे पदविन्यस्तं मन्त्रयुक्तिमुदाह्रिता | छन्दांसि स्वरयुक्तानां धात्वार्थार्थभूषिता || वचनं सुप्रयुक्तं वै तन्त्रयुक्तिसमन्वितम् | भवेत् कदाचिकात् सिद्धिः शब्दस्वरवियोजिता || मुद्रायुक्तं तु शब्दैस्तु मूर्ध्नादूष्मान्ततालुकैः | दन्तोष्ठकण्ठतः शब्दं विसृतं साधनं क्रिया || अव्यक्तविनिवृत्तं तु सुप्रयुक्तमुदाहृतम् | सम्पूर्णं वाक्यतः शब्दं सम्प्रयुक्तः साधयिष्यति || विधिभ्रष्टं क्रियाहीनं शब्दार्थैश्च वियोजितम् | मन्त्रं न सिद्ध्यते क्षिप्रं दीर्घकालमपेक्षते || अवन्ध्यं तस्य सिद्धिस्तु न वृथा कारयो जपी | अन्यजन्मेऽपि दृश्यन्ते मन्त्रसिद्धिवरप्रदा || तस्य मन्त्रप्रभावेन चिरकालाच्च जापिनाम् | अवन्ध्यं कुरुते कर्म समन्त्रा मन्त्रविदो जनाम् || निकृष्टा सर्वमन्त्राणा. लौकिका ये समानुषा | सर्वभूतैस्तु ये प्रोक्ता मन्त्रा ये च समत्सरा || तेषां न्यक्षरा प्रोक्ता एकद्विकत्रिसङ्ख्यकम् | विविधैः म्लेच्छभाषैस्तु देवभाषप्रकीर्त्तितैः || ग्रथिता पङ्क्तियुक्ताश्च व्यतिमिश्रा शब्दतः सदा | सहस्रं चाष्टशतं अष्ट च यावदेकं तु वर्णतः || ९१, प्. ३४१) चतुःपादं पादार्द्धं तु गद्यपद्यं निगदितम् | श्लोकं दण्डकमात्रैस्तु गाधस्कन्धकपञ्चितम् || प्रतिपच्चार्थयुक्तिश्च सहस्रतार्थभूषितम् | अपभ्रंशसंस्कृतं शब्दं अर्त्थहीनं विकल्पते || अव्यक्तं व्यक्तहीनं तु मात्राहीनं तु युज्यते | गतिदेशविसंयोगान्मन्त्रसिद्धिस्तदुच्यते || एतत् सर्वमन्त्राणां एष लक्षणः | शकारबहुला ये मन्त्रा ओङ्कारार्थभूषिता || तकारलक्षणतन्त्रस्था सिद्धिस्तेषु ध्रुवं भवेत् | ओङ्कारा ये मन्त्रा मकारान्तविनिर्गताः || शकारसहसंयुक्तादवन्ध्यं शोभनं तथा | तकारचतुरश्राकारा प्रत्याहारान्तवर्जिता || तकारक्षी रेफसंयुक्ता समन्त्रं साधनक्रिया | द्विरेफबहुलं आद्यं हुङ्कारगुणमुद्भवम् || वकारचतुरश्रान्ते वर्णा साधनक्षमा | ककारं रेफसंयुक्तं मकारान्तं मात्रमिश्रितम् || मकारं नकारमाद्यं तु स मन्त्रः श्रेष्ठ उच्यते | तकारबहुलं यत्र सर्वतन्त्रेषु दृश्यते || स मन्त्रः सौम्यमित्युक्तो याम्यहुङ्कारभूषितम् | ऐन्द्रावायव्यमित्युक्तं भकारबहुलं तु यः || वारुणः चकारमित्याहुः हितं लोके तु पौष्टिकम् | वकारबहुलो यो मन्त्रः माहेन्द्रं तत् प्रदृश्यते || आद्यं त्रिरत्नगमनं यो मन्त्रः शरणं तथा | नमस्कारं प्रवर्तेत शान्तिहेतुं सुखावहम् || तदन्यत् सर्वदेवानां नमस्कारार्थं प्रयुज्यते | स्वमन्त्रं मन्त्रनाथं च स मन्त्रः सर्वकर्मिकम् || ९२, प्. ३४२) डकारबहुलो यो मन्त्रः फट्कारार्थहुङ्कृतः | एते मन्त्रा महाक्रूरा तेजवन्तो महौजसा || प्राणोपरोधिना सद्यः क्रूरसत्त्वसुयोजिता | तस्मान्न कुर्यात् कर्माणि पापकानि विशेषतः || तं जापी वर्जयेद् यस्मात् मुनिभिर्वर्जिता सदा | उभयार्थेऽपि सिद्ध्यन्ते मन्त्रा शान्तिकपौष्टिका || क्षणेन कुरुते सर्वं कर्मां यावन्ति भाषिता | सुजप्ता मन्त्रा ह्येते तेजवन्ता महर्द्धिका || शान्तिकानि च कर्माणि कुर्यात्तां जिनभाषितैः | पौष्टिकानि तु सर्वाणि कुर्यात् कोकनदे कुले || कर्मा पापका सर्वे आभिचारे प्रयुज्यते | आभिचारुकसर्वाणि कुर्याद् वज्रकुलेन तु || निषिद्धा लोकनाथैस्तु यक्षेन्द्रेण प्रकाशिता | सत्त्वानां विनयार्थाय मन्त्रमाहात्म्यमुद्भवम् || कथितं त्रिप्रकारं तु त्रिकुलेष्वेव सर्वतः | ये तु अष्ट समाख्याता कुलाग्र्या मुनिना स्वयम् || तेषु सिद्धिस्त्रिधा याता त्रिप्रकाराः समोदिताः | उत्तमा मध्यमा नीचा तत् त्रिधा परिभिद्यते || शान्तिकं पौष्टिकं चापि आभिचारुकमिष्यते | केवलं मन्त्रयुक्तिस्तु तन्त्रयुक्तिरुदाहृता || मन्त्राणां गतिमाहात्म्यं आभिचारुक युज्यते | एतत् कर्म निकृष्टं तु सर्वज्ञैस्तु गर्हितम् || न कुर्यात् कृच्छ्रगतेनापि कर्म प्राणोपरोधिकम् | केवलं तु समासेन कर्ममाहात्म्यवर्णितः || तन्त्रयुक्तविधिर्मन्त्रैः कर्मविस्तरविस्तरः | कर्मराजे इहोक्तं तु अन्यतन्त्रेषु दृश्यते || ९३, प्. ३४३) न भेजे कर्महीनं तु सर्वमन्त्रेषु युक्तिमाम् | यावन्ति लौकिका मन्त्रा सकला निष्कलास्तथा || सर्वे लोकोत्तराश्चैव तेषामेव गुणः सदा | असङ्ख्यं मन्त्रसिद्धिस्त्वसङ्ख्यं तत् परिकीर्त्यते || एकसङ्ख्यप्रभृत्यादि विंशमुक्तं तथापि तु | ततः त्रिंशत् समासेन चत्वारिंशं तु चापरम् || ततस्त्रिगुणषष्टिं तु सप्तभिः सदशं तथा | दशं चापरमित्याहु अशीतिसङ्ख्या तु चापरम् || सदशं नवतिमित्याहुः शतं पूर्णं दशापरम् | शतसङ्ख्या तु सङ्ख्याता तद्दशं सहस्रापरम् || दशसहस्रमयुतं तु दशमयुतानि लक्षितम् | दशलक्षाविलक्षं तु विलक्षं दश कोटिम् || * * * * * (?)ट्यो वै दशविकोट्योऽर्बुदो भवेत् | दशार्बुदा निर्बुदः उक्तः तद्दशं खड्गमिष्यते || दशखड्गनिखड्गं तु दशनिखः खर्वमिष्यते | दश निखर्वां तथा पद्मः दशपद्मां महापद्मः || दशपद्मानि वाहस्तु दशविवाहांस्तथापराम् | महाविवाहस्तथा दृष्टतद्दशं मायमुच्यते || तद्दशमायां महामायः महामायां दशापराम् | समुद्रं गणितज्ञाने निर्दिष्टं लोकनायकैः || महासमुद्रं ततः पश्चाद् विंशार्द्धं परिसाधिके | महासमुद्रस्तथा ह्युक्तः सदशं सागरं ततः || महासागरमित्याहुर्विंशार्द्धेन प्रयुज्यते | महासागरा दश गुणीकृत्य प्रवरा ह्येवमुच्यते || दशप्रघरात्युक्तः घरेति तं प्रकीर्तितम् | दशघरे नामतोऽप्युक्ता अशेषं तु तदुच्यते || ९४, प्. ३४४) अशेषान्महाशेषं विंशार्द्धेन गुणीकृतम् | तदसङ्ख्यं प्रमाणं तु कथितं लोकनायकैः || सङ्ख्यो दश सङ्ख्यामित्याहु तदसङ्ख्यं गुणीकृतमिति | ततः परेणापि तथा * * * * * * * * (?) || अमितात् सहस्रगुणितं तं लोकं परिकीर्त्यते | लोकात् परेण महालोकं महालोकाद् गुणीकृतम् || ततत्संस्तमसमित्युक्तं तमसा ज्योतिरुच्यते | ज्योतिषो महाज्योत्स्ना गुणीकृत्य महाराशिस्तदुच्यते || महाराश्या महाराशिरित्युक्ता राश्ये गम्भीरमुच्यते | गम्भीरा स्थिरमित्याहुः स्थिरात् स्थिरतरं व्रजेत् || ततः परेण बहुमत्या बहुमतं स्थानमुच्यते | स्थानं स्थानतरं त्याहुः गणितज्ञानसूरताः || महास्थानं ततो गच्छेन्महास्थानमितमिष्यते | मितान्मितसमं कृत्वा महार्थं तत् परिकीर्त्यते || महार्था सुश्रुतस्थानं ततो गच्छेन्महार्णवम् | महार्णवात् प्रथममित्याहुः प्रथमात् प्रथमतरं हि तत् || प्रथमे श्रेष्ठमित्याहुः श्रेष्ठाज्ज्येष्ठान्तमुच्यते | ज्येष्ठान्मन्दिरसो नाम तदचिन्त्यं परिकीर्त्यते || अचिन्त्य अचिन्त्यार्थिन्यतमं घोरं घोरात् राष्ट्रतमिष्यते | राष्ट्रात् परेण निध्यस्तो निध्यस्तपरतः शुभम् || शुभात् परेण महाचेतः महाचेता चेतयिष्यते | चेतो चित्तविक्षेप अभिलाप्य तदुच्यते || अभिलाप्या अनभिलाप्यास्तु विश्वरं च मुदाहृतम् | विश्वात् परेण महाविश्वः अस्वरं तु तदुच्यते || अस्वरान्महास्वरस्थानं खर्वतोऽधिगर्वितस्तथा | श्रेयसं शान्तिमित्युक्तं स्थानं गणितपारगैः || ९५, प्. ३४५) महाधृष्टस्ततो धृष्टः ओदकं तदिहोच्यते | ओदका चित्तविभ्रान्तं स्थानं चापरमुत्तमम् || उत्तमात् परतो बुद्धां विषयं नाधरभूमिकाम् | अशक्यं मानुषाणां तु गणना लोककल्पनम् || ततः परेण बुद्धानां गोचरं नापरं मतम् | बुद्धक्षेत्रं आसिकता गङ्गानद्यास्तु मुच्यते || सम्भिद्य परमाणूनां कथयामास नायकाः | दृष्टान्तं क्रियते ह्येतत् तर्कज्ञानं तु गोचरम् || हेतुना साध्यते द्रव्यं न शक्यं गणनापरैः | एतत्प्रमाणं सम्बुद्धा पर्युपास्ते मया पुरा || तेषामाराधयित्वा मे कल्पेऽस्मिं तदचित्तके | एतावत्कालमपर्यन्तं बोधिसत्त्वोऽहं पुरा भवेत् || सत्त्वानामर्थसम्बुद्धो बुद्धत्वं च समाविशेत् | तत्र तत्र मया तन्त्रा भाषिता कल्पविस्तरा || एतत् कल्पवरं ज्येष्ठमेतत् बुद्धिअस्तु भाषितम् | एतद् प्रमाणं सम्बुद्धैः कथितोऽहं पुरातनम् || अधुना कुमार ! मया प्रोक्त अन्ते काले तु जन्मिके | यावन्ति लौकिका मन्त्रा कल्पराजाश्च शोभना || लोकोत्तरा तथा दिव्या मानुष्या ससुरासुरा | सर्वेषां तु मन्त्राणां तन्त्रयुक्तिरुदाहृता || सम्मतोऽयं तु सर्वत्र कल्पराजो महर्द्धिकः | तेषां कल्पविधानेन सिद्धिमायाति मञ्जुमाम् || अनेनैव तु कल्पेन विविना मञ्जुभानिना | तेषां सिद्धिमित्युक्ता सर्वेषां प्रभविष्णुना || किं पुनर्मानुषे लोके ये चान्ये मन्त्रदेवता | सर्वे लोकोत्तरा मन्त्राः लौकिका समहर्द्धिकाः || ९६, प्. ३४६) अनेन विधियोगेन कल्पराजेन सिद्धिताम् | वसिता सर्वमन्त्राणां सर्वकल्पमुदाहृतम् || सम्मतोऽयं तु मञ्जुश्रीः कल्पराजे इहोत्तमे | ये केचिच्छिल्पविज्ञाना लौकिका लोकसम्मता || निमित्तज्ञानशकुनाः ज्योतिषज्ञानचिह्निताः | निमित्तज्ञानचरिता रुतावैव शुभाशुभा || सर्वभूतरुतश्चैव चरितं चित्तचिह्नितम् | धातुरायतमं द्रव्यं * * * * * * * * (?) || इङ्गितं शकुनमित्याहुः खन्यधातुक्रिया तथा | गणितं व्याकरणं शास्त्रां शस्त्रं चैव क्रमो विधिः || अध्यात्मविद्या चैकित्स्यं सर्वसत्त्वहितं सुखम् | हेतुनीति तथा चान्ये शब्दशास्त्रं प्रवर्त्तितम् || छन्दभेदोऽथ गान्धर्वः गन्धयुक्तिमुदाहृताः | ते मया बोधिसत्त्वेन सत्त्वानामर्थाय भाषिता || पुराहं बोधिसत्त्वोऽस्मिं सत्त्वानां हितकारणा | भाषिता ते मया पूर्वं संसारार्णववासिनाम् || संसारगहने कान्तारे चिरकालं उषितो ह्यहम् | यथा वैनेयसत्त्वानां तथा तत्र करोम्यहम् || यथा यथा च सत्त्वा वै हितं कर्म समादधेः | तथा तथा करोम्येषां हितार्थं कर्म शुभालयम् || विचित्रकर्मनेवस्थाः सत्त्वानां हितयोनयः | विचित्रैव क्रियते तेषां विचित्रार्थयोनिदूषिता || विचित्रकर्मसंयुक्ता विचित्रार्थां शास्त्रवर्णिताम् | तं तथैव करोम्येषां विचित्रां रूपसम्पदाम् || अहं तथा वेषधारी स्या विचित्राङ्गं निजानिजाम् | हिताशयेन सत्त्वानां विचित्रं रूप निर्मिमे || ९७, प्. ३४७) महेश्वरः शक्रब्रह्माद्यां विष्णुर्धनदनैरृताम् | विचित्रां ग्रहरूपांस्तु निर्मिमेऽहं तथा पुरा || महाकरुणाविष्टमनसः सत्त्वानामाशयगोचरा | अनुपूर्व्या तु तेषां वै स्थापयामि शिवे पदे || पर्यटामि संसारे दीर्घकालप्रवेक्षितम् | सत्त्वानामर्थनिष्पत्तिं मन्त्ररूपेण देशितम् || अनुपूर्वं मतज्ञानं मन्त्रकल्पं प्रवर्तितम् | चिरा मे संसरता जन्मे बुद्धगोत्रे समासृत || न च मे विद्यते कश्चित् कर्ता वा स्वामिनोऽपि वा | नियतं गोत्रमासृत्य बुद्धोऽहं बोधिमुत्तमां || क्षेमोऽहं निर्जरं शान्तं अशोकं विमलं शिवम् | प्राप्न्तोऽहं निर्वृतिं शान्तिं मुक्तोऽहं जन्मबन्धना || अधुना प्रवर्तितश्चक्रः भूतकोटिसमाश्रित | दर्शयामेष कल्पं वै मन्त्रवादं सविस्तरम् || न वृथा कारयेज्जापी कर्मकल्प सविस्तरम् | यावन्ति लौकिका मन्त्राः कल्पाश्चैवमुदाहृताः || पूज्या मान्याश्च सर्वे ते अवज्ञा तेषां तु वर्जिता | नावमन्ये ततो मन्त्री तेषां कल्पानि विस्तरम् || निमित्तं ज्ञानयुक्तिं च ज्योतिषज्ञानरोदितम् | न वृथा कारयेदेतां मङ्गलार्थमुदाहृताः || दृष्टधार्मिकमेवं तु सिद्धिद्रव्यादिमोषधम् | सामिषं लोभनं सिद्धिस्तस्मान्मङ्गलमुच्यते || प्रशस्ता जिनगाथाभिः स्वस्तिगाथाभिभूषितम् | प्रशस्तैर्दिवसैर्मुख्यैः सितपक्षे सुचिह्नितैः || शुक्लग्रहवरे युक्ते मन्त्रसाधनमारभेत् | एवमाद्याः शुभा युक्ता अशुभांश्चापि वर्जयेत् || ९८, प्. ३४८) मयैव कथितं पूर्वं तस्माद् ग्राह्या तु जापिभिः | यावन्ति केचिल्लोकेऽस्मिं ज्योतिषज्ञानकौशलाः || अन्ये वा तत्र कौशल्याः नीतिहेतुसहेतुकाः | न्यायशास्त्रसुसम्बद्धा सत्त्वानां हितकारया || मयैव कथितं तत् सर्वं ग्राह्यते मन्त्रजापिभिः | सिद्धिहेतुरयं मार्गः दर्शितं तत्त्वदर्शिभिः || सर्वं ह्यशेषसिद्धान्तं यद्योक्तं मोक्षकारणम् | तेनैव कुर्यान्मन्त्राणां मार्गं सिद्धिकारणाः || न वृथा कारयेज्जापी मन्त्रयुक्तिं ह्यशेषतः | सर्वे लौकिका मन्त्रा उत्तमाश्च प्रकीर्तिताः || लोकोत्तरास्तथा दिव्या सर्वेष्वेव प्रयोजयेत् | न मिथ्यं कारये चित्तं न दूष्ये तत्र मनं कदा || सर्वे पूज्यास्तु मन्त्रा वै समयज्ञः प्रकीर्तिताः | शासनेऽस्मिं तथा सास्तुः बुद्धानां समताहिते || निविष्टा जिनपुत्राणामाकृष्टाश्च प्रवेशिताः | मण्डले मुनिचन्द्राणां समयज्ञ इहोदिताः || अवन्ध्यास्ते सदा मन्त्रैरानीता विशनाशया | न नमे परमन्त्राणां नापि सावज्ञमाचरेत् || अनार्या ये तु मन्त्रा वै अवन्ध्यास्ते परिकीर्त्तिता | यावन्ति लौकिका मन्त्रा अधरा जापसम्भवा || सक्लेशा दृष्टमार्गान्ता अवन्ध्यास्ते तु जापिभिः | न वृथा कारये चित्तं कोपने रोषसंयुतम् || रोचनं न चैव भक्तिं न कुर्यात् कर्म वृथाफलम् | तदायत्तं हि चित्तस्य न दद्यात् सन्नतिं क्वचित् || एकमन्त्रस्तु युक्तिस्थः जपं नित्यं समाहितः | लभते फलमशेषं तु यथोक्तं विधिना विधेः || ९९, प्. ३४९) निश्चलं तु मनः कृत्वा एकमन्त्रं तु तं जपेत् | एकचित्तस्य सिद्ध्यन्ते मन्त्राः सर्वार्थसाधकाः || व्यस्तचित्तो हि मूढात्मा सिद्धिस्तस्य न दृश्यते | अशेषं फलनिःपत्तिं प्राप्नुयाद् विपुलां गतिम् || नित्यशुद्धं मनो यस्य स श्राद्धस्यैव शासने | रत्नत्रये च प्रसन्नस्य सिद्धिरिष्टा उदाहृता || इति | आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् एकत्रिंशतिमः कर्मक्रियाविधिनिमित्तज्ञाननिर्देशपटलविसरः परिसमाप्तः | १००, प्. ३५०) अथ चतुस्त्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि तं शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु मञ्जुश्रीः ! त्वदीयमुद्रातन्त्रं सरहस्यं परमगुह्यतमं अप्रकाश्यमश्राद्धसत्त्वतथागतशासनेऽनभिप्रसन्नं असमयानुज्ञातत्रिरत्नवंशानुच्छेदनकरे अकल्याणमित्रपरिगृहीते पुण्यकामे दुष्टजनसम्पर्कव्यतिमिश्रिते पापमित्रपरिगृहीते दूरीभूते बुद्धधर्माणां निःफलीभूते कल्पेऽस्मिन्नाचार्यानुपदेशे अवभिषिक्त तव कुमार ! परमगुह्यतमे मण्डले अदृष्टसमये तथागतकुले असमन्ते जने अप्रकाश्य सर्वभूतानां त्वन्मन्त्रानुवर्त्तिनां अश्राद्धो बुद्धधर्माणां दूरीभूतो हि बोधये || न तस्या दापयेन्मुद्रां तन्त्रं चैव न दर्शयेत् | प्रमादान्मोहसम्मूढः लोभाद्या यदि दापयेत् || न सिद्ध्यन्ते तन्त्रमन्त्रा वै विपरीतस्य जापिनः | असान्निध्यं कल्पयेन्मुद्रां मन्त्राश्चैवमन्यथा || सिद्धिं न लभते क्षिप्रंश्च शरीरेणापि ह्रीयते | सौम्यानां श्राद्धचित्तानां समये तत्त्वदर्शिनाम् || तन्त्रमन्त्रप्रवृत्तानां मुद्रातन्त्रं प्रकाशयेत् | त्रिरत्नपूजका ये च प्रसन्ना जिनशासने || विधिप्रयोगदृष्टानां तेषां मुद्रा प्रकाशयेत् | बोधिचित्तविधिज्ञानां बोधिचित्तविभूषिताम् || नित्यं बोधिमार्गस्थां तेषां मुद्रां प्रकाशयेत् | तन्त्रमन्त्रप्रयुक्तानां समये दृष्टपरापराम् || महाबोधो प्रतिच्छूनां तेषां मुद्रां प्रकाशयेत् | प्रसन्नानां जिनपुत्रेषु तेषु श्रावकखड्गिणाम् || दृष्टधर्मफलं येषां तेषां मुद्रां प्रकाशयेत् | अविकल्पितधर्माणां श्राद्धानां गतिमत्सराम् || १०१, प्. ३५१) शास्तुर्वचनयुक्तिज्ञां तेषां मुद्रां प्रकाशयेत् | मुद्रा मुद्रिता ह्येते प्रमाणस्था साष्टशतं तथा || न चातिरिक्ता न चोनाश्च साक्षाद् बुद्धैः प्रकाशिताः | मञ्जुश्रियस्य कल्पे वै मन्त्राश्चैव तत्समा || साष्टं शतमित्युक्तं मन्त्राणां तत्समोदिताम् | मुद्राश्चैव शताष्टं तु कथिता मुनिवरैः पुरा || एतत्प्रमाणं तु कल्पस्य मुद्रामन्त्रसमुद्भवे | कोशं सर्वबुद्धानां मन्त्रकोशमुदाहृतम् || मुद्रा मन्त्रसमोपेताः संयुक्तः क्षिप्रकर्मिकः | न चक्रेण विना स्पन्दं युक्तिमुत्पद्यते रथे || तथैव सर्वमन्त्राणां मुद्रावर्जं न कर्मकृत् | मन्त्रा मुद्रसमोपेता संयुक्ता क्षिप्रकर्मिका || सर्वमावर्त्तयं ह्येते त्रैलोक्यससुरासुरम् | किं पुनर्मानुषे लोके अन्यकर्मेषु संस्कृते || दृष्टधर्मफलो ह्येतां मुद्रामन्त्रेषु दृश्यते | संयुक्तः उभयतः शुद्धां विधियुक्तेन दर्शिता || आवर्तयन्ति भूतानां जिनाग्राणां तु ससूनुताम् | मन्त्रं मुद्रतपश्चैव त्रिधा कर्म करे स्थितम् || यथेष्टा सम्पदां कृत्स्नां प्राप्नुयाज्जपिनस्तथा | मन्त्राणां मुद्रिता मुद्रा मन्त्रैश्चापि मुद्रिता || न मन्त्रं मुद्रहीनं तु न मुद्रा मुद्रवर्जिता | मुद्रा मन्त्रसमोपेता संयुक्ता सर्वकर्मिका || अन्योन्यफला ह्येते अन्योन्यफलमुद्भवा | साधके युक्तिमायुञ्जे न सार्धं कर्म न विद्यते || सिध्यन्ते सर्वमन्त्रा वै मुद्रायुक्तास्तु रूपिनाम् | विधिदृष्टः प्रयुक्तस्तु मन्त्रं * * (?) समुद्रितम् || १०२, प्. ३५२) न सौ विद्यति तत् स्थानं यत्राकृष्टो न सिद्ध्यति | भवाग्र्या वीचिपर्यन्तं लोकधात्वगतिं तरम् || यत्राविष्टो न चाकृष्टः असाध्यो यो न विद्यते | न सौ संविद्यते कश्चित् सत्त्वो यो निवर्तितुम् || महर्द्धिका बोधिसत्त्वापि आकृष्यन्ते विधिवादिता | असमर्त्था बोधिसत्त्वापि दशभूमिसमाश्रिता || रक्षाविधानभेतुं वा कर्मसिद्धि निवारितुम् | अधृष्यः सर्वभूतानां मन्त्रमुद्रसमासृताः || सर्वभूतानां यो हि मन्त्रे समाश्रितः | मुद्रा प्रयोगयुक्ता वै एते रक्षासमुद्भवा || उद्भूतिः सर्वमन्त्राणां सर्वमन्त्रेषु दृश्यते | मन्त्रातः सर्वमुद्राणां अन्योन्यसमासृताः || रूपजापविधिर्मार्गे होमकर्मे प्रयुज्यते | अतो जात तथासिद्धिः मुद्रा मन्त्रेषु दृश्यते || जापिनो नित्यमुद्युक्त सदा तेषु प्रतिष्ठितः | सिद्ध्यन्ते सर्वमन्त्रा वै अवन्ध्यं मुनिनां वचः || वचनं सर्वबुद्धानां अन्यथाकारितं हितैः | * * * * * * * * (?) मन्त्रतन्त्रेषु युक्तितः || कारितं यैर्विधिर्मुक्ता अशेषं मन्त्रमुद्रया | एतत् कुमार ! मञ्जुश्रीः ! कथयामि पुनः पुनः || अशेषमन्त्रमुक्तिस्तु मुद्रा तत्र हितोदयम् | तां वन्दे कल्पराजेऽस्मिं नैस्तारिकं फलसम्बवम् || हितं गुह्यतमं लोके मुद्रातन्त्रं समुद्धितम् | ततोऽसौ युक्तिमां श्रीमां सहिष्णुर्बालरूपिणः || ईषस्मितमुखो भूत्वा कुमारो विश्वसम्भवः | बोधिसत्त्वो महावीर्यः दशभूमिसमा तः || १०३, प्. ३५३) प्रयच्छ मुनिनां श्रेष्ठं बुद्धमादित्यबान्धवम् | यदेतत्कथितं लोके भगवन्मन्त्रकारणम् || पूर्वकैरपि सम्बुद्धैः कथितं तत्पुरा ममम् | अधुना शाक्यसिंहेन किमर्थं सम्प्रकाशितम् || एतन्मे संशयो जातः आचक्ष्व मुनिसत्तम ! | कलविङ्करुतो धीमां ब्राह्मगर्जितसम्भवः || अब्रवीद् बोधिसत्त्वं तु दशभूमिप्रतिष्ठितम् | पुराहं बहुकल्पानि संसारे सरता म य || लब्धोऽयं कल्पराजेन्द्रः मुनेः सङ्कुसुमाह्वयात् | तत्र तत्र मया सत्त्वा उपकारकृतं बहु || करुणावशमागत्य प्रणिधिं च कृतं तदा | यदाहं बुद्धमग्रो वै सम्भवामि युगाधमे || शासनार्थं करित्वा वै धर्मचक्रानुवर्त्तिते | अपश्चिमे च काले वै निर्वास्येऽहं यदा भुवि || एतत्तु कल्पराजेन्द्रं निर्दिशेऽहं तवान्तिके | मयापि निर्वृते लोके शून्ये जम्बुसमाह्वये || दूरीभूते तथा शास्तुः धर्मकोशे कलौ युगे | नाशनार्थं तु सत्त्वानां करिष्यत्येष कल्पराट् || तवैव सम्प्रदत्तोऽयं कल्पराजा सविस्तरः | सत्त्वानामर्थमुद्युक्तः तस्मिं काले भविष्यति || अधर्मिष्ठास्तदा सत्त्वास्तस्मिं काले भयानके | अव्यवस्थस्थिता नित्यं राजानो दुष्टमानसाः || मानुषामानुषाश्चापि सर्वे शासनविद्विषाः | नाशयिष्यन्ति मे सर्वं धर्मकोशं मयोदितम् || तेष विनयार्थाय मन्त्रकोशमुदाहृतम् | तवैतत् कुमार ! प्रणिधानं पूर्वकल्पानचिन्तिताम् || १०४, प्. ३५४) यावन्ति केचिद् बुद्धा वै निर्वृता लोकबान्धवा | तेषां शासनार्थाय करिष्यामि युगे युगे || बालदारकरूपोऽहं विचरिष्यामि सर्वत | मन्त्ररूपेण सत्त्वानां विनेष्यामि तदा तदा || एतत् कुमार ! तुभ्यं वै प्रणिधानं पुरा कृतम् | तत् प्राप्तमधुना बाल ! निर्देक्ष्यामि तेनैवे || शून्ये बुद्धक्षेत्रे अशरण्ये तदा जने | मन्त्ररूपेण सत्त्वानां बालिशस्त्वं स्मादिशेत् || विनेष्यसि बहुं सत्त्वां सर्वसम्पत्तिदायकः | वरदस्त्वं सर्वसत्त्वानां तस्मिं काले युगाधमे || निर्वृते हि मया लोके शून्यीभूते महीतले | त्वयैव बालरूपेण बुद्धकृत्यं करिष्यसि || महारण्ये तदा रम्ये हिमवत्कुक्षिसम्भवे | नद्या हिरण्यवतीतीरे निर्वाणं मे भविष्यतीति || आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् द्वात्रिंशतिमः मुद्रा चोदनविधिमञ्जुश्रीपरिपृच्छनिर्देशपरिवर्तः पटलविसरः परिसमाप्तः | १०५. प्. ३५५) अथ पञ्चत्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तथागतमहामुद्राकोशसञ्चोदनी नाम समाधिं समापद्यते स्म | समनन्तरसमापन्नस्य भगवतः शाक्यमुने ऊर्णाकोशान्महारश्मिर्निश्चचार | अनेकरश्मिकोटीनयुतशतसहस्रसङ्ख्येयपरिवाराः सा रश्मिजाला अनेकां बुद्धक्षेत्रानवभासयित्वा सर्वबुद्धां सञ्चोद्य पुनरपि भगवतः शाक्यमुनेः ऊर्णाकोशेऽन्तर्हिता || समनन्तरसञ्चोदिताश्च सर्वे बुद्धा भगवतः गगनस्वभावां समाधिं समापद्य शुद्धावासोपरि गगनतले प्रत्यष्ठात् || अथ भगवां शाक्यमुनिः सर्वबुद्धानभ्यर्च्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु मञ्जुश्री ! मुद्राकोशपटलविधानं भविष्यसर्वबुद्धैरधिष्ठितम् || अथ मञ्जुश्रीः कुमारभूतो भगवतश्चरणयोर्निपत्य सर्वबुद्धां प्रणम्य भगवन्तं शाक्यमुनिं तथागतमेतदवोचत् | तत् साधु भगवां निर्दिशतु सर्वतथागतमुद्राकोशपटलं परमगुह्यतमं यस्येदानीं कालं मन्यसे तद् भविष्यति | बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्त्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वानां सुखोदयं भविष्यति सुखविपाकम् || अथ भगवां शाक्यमुनिः अध्येषतो भगवता मञ्जुश्रिया कुमारभूतेन सर्वबुद्धानवलोक्य सर्वसत्त्वां समन्वाहृत्य सर्वबोधिसत्त्वां सम्प्रहृष्य सर्वप्रत्येकबुद्धार्यश्रावकां सम्प्रसान्त्य सर्वमन्त्रमन्त्रार्त्थोद्युक्तमानसां समुद्युज्य सर्वदुष्टां निवार्य सर्वभीतां समाश्वास्य सर्वव्यसनस्थां क्षेमे शिवे निर्वाणे प्रतिष्ठाय सर्वदुःखितानां सुखार्त्थाय मुद्रापटलविधानं भाषते स्म || शृणु कुमार ! मञ्जुश्री ! वक्ष्येऽहं पटलमुद्रिताम् | आदौ पञ्चशिखा भवति महामुद्रा तु सा मता || त्रिशिखं द्वितीयं विन्द्या तृतीयं एकचीरकम् | चतुर्थं उत्पलमित्याहुः सम्बुद्धाः द्विपदोत्तमाः || १०६, प्. ३५६) पञ्चमः स्वस्तिको दृष्टः षष्ठो ध्वज उच्यते | सप्तमं पूर्णमित्याहुः मन्त्रज्ञानसुशोभनाः || अष्टमं यष्टिनिर्दिष्टा लोकनाथैर्जितारिभिः | नवमं छत्रनिर्दिष्टं दशमं शक्तिरुच्यते || एकादशं तु सम्बुद्धा सम्पुटं तु समादिशेत् | द्वादशं फरमित्युक्तो त्रयोदशं तु गदस्तथा || चतुर्दशं खड्गनिर्दिष्टा घटा पञ्चादशस्तथा | षोडशः पाशमित्युक्तः अङ्कुशः सप्तदशः स्मृतः || अष्टादशं भद्रपीठं तु ऊनविंशतिपीठकम् | विंशन्मयूरासनः प्रोक्तो एकविंशस्तु पट्टिशम् || एकलिङ्ग द्विविंशं तु द्विलिङ्गो विंशसत्रिकम् | चतुर्विंशस्तथा माला पञ्चविंश धनुस्तथा || विंशत्षष्ठाधिकं प्रोक्तं नाराचे तु प्रकल्पिता | सप्ताविंशतिमित्याहुः समलिङ्गे प्रवर्त्तिता || अष्टाविंशस्तथा शूलः ऊनत्रिंशश्च मुद्गरः | तोमरं तिंशमित्याहुः एकत्रिंशं तु दक्षिणम् || द्वात्रिंशत् तथा वक्तर्ः त्रयस्त्रिंशत् पटमुच्यते | चतुस्त्रिंशस्तथा कुम्भः पञ्चत्रिंशे तु खखरम् || कलशं षट्रिंशतिः प्रोक्तो सप्तत्रिंशे तु मौशलम् | अष्टत्रिंशे तु पर्यङ्कः ऊनचत्वारिंशत् पटहम् || चत्वारिंशतिमित्याहुः धर्मशङ्खमुदाहृतम् | चत्वारिंशं स एकं च शङ्कला परिकीर्तिता || द्वितीया बहुमता प्रोक्ता तृतीया समनोरथा | चतुर्त्थी जननी दृष्टा प्रज्ञापारमिता मिता || पञ्चमं पात्रमित्याहुः सम्बुद्धा द्विपदोत्तमाः | तोरणं षष्ठमित्युक्तः सप्तमं तु सुतोरणम् || १०७, प्. ३५७) अष्टमं घोषनिर्दिष्टः जपशब्दो नवमः पुनः | पञ्चाशद् भेरिमित्युक्ता धर्मभेरिं तु साधिका || द्विपञ्चाशद् गजमित्याहुः वरहस्तत्रिकस्तथा | चतुःपञ्चाशमिति ज्ञेयं मुद्रा तद्गतचारिणी || पञ्चमं केतुमित्याहुः षष्ठं चाशशरस्तथा | सप्तमं परशुनिर्दिष्टं अष्टमं लोकपूजिता || ऊनषष्टिस्तथा ज्ञेया भिण्डिपालं समासतः | षष्टिश्चैव भवेद्युक्ता लाङ्गलं तु समासतः || एकपष्टिस्ततः पद्मह् द्विषष्टिः वज्रमुच्यते | त्रिषष्टिः कथितं लोके धर्मचक्रं प्रवर्त्तितम् || चतुःषष्टिस्तथा ज्ञेयः पुण्डरीकं समास्तः | पञ्चषष्टिस्तथा विन्द्याद् वरदं मुद्रमुत्तमम् || षट्षष्टि तथा वध्वा वज्रमुद्रा तु कीर्तिता | सप्तषष्टिस्तथा लोके कुन्तमाहुर्मनीषिणः || अष्टषष्टिस्तथा कुर्याद् वज्रमण्डलमुदाहृतम् | ऊनसप्ततिमेवं स्यात् शतघ्नेति प्रकीर्तिता || ततः सप्ततिकं विन्द्यान्नादामुद्रः समासतः | एकसप्ततिमित्याहुर्विमानं मुद्रवरं शुभम् || द्विसप्तत्या समासेन स्यन्दनं च इहोच्यते | शयनं लोकनाथानां त्रिसप्तान्या समासतः || पञ्चसप्ततिराख्यातश्चतुःसप्ततिकस्तथा | अर्धचन्द्रं च वीणा च उभौ मुद्रावुदाहृतौ || षट्सप्ततिमं लोके मुद्रा पद्मालया भवेत् | सप्तसप्ततिमः श्रेष्ठः मुद्रा कुवलयोद्भवा || अष्टसप्ततिमं मुद्रा नमस्कारेति उदाहृता | नवमं नवतिसङ्ख्या तु उभौ मुद्रौ शुभोत्तमौ || १०८, प्. ३५८) सम्पुटं यमलमुद्रा च सङ्ख्या नवतिमं भवेत् | एकनवतिमित्याहुः पुष्पमुद्रा उदाहृताः || द्वितीया वलयमुद्रा तु तृतीया धूपयेत् सदा | चतुर्त्था गन्धमुद्रा तु पञ्चमी दीपना स्मृता || षष्ठ्या साधनं विन्द्यात् सप्तम्या आसने स्मृता | अष्टममाह्वाननं प्रोक्तं नवमं तु विसर्जनम् || शतपूर्णस्तथा विन्द्यात् मुद्रां सर्वकर्मिकाम् | साधिकं शतमित्याहुर्महामुद्रा इति स्मृताः || उष्णीषं लोकनाथानां चरवर्ति सदा गुरोः | तं मुद्रं प्रथमतः प्रोक्ता द्वितीया सितमुद्भवा || तृतीया मूलमुद्रा तु मञ्जुघोषस्य दृश्यते | चतुर्त्थी धर्मकोशस्था धर्ममुद्रेति लक्ष्यते || पञ्चमी सङ्घमित्याहुर्महामुद्रापि सा भवेत् | षष्ठी तु भूतशमनी प्रत्येकार्हमुद्भवा || सप्तमी बोधिसत्त्वानां दशमी तु प्रवेशिनाम् | मुद्रा पद्ममालेति महामुद्रां तु तां विदुः || वरदा सर्वमुद्राणां मन्त्राणां च सलौकिकाम् | महाप्रभावां माअश्रेष्ठां ज्येष्ठां त्रैलोक्यपूजिताम् || अष्टमीं सम्प्रयुञ्जीत मुद्रा त्रिभुवनालयाम् | मुद्राणां कथिता सङ्ख्या अस्मिं तन्त्रे महोद्भवा || शतमेक तथा चाष्टं सङ्ख्यामुद्रेषु कल्पिता | एतत्प्रमाणं तु सम्बुद्धैः पुरा गीतं महीतले || निर्नष्टे शासने शास्तुः प्रचरिष्यति देहिनाम् | आदौ तावत् करे न्यस्तमुभयाग्रां करे स्थितौ || अन्योन्याङ्गुलिमावेष्ट्य सन्मिश्रां च पुनस्ततः | उभौ करौ समायुक्तौ पञ्चचूलासुचिह्नितौ || १०९, प्. ३५९) विपर्यस्तस्ततस्तेषामङ्गुलीनां तु अग्रतः | मुद्रा पञ्चशिखा ज्ञेया पञ्चचीरकमेव तु || महामुद्रेति विख्याता बोधिसत्त्वशिरस्तथा | महाप्रभावो मुद्रोऽयं प्रयुक्तः सर्वकर्मिकः || मञ्जुश्रियस्य मन्त्रेण हृदयैर्वापि योजयेत् | केशिन्या चैव मन्त्रेण मूलमन्त्रेण वा सदा || योजयेद् विधिदृष्टेन सर्वमन्त्रेषु वा पुनः | कुर्यात् सर्वाणि कर्माणि अवन्ध्येदं वचनं मुनेः || तथैव हस्तौ विन्यस्तौ कुर्यात् तत्करसम्पुटम् | तत्रैव त्रिशिखं कुर्यादङ्गुलीभिर्विमिश्रितैः || उभौ हस्तौ तु यदाङ्गुष्ठौ शून्याकारौ तु निश्रितौ | मध्यमानामिकं चैव विपरीताकारवेणिकौ || एतत् तत् त्रिशिखं ज्ञेयं त्रिचीराकार इति पुनः | एषा मुद्रा महामुद्रा मञ्जुघोषस्य धीमतः || कुर्यात् सर्वाणि कर्माणि विधिदृष्टानि यानि वै | मञ्जुश्रियस्य ये मन्त्रास्तेषु सर्वेषु योजयेत् || क्षिप्रं साधयते ह्यर्थां जापिभिर्जन्मनीषितम् | तदेव हस्तौ विन्यस्तौ कुर्यादेकशिखं तथा || मध्यमाङ्गुलिसंश्लिष्टौ भवेदेकशिखा ध्रुवम् | एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता || मन्त्रा कुमारसन्यस्ता ये चान्येऽपि सलौकिका | सिद्ध्यन्तेऽनेन युक्तास्तु क्षिप्रकर्मप्रसाधिका || अनेन साध्यास्तथा मन्त्रा उत्तमा जिनभाषिता | क्षिप्रं साधयते ह्यर्थां विधिदृष्टेन कर्मणा || तदेव करसंयुक्तौ विन्यस्तं अङ्गुलीचितम् | उभौ तर्जन्य सङ्कोच्य सूच्यादञ्जलिसादृशम् || ११०, प्. ३६०) विन्यस्ताङ्गुष्ठयुगले मध्याङ्गुल्यौ प्रसारितौ | अनामिकां वेष्टयित्वा तु उत्पलेति उदाहृतम् || एषा बोधिसत्त्वस्य मूलमन्त्रेति लक्ष्यते | तदेव सर्वं यत् कर्म निर्दिष्टं पञ्चचीरके || सर्वं तत् कुर्यात् क्षिप्रं उत्पलेन तु साधयेत् | एषा वरदा मुद्रा क्षिप्रभोगप्रसाधका || संयुक्ता मूलमन्त्रेण क्षिप्रमर्थकरो भवेत् | उभौ करौ तथा युक्तौ कुर्यादुत्तानकौ सदा || तदेव सम्पुटं कृत्वादङ्गुलीभिः समन्ततः | विन्यस्तं शोभनाकारं स्वस्तिकाकारसम्भवम् || मध्यमाङ्गुलिमध्ये तु कन्यसी तु समा भवेत् | अङ्गुष्ठयुगलविन्यस्तं मुद्रा स्वस्तिकमुच्यते || एषा सर्वार्थकरी मुद्रा शान्तिकर्मे प्रयुज्यते | हृदयैः षडक्षरैर्युक्ता सर्वकर्मां करोति वै || तदेव हस्तौ सम्मिश्र अन्योन्याङ्गुलिमिश्रितम् | पूर्णमुद्रेति मित्याहुर्गतिज्ञानविशेषगाः || आकोशादञ्जलिं कृत्वा विरलं च समन्ततः | पूर्णमुद्रेति सम्बुद्धाः कथयामास जापिनाम् || एषा सर्वशमनी दुःखदारिद्रदुःखिताम् | धनाढ्यं कुरुते क्षिप्रं मूलमन्त्रसचोदिता || अपरं मुद्रमित्याहुः लोकज्ञानसुचेष्टिताः | उभौ हस्तौ तथा कृत्वा वामतर्जनिमाश्रितम् || दक्षिणं तु करं कृत्वा तस्य मङ्गुलितस्थितम् | तर्जन्या मध्यमा चैव विसृते ध्वजमुच्यते || ध्वजमुद्रा इति ख्याता उच्छ्रिता शक्रधारणी | अनया मुद्रया कुर्याद् बलिहोमादिकं क्रमम् || १११, प्. ३६१) सर्वकर्मकरा ह्येषा मूलमन्त्रप्रचोदिता | तदेव हस्तौ विन्यस्तौ अङ्गुलीकारसम्पुटौ || सम्पुटा सा भवेन्मुद्रा सर्वविघ्नप्रनाशनी | क्रमेण कुरुते कर्म मन्त्रज्ञानसमोदिता || विधिदृष्टेन मन्त्रा वै क्षिप्रमर्थप्रसाधिका | मन्त्रैर्मञ्जुघोषस्य हृदयस्थानसमुद्भवैः || संयुक्ता कुरुते कर्मां अशेषां लोकचिह्निताम् | तदेव हस्तौ विन्यस्तौ वामहस्तौपरि स्थितम् || दक्षिणं तर्जनीं गृह्य वामं तर्जनिमुच्छ्रिता | एषा यष्टिरिति ख्याता मुद्रा शक्रनिवारणी || सर्वां समयते विघ्नां दारुणानतिभैरवाम् | सर्वदुष्टवधार्थाय निर्दिष्टा मन्त्रजापिनाम् || मूलमन्त्रसमोपेता क्षिप्रमर्थकरा बह्वेत् | तदेव हस्तं विन्यस्तं यष्ट्याकारसमुच्छ्रितम् || दक्षिणं तु करं कृत्वा विसृतं छत्रमुच्यते | अनेन मुद्रया कुर्यादात्मरक्षं तु मूर्द्धितः || सर्वमन्त्रैस्तु कुर्वीत कर्म रक्षाभिधायकम् | शत्रूणां छादयेद् वक्त्रं स्तम्भयेद्वा मनीषितम् || यथाभिरुचितां दुष्टां कारयेद्वा समानुषाम् | नश्यन्ते सर्वविघ्ना वै दृष्ट्वा मुद्रां सच्छत्रकाम् || तदेव हस्तौ कुर्वीत विन्यस्ताकारशोभनम् | अङ्गुष्ठाग्रयुक्तं तु मध्यमाङ्गुलिसारितम् || अनामिकाकुञ्चिताग्रं तु मध्यपर्वे तु मध्यमम् | तदेव शक्तिनिर्दिष्टा सर्वदुष्टनिवारणी || कथिता लोकनाथैस्तु रक्षा सग्रहनाशनी | विन्यस्ता क्रोधराजेन यमान्तेन तु रोषिणा || ११२, प्. ३६२) कुर्यात् क्षिप्रतरं लोके दारुणं पापमुद्भवम् | प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु वर्जितम् || न कुर्यात् कर्ममेवं तु निषिद्धं लोकमुत्तमैः | अतः सर्वगतैर्मन्त्रैः योजयेच्छक्तिमुत्तमम् || लौकिका ये च मन्त्रा वै तथैव जिनभाषिता | तां प्रयुञ्जीत मुद्रेऽस्मिं शक्तिना सुसमाहितः || दृष्ट्वा मुद्रवरं घोरं नश्यन्ते सर्वनैरृता | पिशाचास्तारकप्रेता पूतना सह मातरा || बालाग्रहविरूपाश्च बालकानां प्रपीडना | नश्यन्ते सर्वदुष्टा वै ये केचित् क्रूरकर्मिणाः || तदेव हस्तं विन्यस्तं शक्तिकाकारसम्भवम् | विपरीतसम्पुटाकारं अन्योन्याङ्गुलिमिश्रितम् || तदेव सम्पुटमित्याहुः सम्बुद्धा विगतद्विषा | अनेन कारयेत् कर्म मन्त्रेणैकाक्षरेण तु || पिथयेत् सर्वविदिशां कृत्स्नां दिशाबन्धं तदुच्यते | एष मुद्रा महारक्षा सम्पुटीकृत्य तिष्ठति || नश्यन्ते सर्वदुष्टा वै ये चान्ये अहितानि वै | देहं रक्षयते सर्वं परिवारं चापि गोचरे || अशेषं रक्षते चक्रं यत्र जापी वसेत् सदा | न तस्य पातकं किञ्चित् अहितं चापि सम्भवेत् || क्षेमं सुभिक्षमारोग्यं परचक्रभयं कुतः | उभौ करौ समाश्लिष्य विपरीतं तु कारयेत् || दक्षिणं तु अधः कृत्वा वाममुत्तानकः सहा | अन्योन्यमिश्रितौ ह्येतौ फरमित्याहुर्जिनोत्तमाः || निवारयति दुष्टानामरीणां पापसम्भवम् | उपहृत्याक्षरैर्युक्ता रिद्धि * * * * * * (?) || ११३, प्. ३६३) एकवर्णकैः स मन्त्रैर्युक्तः क्षिप्रमर्त्थकरो ह्ययम् | विचित्रार्त्थां कुरुते कर्मां अरिसम्भवपापकाम् || भोगिनां विषनाशं च मूलमन्त्रप्रयुक्तिका | अन्यां वा युक्तिकृतां दोषां निर्नाशयति देहिनाम् || एष मुद्रवरः प्रोक्तः सम्बुद्धैर्द्विपदोत्तमैः | तदेव हस्तौ विन्यस्तौ संश्लिष्टावङ्गुलीभि तत् || गदाकारं तदा कुर्यान्मूलेनापि वेष्टितम् | उभयोरङ्गुष्ठयोर्मध्ये कन्यसीभि सुवेष्टितम् || षड्भिरङ्गुलिभिः कुर्यात् शून्याकारं सुशोभनम् | एतन्मुद्रा गदः प्रोक्ता सर्वदानवनाशनी || दैत्या च दुष्टचित्ताश्च सौम्यचित्ता तु दर्शने | नश्यन्ते उद्यते मुद्रे गदे वापि सुपूजिते || मूलमन्त्रप्रयुक्तास्तु क्षिप्रमर्त्थकरी शिवा | तथैव खड्गनिर्दिष्टा अनामिकाग्रैः सुकोचितैः || तथैव हस्तौ कुर्वीत प्रसारिताग्रं तु कुञ्चितम् | शरावाकारसमौ कृत्वा अङ्गुलीभिः समन्ततः || घण्टां तां विदुर्बुद्धाः प्रकाशयामास देहिनाम् | तदेव हस्तौ सम्मिश्रा उभौ बध्वा तु सम्पुटम् || अन्योन्यं मिश्रयित्वा वै मध्यमाङ्गुलिभिस्तथा | कुर्यात्तन्मण्डलाकारं पाशाकारं तु त भवेत् || तर्जनीति ततो न्यस्तं मध्यपर्वा सुमिश्रितैः | एष पाशमिति ख्यातः मुद्रोऽयं बुद्धनिर्मितः || विनेयार्त्थं तु सत्त्वा बन्धमुक्तोऽतिदारुणम् | ये च दुष्टा ग्रहाः क्रूरा ये वै सर्वराक्षसाः || ईषित् प्रचोदिता ह्येषा बध्नातीह समातराम् | बन्ध बन्धेत्यदा ह्युक्ता बध्नातीह सशक्रताम् || ११४, प्. ३६४) किं पुनर्मानुषे लोके क्रव्यादां पिशिताशिनाम् | तदेव हस्तौ विन्यस्तौ उभौ कृत्वा तु तत्समौ || वामपाणोपरि न्यस्तं दक्षिणं तु करं तथा | तदेव अङ्कुशाकारं मध्यमाङ्गुलितर्जनी || मध्यमं पर्वमाश्लिष्य तर्जनी कारयेदङ्कुशम् | मूलमन्त्रप्रयुक्तोऽयमङ्कुशोऽयं प्रचोदितः || क्षिप्रं कारयते कर्मां जापिभिर्जन्मनीषितम् | आनयेत् क्षिप्र देवेन्द्रां ब्रह्माद्यां सशक्रकाम् || प्रयुक्तो मुद्रवरः श्रेष्ठः अङ्कुशाकर्षणं शुभः | तदेव हस्तौ सम्मिश्रविपरीताकारपिण्डिकम् || मध्यमानामिकौ नाम्य अङ्गुल्यौ वामकरासृतौ | तर्जनी कन्यसां चापि उभौ तर्जन्यदक्षिणा || दक्षिणा हस्तनिर्दिष्टा मध्यमानामिकनामितौ | विपर्यस्त ततो न्यस्तं श्लिष्टौ अङ्गुष्ठकारितौ || तदेव भद्रपीठं तु कथिता मुद्रवरा शुभा | आसनं सर्वबुद्धानां क्रुद्धश्रकनिवारणम् | योजिता सर्वमन्त्रैस्तु जिनाग्राणां कुलसम्भवैः | स्थापिता सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम् || सदेवकं च लोकं वै सर्वा निश्चलकारिका | तदेव भद्रपीठं तु मध्यमाङ्गुलिमाश्रिताम् || उपरिस्थानविन्यस्तौ मध्यानामिति शारितौ | तदेव पीठनिर्दिष्टा मुनिसिंहैर्जितारिभिः || उभौ हस्तौ तथोन्मिश्र अङ्गुलीभिर्विवेष्टयेत् | ततो वेणिसमाधश्च कन्यसाङ्गुलिसूचिकाम् || सङ्कोच्य मध्यमतः क्षिप्रं पद्मपत्रायतोद्भवाम् | उभयोरङ्गुष्ठयोन्मिश्रः स्थापयेत् स्थितकं सदा || ११५, प्. ३६५) एतन्मयूरासनं प्रोक्तं सम्बुद्धैर्विगतद्विषैः | एतद् बोधिसत्त्वस्य मञ्जुघोषस्य धीमतः || आसनं मुनिवरैर्ह्युक्तो बालक्रीडनकं सदा | महाप्रभावा इयं मुद्रा पुरा ह्युक्ता स्वयम्भुभिः || करोति कर्मवैचित्र्यं मञ्जुमन्त्रप्रचोदिता | विनाशयति दुष्टानां क्रव्यादा पिशिताशिना || परिपूर्णं तथा विंशन्मुद्राणां तु मतः परम् | कथिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः || अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम् | करैः शुभैस्तथा शुद्धैः निर्मलैर्जलशौचितैः || श्वेतचन्दनकर्पूरैः कुङ्कुमैर्जलमिश्रितैः | बहुभिर्गन्धविशेषैस्तु उपस्पृश्यानिलशोषितैः || शुचिभिः करैरभ्यङ्गैरङ्कुशैश्चापि अदहुलैः | तदेव मुद्रां बन्धीयाद् वन्द्याद्यां द्विपदोत्तमाम् || शालं सङ्कुसुमं चैव अमिताभं रत्नकेतुनम् | अमितायुर्ज्ञानविनिश्चयेन्द्रं लोकनाथं दिवङ्करम् || क्षेमं लोकनाथं च सुनेत्रं धर्मकेतुनम् | प्रभामालीति विख्यातं ज्येष्ठं श्रेष्ठमितोत्तमम् || एतेषामन्यतरं बुद्धं वन्दित्वा द्विपदोत्तमम् | शुचिर्भूत्वा शुचिस्थाने बन्धेन्मुद्रां जपान्तिके || आचार्यां तु यं दृष्ट्वा सन्देहार्थं विमुच्यते | तं तथाचारसम्पन्नो बन्धेन्मुद्रां यथासुखम् || संशोध्य च विविक्तं वै कृत्वा स्थानाभिमन्त्रितम् | न क्रुद्धो न चोच्छिष्टो न चाक्रुष्टो परेण तु || नाङ्गारे न भस्मनिर्मध्ये बन्धेन्मुद्रां कदाचन | न सक्तः परदारेषु परद्रव्येषु वै तदा || ११६, प्. ३६६) न स्थितो न निपन्नश्च वन्धेन्मुद्रां सुखोदयाम् | न दक्षिणामुखमास्थाय नापि पश्चान्मुखोत्थितः || न चोर्ध्वे नाप्यधश्चैव मुद्राबन्धं तु कारयेत् | उदङ्मुखः पूर्वतश्चापि विदिशेष्वेतेषु तेषु वै || बन्धयेन्मुद्रमन्त्रज्ञः मन्त्रं स्मृत्वा तु चक्रिणम् | एषा विधिमतः श्रेष्ठा सर्वमुद्रेषु बन्धने || अत ऊर्ध्वं प्रवक्ष्यामि मुद्रा साधिकविंशमम् | उभौ करौ समायुक्तौ कुर्यादङ्गुलिमिश्रितौ || मध्यमं तु ततः शून्यं अङ्गुलीभिः समादिशेत् | मध्यपर्वविधिन्यस्तं शून्याग्रं कन्यसीभितम् || कारयेन्नित्यमन्त्रज्ञो अङ्गुष्ठौ कुञ्चिताश्रितौ | त्रिशूच्याकारसंयुक्तौ पट्टिशं विदुर्बुधाः || एष मुद्रवरः क्षिप्रं परमन्त्रांसि च्छिन्दिरे | परमुद्रां तथा भिन्द्यात् दुष्टसत्त्वनियोजिता || त्राशयेत् सर्वभूतानां ग्रहमातरपूतनाम् | करोति कर्मवैचित्र्यं क्षिप्रमानयते शिवम् || रुद्रेण भाषिता ये मन्त्रा विष्णुना ब्रह्मणा स्वयम् | तां विच्छेद मन्त्रज्ञो विधिदृष्टेन कर्मणा || मुद्रेणानेनैव युक्तेन पट्टिशेन महात्मना | मन्त्रेण चैव युक्तस्थो जिनवक्त्रसमुद्भवैः || करोति कर्मवैचित्र्यं छेदभेदक्रियां तथा | परसत्त्वकृतां दुष्टा नाशयेत् तामशेषतः || तदेव हस्तौ संवेष्ट्य मध्यानामिकमुच्छ्रितौ | उभौ करौ स्मायुक्तौ लिङ्गाकारसमुद्भवौ || चतुरङ्गुलसंयुक्त लिङ्गमुद्रमिति मतम् | महेश्वरो देवपुत्रो वै आत्ममन्त्रं च मुद्रिणम् || ११७, प्. ३६७) कथयामास तन्त्रे वै आकृष्टौ मुनिना पुरा | अन्येषां चात्मनो मन्त्रां मुद्रां चैव सविस्तराम् || प्रकाशयामास आकृष्टः समयेऽस्मिं कल्पमुत्तमे | एतन्मुद्रवरं ह्यग्रं लौकिकेषु प्रकत्थ्यते || यावन्ति केचिन्मन्त्रा वै रुद्रप्रोक्ता महीतले | तेषामधिपतिर्ह्यग्रो मुद्रोऽयमेकलिन्गितः || बोधिसत्त्वप्रभावेन मञ्जुघोषस्य धीमतः | आनीतो मण्डले * * (?) नौम कर्मप्रसाधकः || यावन्ति केचिद् दुष्टा वै पर्यटन्ते महीतले | ग्रहाः क्रव्यादपिशिताश्च मातराः कटपूतना || तेषां निवारणार्थाय रुद्रविघ्नकृतेषु वै | पुनरेतन्मुद्रवरं ह्युक्तं बलिकर्मेषु वै निशा || करोति सर्वकर्मां वा बुद्धाधिष्ठानऋध्यया | तथैव तद्विधं कृत्वा द्विलिङ्गसमुदाहृतः || तथैव मालमङ्गुल्यै स माला परिकीर्तिता | तदेव मालां सङ्कोच्य सम्पुटाकारसम्भवम् || तर्जन्यावुभौ श्लिष्य कुर्याद्धनुसन्निभम् | अङ्गुष्ठौ पीडयेन्मुष्टौ धनुर्मुद्रा स लक्ष्यते || तदेवमङ्कुलिं कुर्याद् दक्षिणाकरनिसृता | वामं तर्जनीं मुष्टौ निष्पीड्यन्ते तु पर्वणि || नाराचं मुद्रमित्युक्तः समलिङ्गं पुनर्वदे | उभौ हस्तौ ततः कृत्वा अन्योन्या सृतपिण्डितौ || दक्षिणाकरमङ्गुष्ठं उच्छ्रितां लिङ्गसम्भवम् | समलिङ्गं तं विदुः कल्पे शासनेऽस्मिं विशारदाः || तदेव हस्तौ उभौ कृत्वा अन्योन्यासृतमङ्गुलम् | उभौ तर्जन्य संयोज्य शूलाकारं तु कारयेत् || ११८, प्. ३६८) एतच्छूलमिति प्रोक्तं सत्त्वदुष्टानुशासनम् | तदेव हस्तौ निसृत्य मुष्टिं बध्वा उभौ पुनः || अङ्गुष्ठौ स्थितकां कृत्वा मुद्गरं समुदाहृतम् | तदेव मुद्गरमीषच्चालयेत् करसम्पुटे || तोमरं कथितं ह्यग्रं मुद्रं शक्रनाशनम् | उत्पलं तु ततो बध्वा अनामिकाङ्गुलिभिस्तदा || अधस्तादङ्गुस्ठयोर्मध्ये विन्यस्तं चाप्रदर्शितम् | एत दंष्ट्रमिति प्रोक्तं विवृते वक्त्रमुच्यते || समौ कृत्वा ततस्तेषामङ्गुलीनां समन्ततः | उरे दत्वावसव्यं वै क्षिपेत् त्वा पटमुच्यते || उभौ सम्पुटौ कृत्वा हस्तौ विन्यस्तशोभनौ | अङ्गुलीमङ्गुलीभिश्च अन्योन्याग्रश्लेषितौ || उत्थितानामिसङ्कोच्य कुम्भमुद्रमुदाहृतम् | तदेव मुष्टि संयोज्य तर्जन्यौ पुनरुच्छ्रितौ || कुर्यात् खखराकारं वेणिकाकारमुद्भवम् | एतन्मुद्रं समाख्यातं खखरेत्यरिसूदना || तदेव खखर ईषदवनाम्यं तु शोभनम् | कुर्यादङ्गुष्ठविन्यस्तं कलशं तदिहोच्यते || उच्छ्रितं तु पुनः कृत्वा तर्जन्यानामिसम्भवम् | चतुर्भिरङ्गुलीभिः कुर्यान्मुशलाकारसम्भवम् || मुद्रं मुशलमित्याहुः मन्त्रज्ञानसमन्विता | तदेव हस्तौ विन्यस्तौ मध्यमानामिकौ अधः || उपरिष्टात् तेषु वै नित्यं न्यस्तं दक्षिणावायवेष्टितम् | संवेष्ट्य अङ्गुष्ठयोर्न्यस्तौ कन्यसा तर्जनी तु ताम् || समन्तात् पर्यङ्कमाकारं मुद्रामाहुस्तथागता | एतत् पर्यङ्कमुद्रेति ख्यातं लोके समन्ततः || ११९, प्. ३६९) अनया मुद्रया युक्तो मन्त्रयुक्तस्तथा पुनः | सर्वैर्जिनमुक्तैस्तु वज्राब्जकुलमुद्भवैः || एतैर्मन्त्रैः प्रयुक्तोऽयं सर्वकर्मकरं शिवम् | ये च मुद्रास्तथा प्रोक्ता मुशलाद्याः शूलसम्भवाः || सर्वे वै क्रोधराजस्य यमान्तस्येह शासने | उग्रा प्रहरणा ह्येते सत्त्ववैनेयनिर्मिता || बोधिसत्त्वप्रभावेन ऋद्ध्या कुर्वन्ततस्तदा | सर्वं वैनेयदुष्टानां कुम्भाद्या मुद्रभाषिता || तदेव हस्तं विन्यस्तं पटहाकारसम्भवम् | आबन्धेदङ्गुलिभिर्युक्तं सर्वाभिश्च सवेणिकाम् || वेणिकां कृत्यमङ्गुष्ठैस्ततो न्यस्य करे पुनः | मध्ये प्रादेशिनी कृत्वा उच्च्रिताग्रं तु कारयेत् || एतत् पटहनिर्दिष्टं मुद्रा दुष्टनिवारणी | तदेव हस्तौ विन्यस्तौ अञ्जली सुप्रयोजितौ || उभौ तर्जन्य सङ्कोच्य कुण्डलाकारशोभनौ | अङ्गुष्ठं ते अधः कृत्वा अङ्गुष्ठौ नामितौ उभौ || प्रविष्टौ मध्यपुटान्तस्थौ शङ्खं भवति शोभनम् | एतद्धर्मसङ्खं वै वरमुद्रं प्रकाशितम् || मन्त्रैर्मुनिवरोक्तैस्तु संयुक्तः सर्वकार्मिकः | करोति कर्मवैचित्र्यं सर्वदंष्ट्राविषभोगिनाम् || निर्नाशयति सर्वांस्तां मूलमन्त्रप्रयोजिता | शङ्खमापूरयेज्जप्तं विद्याराजैर्महर्द्धिकैः || निर्विषोऽपि भवेत् क्षिप्रं यो जन्तुर्विषमूर्च्छितः | चत्वारिंशति समाख्याता मुद्रा श्रेष्ठा महर्द्धिका || अतः ऊर्ध्वं प्रवक्ष्यामि मुद्रालक्षणसम्भवम् | तद्देव हस्तौ विन्यस्तौ अङ्गुल्याग्रसवेणिकौ || १२०, प्. ३७०) भूयो दामोटयेद् यत्नादवसव्यं तु कारयेत् | अधस्तात् सर्वतः कृत्वा शङ्कलेति उदाहृता || एषा मुद्रवरश्रेष्ठाः सर्वदुष्टार्त्थबन्धनी | मन्त्रैस्तैरेभिसंयुक्ता मुनिमुख्यार्त्थभाषितैः || सर्वां बन्धयते भूतां ग्रहमातरकश्मलाम् | तदेव हस्तौ सङ्कोच्य मुक्त्वा वेणि समुच्छ्रयेत् || तदेव विधिना बध्वा अन्येनाङ्गुष्ठमध्ययोः | मध्यपर्वे समाश्लिष्य उभयाग्र्यं करं पुनः || दत्वाभिमुखं ह्यग्नेर्वह्निमन्त्रसुयोजितः | आवाहयेच्छिखिनं होमे अग्निकर्मेषु सर्वदा || क्षिप्रमाह्वयते वह्निः मुद्रेणानेन योजिता | विसर्जयेदनेनैव मन्त्रेण तर्जन्याग्रविमिश्रितैः || अङ्गुष्ठे नित्यमाश्लिष्टे विशर्ज्यं वह्निदैवतम् | मुद्रा बहुमता ह्येषा अग्निकर्मप्रसाधिका || आह्वानयति देवानां यदृच्छं मन्त्रजापिनो | एषा बहुमता मुद्रा बध्वाधिष्ठानवर्णिनी || करोति कर्मवैचित्र्यं संयुक्ता मन्त्रमुत्तमैः | तदेव हस्तौ एकस्थौ सम्पूर्णामङ्गुलिमाश्रितौ || कुर्यादाकोशमञ्जल्या श्लथं वर्तुलसम्भवम् | परिपूर्णं ततः कृत्वा कुङ्मलं पद्मसम्भवम् || मनोरथं तु तं विन्द्या मुद्रां सर्वार्त्थसाधिकाम् | एषा मुद्रा वरा श्रेष्ठा पुरा गीता तथागतैः || सत्त्वानां हितकाम्यार्त्थं मञ्जुघोषे नियोजिता मनसा कांक्षते सत्त्वो यो हितार्त्थं मनोरथम् || तूर्णं तत् साधयते क्षिप्रं मन्त्रैर्युक्ता महर्द्धिकैः | एषा मुद्रा वरा श्रेष्ठा मनोरथेति स उच्यते || १२१, प्. ३७१) एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका | क्षिप्रं साधयते मन्त्रां द्रव्यां चैव सविस्तराम् || एषा मुनिचन्द्रेण चन्द्राभा सुप्रवर्त्तिता | चन्द्रा पद्मकुले मन्त्रा तेनायं सुप्रयोजिता || करोति कर्मवैचित्र्यं सितवर्णामृतशम्भवा | तदेव हस्तौ संशुद्धौ उभौ अङ्गुलिमाश्रितौ || षड्भिरङ्गुलिमाश्लिष्टौ पुस्तकाकारसम्भवौ | उच्छ्रितौ वर्त्तुलौ कृत्वा कन्यसाङ्गुष्ठकौचितौ || एषा मुद्रा वरा प्रोक्ता प्रज्ञापारमितामिता | जननी सर्वबुद्धानां मोक्षार्त्थं तु नियोजिता || साधयेत् सर्वकर्मं वै शान्तिपुष्ट्यर्त्थयोजिता | तदेव हस्तौ विन्यस्तौ दक्षिणं वामतोपरि || कृत्वा नाभिदेशे वै कोलस्थं निम्नमुद्भवम् | उभौ हस्तौ तदाश्लिष्य स मुद्रा पात्रमुच्यते || पात्रं जननी मुद्रौ जिनमन्त्रैः सुयोजितौ | करोति कर्मवैचित्रं यथेष्टं मन्त्रविचक्षणैः || तदेव हस्तावुद्धृत्य कुर्यात् तर्जनिमुच्छ्रितौ | मध्यमाङ्गुलिमग्रं तु नामितं मीषितोरणम् || तदेव उच्छ्रितौ कृत्वा कथयामास सुतोरणम् | तदेव बध्वा तदन्योन्यं घोषनिर्दिष्टमष्टमम् || उच्छ्रितोत्तममङ्गुष्ठौ जपशब्दं विदुर्बुधाः | तदेव उच्छ्रितौ हस्तौ अङ्गुल्याग्रौ सुकुञ्चितौ || सर्वैरङ्गुलिभिर्मुक्ता विरला केशसम्भवा | भेरी तं विदुर्बुद्धा धर्मभेरीति उच्छतौ || तदेव हस्ततलं ऊर्ध्वं दक्षिणं वामतोच्छतम् | अधस्तात् कारयित्वा तु गजाकारं सुयोजितम् || १२२, प्. ३७२) दक्षिणं मध्यमाङ्गुल्यां कराकारं तु कारयेत् | एतद् गजमुद्रं तु निर्दिष्टं संसारपारगैः || एषा मुद्रा महामुद्रा सम्बुद्धैस्तु प्रकाशिता | लरोति कर्मां सर्वांस्तांस्तामशेषां लोकपूजिता || दक्षिणं हस्तमुद्यम्य अभयदत्तं परिकल्पयेत् | गृहीत्वा मणिबन्धे तु वामहस्तेन मुद्यतम् || मध्यमां तर्जनी स्पृष्ट्वा अङ्गुष्ठं मध्यतो स्थितम् | मध्यपर्वाश्रितं युक्तं वरहस्तं तदुच्यते || एतन्मुद्रवरं श्रेष्ठं आदिबुद्धैस्तदोदितम् | अभयं सर्वसत्त्वानां मुद्रां बध्वा ददौ जपी || मन्त्रैर्मुनिमतैर्युक्तः क्षिप्रमर्थप्रसाधकः | तदेव हस्तौ संयुक्तौ सम्पुटाकारशोभनौ || उच्छतौ मध्यमाङ्गुल्यौ मुद्रा तद्गतचारिणी | तदेवमङ्गुलिभिर्वेष्ट्य अङ्गुष्ठौ उपरि स्थितौ || न्यस्य पर्वतले न्यस्तं केतुमित्याहु मुद्रिणम् | तदेव मूर्च्छिताग्रे कं शुभो निर्दिष्टमुद्रिणम् || उभौ तर्जन्यसमायुक्तौ अन्योन्याग्रविमिश्रितौ | सङ्कोच्य पर्वतोऽङ्गुष्ठाः कन्यसीति समुच्छ्रितौ || तदेव परशुनिर्दिष्टा मुद्रा सर्वार्थसाधिका | सङ्कोच्य पुनः सर्वा वै सा मुद्रा लोकपूजिता || तदेवमुच्छ्रतं कुर्यात् तर्जन्याग्रसूचिकम् | भिण्डिपालस्ततो मुद्रा लाङ्गलं चक्रतो गतम् || तर्जन्यौ वक्रतः कृत्वा लाङ्गलो मुद्रमुत्तमम् | एतत् षष्टिमुद्राणां कथितं विधिना पुनः || सर्वे ते प्रहरणा मुद्रा संयुक्ता मन्त्रमीरिता | सर्वां विघ्नकृतां दोषां ग्रहकूष्माण्डमातराम् || १२३, प्. ३७३) सर्वराक्षसमुख्यानां बालसर्वानुत्रासिनाम् | निर्नाशयति सर्वांस्तां मुद्रां प्रहरणोद्भवाम् || षष्टिमेतं तु मुद्राणां लक्षणं समुदाहृतम् | अतः परं प्रवक्ष्यामि मुद्राणां विधिसम्भवम् || तदेव हस्तौ विन्यस्तौ पद्माकारसमुच्छ्रितौ | प्रसारिताङ्गुलिभिः सर्वं मुद्रां पद्म इति स्मृतम् || एषा मुद्रवरा ख्याता सन्यस्ताब्जकुलोद्भवाम् | यावन्त्यब्जकुले मन्त्रा संयुक्ता तैः शुभोदया || क्षिप्रकर्मकरा ख्याता बुद्धाधिष्ठानमुद्भवा | सर्वां साधयते मन्त्रां यावन्त्यब्जकुलोदया || मुद्राणां पद्ममुद्रेयं मध्यमे समुदाहृता | उभौ हस्तौ समायुक्तौ तर्जनीभिः समुच्छृतौ || मध्यमाङ्गुलिभिर्युक्तं विन्यस्ताकारसम्भवम् | अङ्गुष्ठौ न्यस्य वै तत्र मध्यमाङ्गुलिपर्वयोः || तदेव कथितं वज्रं कन्यसं मुद्रमुत्तमम् | यावन्ति वज्रकुले मन्त्रा ते साध्यानेन मुद्रिता || सिद्ध्यन्ते क्षिप्रतो युक्ता विधिना सम्प्रकीर्त्तिता | संयुक्तैः साधकं कर्म यः साध्यं साधयेत् सदा || तस्य सिद्धिर्भवेन्नित्यं उत्तमाधममध्यमा | सर्वे च लौकिका मन्त्राः सिद्ध्यन्ते ह्यविकल्पतः || उभौ हस्तौ समायुक्तौ मध्यमाङ्गुलिमुच्छ्रितौ | सङ्कोच्यानामिकाङ्गुष्ठौ कन्यसौ सूचिमाश्रितौ || उभौ तर्जनिसंश्लिष्टौ मध्यपर्वाग्रकुञ्चितौ | मध्यमो सूचिसमौ न्यस्तौ चक्राकारसमुद्भवौ || एतत्तु धर्मचक्रं वै मुद्रराजमिहोदितः | धर्मराजैस्तथा ह्युक्तो धर्मचक्रश्च वर्तितुम् || १२४, प्. ३७४) शान्तिचक्रं तदा वव्रे मुनिचन्द्रोऽथ सप्तमः | त्रिमलां विच्छेदजापेन मुद्रराजेन योजिता || चक्रिण्यो ये च उष्णीषा लोचनाविद्यमुत्तमा | भ्रुकुटीपद्मकुले तारा मामकी चापि वज्रिणे || सिध्यन्ते धर्मचक्रेण मुद्राराजेन योजिता | समस्ता लौकिका मन्त्रा विष्णुरीशानभाषिता || तां विच्छेददृष्ट्वा वै जापिनां मुद्रसंयुताम् | एतन्मुद्रवरं श्रेष्ठं धर्मधातुविनिःसृतम् || करोति सर्वकर्मं वै सत्त्वानां च यथेप्सितम् | धर्मराजेन शान्त्यर्थं मुद्रेयं सम्प्रभाषितम् || अस्मिं कल्पवरे श्रेष्ठे सर्वकर्मप्रसाधिका | मुद्रेयं धर्मचक्रेति मञ्जुघोषस्य शासने || अग्रिमं सर्वमुद्राणां शान्तिकर्मसु योजयेत् | मन्त्रिभिर्लक्षते नित्यं शिवचक्रा तु सम्भवम् || तदेव विन्यस्तौ हस्तौ सम्पुटाकारमुद्भवौ | श्लथकोशायताङ्गुल्यः उभौ सङ्कुचितौ शुभौ || पुण्डरीकमिति ज्ञेयं मुद्रा सर्वार्थसाधका | तदेव हस्तं निक्षिप्य त्यज्य मुष्ट्यायताङ्गुलिम् || प्रसारिता कराकारं वरदं मुद्रमुच्यते | उभौ हस्तौ पुनः कृत्वा अङ्गुलीभिः समन्ततः || बध्वा च वेणिकाकारं मुद्रैषा रज्जुमुच्यते | पुनः प्रसारयस्तदेकं तु दक्षिणं करमुत्तमम् || कुर्यात् सूचिकाकारं मध्यतर्जनिमङ्गुलौ | ईषत् सङ्कुचिताग्रं तु अङ्गुलीनां नतोत्तमम् || स्थितिकां कारयेत् तत्र सुन्यस्तं तर्जनी तु तम् | कुर्यात् संश्लेषिते तत्र अनामिकापर्वनिश्रिता || १२५, प्. ३७५) मुद्रेयं कुन्तनिर्दिष्टा बहुधा लोकनायकैः | तदेव हस्तौ विन्यस्तौ उभौ तर्जन्यसूचितौ || उभौ मुष्टिसमं कृत्वा अङ्गुलीभिः समं पुनः | तदेव मुद्रसमाख्याता वज्रदण्डं मनीषिभिः || तदेव हस्तौ संयोज्य सम्पुटाकारकारितम् | विन्यस्तामङ्गुलिमञ्जल्यमन्योन्याश्लेषमाश्रितम् || उभौ अङ्गुष्ठमाश्रित्य शतघ्नामुद्रमुच्यते | ततः कृत्वा दुभौ हस्तौ समन्तान्निम्नसम्भवौ || अञ्जलिं तु ततो कृत्वा नाधायानससम्भवम् | मुद्रेयं भेरीति ख्याता त्रिषु लोके हितायिभिः || सन्तारयति भूतानां महासंसारसागरात् | तदेवाञ्जलिमुत्सृज्य चित्रहस्ततलावुभौ || विमानमुद्रमित्याहुः ऊर्ध्वसत्त्वनयानुगाः | तदेव हस्तौ सङ्कोच्य स्यन्दनं तदिहोच्यते || त्रियानगमनं श्रेष्ठं रतो ह्युक्तो नुतायिभिः | नयते सर्वभूतानां जापिनां मन्त्रसम्पदाम् || उत्तमायानमाशृत्य ययुबुर्द्धगतं तु तम् | तदेव हस्तौ उत्सृज्य उभौ कृत्वा पुनस्ततः || कुर्याच्चित्रतलं शुद्धं वेदिकाकारसम्भवम् | एतन्मुद्रवरं श्रेष्ठं लोकनाथैः सुपूजितम् || शयनं सर्वबुद्धानां जिनपुत्रैः समुदाहृतम् | यत्रातीतास्तु सम्बुद्धा शान्तिं जग्मुस्तदाश्रिता || निर्वाणधातुसंन्यस्ता यत्रारूढाशयानुगा | स एषा मुद्रमिति ख्याता शयनं लोकनायकम् || तदेव हस्तौ विन्यस्तौ संश्लिष्ट्याङ्गुलिभिः समम् | सम्पुटाकोशविन्यस्तं तर्जन्येकं तु दक्षिणम् || १२६, प्. ३७६) कुर्याद् वक्रतो ह्यग्रे अर्धचन्द्र. स उचयते | उभौ हस्तौ पुनः कृत्वा दक्षिणाङ्गुष्ठमुष्टितः || वामहस्तासृतैः सर्वैः अङ्गुलीभिः समोचितैः | बध्वा मुष्टि कराग्रे तु दक्षिणाङ्गुष्ठमिश्रितः || तं दक्षिणैरेव समायुक्तैरङ्गुलीभिः पुटीकृतैः | कन्यसां विसृतां कृत्वा वीणमुद्रा उदाहृता || उभौ हस्तौ पुनः कृत्वा आकाशौ विरलाङ्कुलौ | उभावङ्गुष्ठयोर्मध्या उभौ तर्जनिमाश्रितौ || एषा षद्मालया मुद्रा सम्बुद्धैः कथिता जगे | उद्धृताङ्गुष्ठकौ नित्यं पुनः कुवलयोद्भव || मुद्रा च कथिता लोके सम्बुद्धैर्द्विपदोत्तमैः | तदेवमञ्जलिं कृत्वा प्रणामाकारजगद्गुरुम् || सा नमस्कारमुद्रेयं सर्वलोकेषु विश्रुता | तदेव मुद्रा विष्टभ्य हस्तौ यमलसम्भवौ || एषा यमलमुद्रेयं त्रिषु लोकेषु विश्रुता | ईषन्मूलतो हस्तौ अङ्गुष्ठौ च सुपीडितौ || सा भवेत् सम्पुटा मुद्रा शोकायासीवनाशनी | एता मुद्रास्तु कथिता ये सर्वे प्रहरणोद्भवाः || पुष्पाख्या शयनयाश्च वाद्याद्या ग्रहनामका | सर्वे सर्वकरा युक्ता मन्त्रैः सर्वैस्तु भाषितम् || न तिथिर्न च नक्षत्रं नोपवासो विधीयते | संयुक्ता मुद्रमन्त्राश्च क्षिप्रं कर्माणि साधयेत् || जापिनस्तपसा युक्तो जप्तमात्रो विचक्षणः | मुद्रा मन्त्रप्रयुक्ता च असाध्यं किञ्चि न विद्यते || उभौ हस्तौ पुनः कृत्वा अञ्जल्यान्योन्यसक्तकम् | कन्यसानामिकाङ्गुष्ठौ पार्श्वतो न्यस्तौ धूपमुद्रा उदाहृता || १२७, प्. ३७७) आधाराञ्जलियोगेन तर्जन्यावीषत् कोचयेत् | सामान्या वलिमुद्रा तु उद्भूता लोकतायिभिः || मध्येषु पुष्पविन्यस्तं यथासम्भवतो विविधैः | दत्तं भवति मन्त्राणां बलिकर्मेषु सर्वसु || दक्षिणेनाभयं हस्तं कृत्वा च वामकरेण वै | मणिबन्धनयोगेन ग्राह्यं करदक्षिणम् || एषा ते सर्वमन्त्राणां गन्धमुद्रा उदाहृता | दक्षिणाकरमुष्टौ तौ अङ्गुष्ठौ मध्यमौ सदा || सूच्याकारं ततः कृत्वा दीपमुद्रा उदाहृता | अनामिकाङ्गुष्ठयोरेव अक्षसूत्रात् संस्थितम् || कन्यसां प्रसार्यतो नित्यं मध्यमां तस्य पृष्ठतः | तर्जनीं कुञ्चितां न्यस्य अक्षमुद्रेति उच्यते || गर्भाञ्जल्यास्ततो न्यस्य अक्षसूत्रं स मन्त्रवित् | जपेद् यथेष्टतो मन्त्रं क्षिप्रं सिद्धिवरप्रदम् || शोभनं सर्वमुद्राणामेष दृष्टविधिः सदा | अग्नेर्दक्षिणहस्तेन अभयाग्रं तु कारयेत् || अभिमुखं ज्वलने स्थाप्य तर्जनीं कुञ्चयेत् सदा | अङ्गुष्ठं च करे न्यस्य मध्ये कुञ्चितसंस्थितम् || एतदावाहनं मुद्रं निर्दिष्टं जातवेदसे | कुञ्चितं तर्जन्याग्रं अङ्गुष्ठौ चैकयोजितम् || विसर्जनं सर्वकर्मेषु ज्वलने सम्प्रदृश्यते | कुर्यात् सर्वमन्त्राणां होमकर्मविचक्षणः || मुद्रैरेतैर्भिसंयुक्तः मन्त्रमग्नौ सुयोजितः | प्रणामाञ्जलिरन्तरिता अङ्गुलीभिः समन्ततः || कुर्यात् तं विपरीतं तु अङ्गुष्ठौ च समिश्रितौ | बहिः सङ्कोच्य तर्जन्यौ मध्यमीभिः समाश्रितौ || १२८, प्. ३७८) एषा मुद्रवरा ह्युक्ता पूजाकर्मसु योजिता | प्रणामं सर्वमन्त्राणां मन्त्रनाथं जिनोरसाम् || शोधनं सर्वमन्त्राणामासनं च प्रदापयेत् | असम्भवेऽपि पुष्पाणां मुद्रं बध्वा तु योजयेत् || पूजिता विधिना ह्येते मन्त्रा सर्वार्थसाधिका | मुद्राबन्धेन पूजार्थं कृतं भवति शोभनम् || द्वितीया चित्तपूजा तु यादृशी पुष्पसम्भवा | एष पूजाविधिः प्रोक्ता सम्बुद्धैः द्विपदोत्तमैः || अभावेन तु पुष्पाणां द्विविधा पूज उच्यते | सर्वमन्त्रप्रसिध्यर्थं सर्वकर्मेषु योजयेत् || सर्वकर्मकरा मुद्रा सर्वबुद्धैस्तु भाषिता | आसने शयने स्नाने पानानुभोजने || शोभने दीपने मन्त्रे स्थाने मण्डलकारणे | समयः सर्वमन्त्राणामधिष्ठानार्थं तु मन्त्रिणाम् || कथिता लोकनाथैस्तु मुद्रेयं सर्वकर्मिका | परिपूर्णं शतं प्रोक्तं मुद्राणां नियमादयम् || अतःपरं प्रवक्ष्यामि मुद्रामष्टमतां गताम् | तदेव हस्तौ विन्यस्तौ उभौ कृत्वा पुनस्ततः || तयैव प्रदेशिनीं कृत्वा मध्यग्रा सूचिमिश्रिता | नखस्याधस्तात् तृतीये वै भागे संसक्तकारितौ || आकोशामुद्भवावेष्ट्य शूच्याकारं तु कारयेत् | एतन्मन्त्राधिपतेर्मुद्रा शक्रिणस्य महात्मनः || एता एव प्रदेशिन्या सञ्चार्या सममध्यमा | शूच्या नखस्य विन्यस्ता संसक्ता च अनामिका || एष उष्णीषमुद्रा वै जिनेन्द्रैः सम्प्रकाशिता | तदेव हस्तौ विन्यस्तौ मध्यमाङ्गुलिवेष्टितौ || १२९, प्. ३७९) कन्यसाङ्गुलिसंयुक्तौ मुद्रेयं मितमुद्भवा | मध्यसूच्या समं कृत्वा संसक्तौ च करोरुहौ || निर्मुक्तः कुण्डलाकारा महामुद्रा स उच्यते | तामेव प्रदेशिन्याग्राधिभून्तरेल्पसतृकम् || मध्यसूच्यां ततो न्यस्य अधस्तात् संसक्तपाणिना | पर्वतृतीययोर्न्यस्तौ अङ्गुष्ठौ नखपीडितौ || एषा मुद्रा वरा प्रोक्ता मञ्जुघोषस्य धीमतः | तदेव हस्तौ विन्यस्तौ अञ्जलीकारसंस्थितौ || मध्यमाङ्गुलिविन्यस्तौ सूच्यग्रानामितः स्थितौ | अङ्गुष्ठौ मध्यमां स्पृश्य अङ्गुलीपर्वसत्रिकम् || कन्यसाङ्गुलीभिः सूचीं कृत्वानामितमुच्छ्रितौ | एषा मुद्रा वरा श्रेष्ठा धर्मकोशस्थतां गताः || तदेव हस्तौ विन्यस्तौ विधिदृष्टसमासतौ | तदेवमङ्गुलिभिः सर्वैः आपूर्णैः कोशसंस्थितम् || उभौ हस्तौ विवृण्णीयात् अष्टानाङ्गुलिनावृताः | अष्टां पुरुषतत्त्वज्ञां चत्वारो युगतां गताम् || तदेव सङ्घमित्याहुः सम्बुद्धा द्विपदोत्तमाः | स एव मुद्रा सङ्घेति कत्थ्यते ह भवालये || एषा मुद्रवरा श्रेष्ठा सर्वकर्मप्रसाधिका | उभौ हस्तौ पुटीकृत्वा अञ्जल्पाकारसंस्थितौ || प्रसार्य तर्जनीमेकां दक्षिणां करनिःसृताम् | सा एष भूतशमनी निर्दिष्टा तत्त्वदर्शिभिः || एषा मुद्रा वरा ख्याता सर्वकर्मार्थसाधिका | तदेव हस्तौ विन्यस्तौ वेणिकाग्रावचिह्नितौ || पिण्डस्थौ सम्पुटाकारौ उच्छ्रिताङ्गुष्ठनामितौः | एषा सा पद्ममालेति आदिबुद्धैः प्रचोदिता || १३०, प्. ३८०) तदेव हस्तावुत्तानौ अङ्गुलीभिः समन्ततः | प्रफुल्लनिर्मिताकारौ अङ्गुष्ठाङ्गुलिसतृकौ || द्वितीये पर्वतो न्यस्तौ अङ्गुष्ठौ तर्जनि चोभयौ | स एषा मुद्रवरा ख्याता सम्बुद्धैस्त्रिदशालया || एते मुद्रा महामुद्रा अष्टा ते ते समकर्मिकौ | तुल्यप्रभा महावीर्या संबुद्धैः सम्प्रकाशिता || षष्टिविम्बरकोट्यस्तु अशीतिः सहमुद्भवैः | अतीतैर्मुनिवरासङ्ख्यैर्मुद्रा ह्येते प्रकाशिता || शतमष्टाधिकं प्रोक्तं मुद्राणां विधिसम्भवम् | एतैः सर्वैस्तु सर्वाणि मन्त्रकर्मांश्च साधयेत् || सर्वमन्त्रां तथा कर्मा सर्वान्येव प्रसाधयेत् | एतन्मुद्रामतं प्रोक्तं सर्वबुद्धैः महर्द्धिकैः || विधिना योजिता ह्येते क्षिप्रमर्त्थप्रसाधिका | इत्युक्त्वा मुनिनां मुख्यः शाक्यसिंहो नरोत्तमः || मञ्जुघोषं तदा वज्रे बोधिसत्त्वं महर्द्धिकः | एष मञ्जुश्रियाकल्पे मुद्रासम्भसम्भवः || त्वयैव सम्प्रदत्तोऽयं रक्षार्त्थं शासने भुवि | युगान्ते वर्त्तमाने वै मयैव परिनिर्वृते || रक्षार्त्थे शासने मह्यं सर्वेदं कथितं मया | मुद्राणां लक्षणा ह्युक्तं मन्त्राणां च सविस्तरम् || रहस्यं सर्वलोकानां गुह्यं चापि उदीरितम् | एतत्कल्पाधिपे सूत्रे गुणविस्तारविस्तृतम् || अनेकधा च मन्त्राणां गुणवर्णसमोदयम् | बहुधा मन्त्रयुक्तिश्च तन्त्रयुक्ति उदाहृता || प्रभावगुणसिद्धान्तं जापिनां हेतुसम्भवम् | फलोदयशुभो ह्युक्तः सत्त्वानां गतियोनयः || कुमार ! त्वदीयमन्त्राणां सिद्धिहेतुनियोजिता | एवमुक्तस्तु मञ्जुश्रीः कुमारो गगनासृतः || १३१, प्. ३८१) प्रणम्य शिरसा सम्बुद्धं लोकनाथं प्रभाकरम् | दीर्घं निश्वस्य करुणार्द्रो रोरुरोद ततः पुनः || तस्थुरे समीप बुद्धस्य आपृच्छय वरदां वरम् | निर्नष्टे भगवां लोके मन्त्रकोशे महीतले || सत्त्वानां गतिमाहात्म्यं कथं तस्मै भविष्यति | एवमुक्तस्तु सम्बुद्धो मञ्जुघोषं तदालपेत् || शृणोहि वत्स ! मञ्जुश्रीः ! कुमार ! त्वं यदि पृच्छसि | मया हि निर्वृते लोके शून्यीभूते महीतले || निर्नष्ठे धर्मकोशे च श्रावकैश्चिरनिर्वृतैः | शास्तु बिम्बस्तथा रूपं कृत्वा वै द्विपदोत्तमः || पूजां सत्कारतः कृत्वा धूपगन्धविलेपनैः | विविधैर्बस्त्रवरैश्चान्यैर्मणिकुण्डलभूषणैः || विविधैर्भोज्यभक्षैश्च सन्नियोज्य निवेदनम् | विविधाकारसम्पन्नं यथेष्टाकारकारिणे || तथै * (?) मन्त्रमावर्त्त्य सत्त्वयोनिगतिः शुभम् | आजहार पुरं श्रेष्ठं उत्तमां गतियोनये || अन्ते बोधिनिम्नस्थः शान्तिं जग्मुः सपश्चिमे | एवमुक्तस्तु मञ्जुश्रीस्तुष्टो सम्बुद्धचोदितः || सम्प्रतुष्य ततो धीमां बोधिसत्त्वो महर्द्धिकः | एतत् सर्वं पुरा गीतं शुद्धावासोपरि स्थितम् || बुद्धानां सन्निधौ बुद्धधर्मचक्रप्रवर्त्तकः | मन्त्रचक्रं तदा वव्रे चिरकालानुवर्त्तितम् || इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्रात् त्रयः त्रिंशतिमः मुद्राविधिपटलविसरः परिसमाप्तमिति | १३२, प्. ३८२) अथ षट्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! परमगुह्यतमं त्वदीयं मूलमुद्रासमेत सपरिवारं मुद्रालक्षणं सर्वकर्मेषु चोपयोज्यं सर्वसम्पत्तिदायकं सफलं सर्वमन्त्रानुवर्त्तनं सर्वकर्मार्त्थसाधकम् | संक्षेपतः शृणु मञ्जुश्रीः ! || आदौ तावत् प्रसृताञ्जलिः तर्जन्यानामिकामध्यपर्वतानुप्रविष्टा पृथक् पृथक् | सा एषा मञ्जुश्रीस्त्वदीया मूलमुद्रा विख्याता सर्वकर्मिका भवति | तथैव हस्तौ संयम्य अनामिकासंहता तर्जनी मध्यमास्तथा कनिष्ठिकया ऊर्ध्वरेखास्थिताङ्गुष्ठशीर्षे | अयमपरा मञ्जुश्रीस्त्वदीया वक्त्रमुद्रा उदाहृता | अन्योन्यसक्ताङ्गुलिमुष्टिं कृत्व मध्यंमाङ्गुलि विमुच्य सूचीकृत्वा तस्य पार्श्वयोर्वलिततर्जनीयुगलमन्ते न्यसे एषा मञ्जुश्रीः ! त्वदीयमुद्रेयं दंष्ट्रा भवति | मुद्राया अङ्गुष्ठयुगलं पार्श्वयोर्न्यसेत् | एषा मुद्रा साक्षात् त्वं मञ्जुश्रीः ! तस्मिं स्थाने तस्मिं करपुटे सान्निध्यं समयेनाधितिष्ठसे | अन्योन्यसक्ताङ्गुलिमुष्टयोः प्रदेशिनीं मुक्त्वा अङ्गुष्ठयुगलं मध्यतः | एषा सा मञ्जुश्रीः ! त्वदीया अपरा चीरकमुद्रा | प्रसृताञ्जलिपर्वणी कृत्वा अनामिके तर्जनीं मध्यमान्तरस्थिताग्रे | इयमपरा मञ्जुश्रीः ! साक्षादेव त्वं मूलमुद्रा उदाहृता | अस्यैव मुद्रायाः प्रसृतां तर्जनीं कृत्वा | एषा सा मञ्जुश्रीस्त्वदीयनेत्रमुद्रा भवति | कन्यसानामिकावेणीकृतकरपुटमध्यस्थिता मध्यमौ बहिः तः तर्जन्युपरि कुञ्चिताग्रे अङ्गुष्ठाग्रसंश्लिष्टाग्रासु | अयमपरा त्वदीया त्वदीया मञ्जुश्रीः ! वक्त्रमुद्रा भवति सर्वकर्मिका || एवमनेन क्रमेणैकैकाङ्गुलिमथ मुंच उभौ अङ्गुष्ठसहिता सर्वे अङ्गुलियोगेन एकैकं प्रसारये उच्चीकृतदक्षिणाङ्गुष्ठं त्वदीय मञ्जुश्री ! एषा उष्णीषमुद्रा | दक्षिणं सङ्कोच्य वाममुच्छ्रितं ललाटमुद्रा भवति त्वदीया म~जुश्रीः ! | यां दृष्ट्वा सर्वे दुष्टग्रहाः प्रपलायन्ते || १३३, प्. ३८३) एवं श्रवणो ग्रीवा भुजौ हृदयं करौ कण्ठ कटिं नाभिः ऊरू जङ्घां चरणौ नेत्रौ वक्त्रं जिह्वा चेति एवं दशभिरङ्गुलीभिरनुपूर्वमुच्छ्रितौ अनुपूर्वमुद्रालक्षणं भवति | अनुपूर्वं च कर्म करोति | वक्त्रमुद्रया मुखाबन्धं दंष्ट्रमुद्रया दुष्टग्रहमोचनं जिह्वामुद्रया दुष्टवचननिवारणं हृदयमुद्रया नृपतिकोपनाशनं अन्यं वा सत्त्वं देवासुरं मानुषामानुषाद्यां विविधां वा गतिनिश्रितां रुपितानां क्रोधनाशनं भवति || एवमनुपूर्व्या सर्वतः सर्वकर्माणि करोति | एवमसङ्ख्येयानि अनेन क्रमेण मुद्राणि भवन्ति | असङ्ख्येयानि च कर्माणि करोषि त्वं मञ्जुश्रीः ! सर्वथा सर्वमुद्रेष्वेव सर्वकर्माणि भवन्ति || बद्धा ता यैः महावीरैः सङ्ख्यातीतैः तथागतैः | महामुद्रा महावीरैर्महाभूमिगतैरपि || यत्र निम्बरकोद्यानि षट्त्रिंशाशीतिनवपञ्चकैः | षष्टिर्नयुतसङ्ख्याद्यैः सर्वलोकोत्तरोत्तरैः || सर्वमुद्रान्तर्गताः सर्वे ये चान्या लौकिका क्रिया | एभिरन्यतमैर्मुद्रैः कुर्यात् सर्वार्थसाधनम् || हस्तद्वयेनावबद्धा वै साधनकाले च मण्डले | पूर्वसेवाभियुक्तेन होमजापेषु वा पुनः || निषण्णः स्थितको वापि यावदिच्छं जपेद् व्रती | महारक्षाविधानेन आत्मनस्य परस्य वा || कुर्यात् सर्वाणि कर्माणि सर्वमुद्रेषु सर्वदा || इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसका महायानषवैपुल्यसूत्रा चतुःत्रिंशतिमः द्वितीयमुद्राविधिपटलविसरः परिसमाप्त इति || १३४, प्. ३८४) एतद्ग्रन्थान्तेऽन्तिमस्य पटलविसरस्य त्रिपञ्चाशत्तमस्य समाप्त्यनन्तरं महामुद्रापटलविसरो नाम कश्चिदपरश्चतुस्त्रिंशत्तमः पटलविसरो लिखित उपलभ्यते | स गतस्य चतुस्त्रिंशत्तमस्यैव प्रकारभेदो भवितुमर्हतीत्यतः कारणादिहैव योज्यते | अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमरभूतमामन्त्रयते स्म | सर्वांश्च बोधिसत्त्वां सर्वसत्त्वांश्च पर्षत्सन्निपतितां | शृण्वन्तु भूतगणाः ! सर्वे ! देवपुत्राश्च महर्द्धिकाः ! अस्ति मञ्जुश्रियः कुमारभूतस्य बोधिसत्त्वस्य महासत्त्वस्य कल्पविसरे समुद्रापटलसाधनोपयिकं सर्वमन्त्रतन्त्रचर्यानुप्रविष्टानां सत्त्वानां बोधिसम्भारकारणं | यथा सिध्यन्ति सर्वमन्त्राः क्षिप्रतरमाकृष्यन्ते सर्वकर्माणि सर्वेषां सर्वतः मुद्राणि भवन्ति | यैः मुद्रिताः क्षिप्रतरं वशा भवन्ति | तं शृण्वन्तु भवन्तो | भाषिष्येऽहं सर्वसत्त्वानामर्थाय | सर्वमन्त्राणां मुद्राणि भवन्ति || अथ खलु भगवां शाक्यमुनिः सर्वबुद्धधर्माणां मुद्रालङ्कारतथागतगुणमाहात्म्यसमुद्रमुद्रा नाम समाधिं समापद्यते स्म | समनन्तरसमापन्नस्य भगवतः सर्वतथागताः सर्वमुद्रासमयं भाषते स्म | तस्मात् समाधेरुत्थाय सर्वतथागतमुद्रामुद्रितं महामुद्रापटलविसरं सर्वमन्त्राणां भाषते स्म || आदौ तावत् सर्वमन्त्रकुलेषु हृदयानि भवन्ति | पूर्वमुच्चारयेद् द्विसप्त एकवाराम् | ततो मुद्रा बन्धितव्या नान्यथादिति | कतमं च तत् || सर्वतथागतानां हृदयम् | जिनजिक् | एष स मार्षाः ! सर्वतथागतानां हृदयः सर्वकर्मिकः | तथागतकुले सर्वमुद्रा बन्धितव्या | ततः कर्म समारभेत् | आरोलिकु | अवलोकितस्य हदयः सर्वकर्मिकः पद्मकुले सर्वमुद्राबन्धयता अयं जप्तव्यः सर्वसाधनोपयिक सर्वकर्मसु | वज्रधृक् | एष स मार्षा वज्रपाणेः हृदयम् | सर्ववज्रकुलेषु च जपता मुद्रा बन्धितव्या | सुरारकु | एष सर्वदेवानां सर्वमुद्राबन्धयता सर्वकर्मसु प्रयोक्तव्यः | १३५, प्. ३८५) सर्वदेवानां हृदयः | यक्षातक् | सर्वयक्षाणां हृदयः | पिनाधृक् | रुद्रस्य हृदयः | ष्ठों | एष स मार्षा एकाक्षरं नाम हृदयम् | सर्वलौकिकलोकोत्तराणां सर्वभूतकूष्माण्डपूतनक्रव्यादादिषु नक्षत्रग्रहमातरकुमारकुमारिकाणां मनुष्यामनुष्यसर्वसङ्ख्यातविद्याधरऋषिप्रभृतीनां सर्वसत्त्वानां सर्वगतिसूत्रकर्मावबद्धानां सर्वभूतानामुक्तानां च वीतरागानां महर्द्धिकामहर्द्धिकाणां तृदोषशमनानां त्रिपङ्कनिमग्नानां सर्वसत्त्वानामर्थाय अयमेकाक्षरो मन्त्रः सर्वेषां हृदयं भवति | सर्वकर्माणि करोति | सर्वमुद्राश्च बन्धितव्या | जपं कुर्वाण अनेनैव हृदयेन जपः कर्तव्यः | सततं बुद्धाधिष्ठितो भवति | महाप्रभावोऽयं महानुशंसः सर्वकर्मसु मुद्रादिकमण्डलुविधानपटसाधनोपयिकेषु सत्त्वानुपूर्वं प्रयोक्तव्यः | सर्वं साधयति | यन्मनसाभिरुचितं साधकेनेति || ततो मुद्राणि भवन्ति शतं चाष्टसाधिकम् | उष्णीषमुद्रा प्रथमं कुर्याच्चक्रिणे जिने || ततः परमलोके स पद्ममुद्रेति कथ्यते | तृतीयं वज्रमुद्रं तु वज्रपाणिसमाविशे || चतुर्थं देवतामुद्रं स्वस्तिकं तु विनिर्दिशेत् | पञ्चमं खड्गमुद्रा तु राक्षसानामिहोच्यते || षष्ठं गदमुद्रा तु यक्षाणा मे प्रकीर्तिता | सप्तमं असुराणां तु मन्त्राणां वज्रमुष्टिसमोदिता || अष्टमं शूलमुद्रा तु सर्वक्रोधेषु पठ्यते | नवमं पुष्पमुद्रा तु यक्षयक्षीषु कीर्त्तिता || दशमं मुद्गरं विन्द्यात् फरमेकादशं परम् | द्वादशं शक्तिनिर्दिष्टा कार्त्तिकेयस्य बालिशः || मञ्जुघोषस्य विख्यातमुत्पलं तु प्रयोजयेत् | त्रयोदशानां सङ्ख्या निर्दिष्टा मुनिभिः सत्त्वदेशिभिः || १३६, प्. ३८६) चतुर्दशं तु भवेच्छङ्खो भेरी पञ्चादशा स्मृता | पटहो षोडशा ज्ञेयो दुन्दुभिः सप्तदशो परः || अष्टादश तथा बद्धमूनविंशत् करणमुच्यते | विंशत् परशु निर्दिष्टा सङ्ख्याया तु प्रमाणतः || सितपत्रा तथाच्छत्रं उष्णीषाणां प्रकीर्त्तितम् | चीवरं पात्रनिर्दिष्टं खखरं तु मतः परम् || कृपा मैत्री तथा प्रज्ञा ध्यानशील तथापि च | क्षान्तिदानादिकं षट्कं निर्दिष्टं लोकनायकैः || बुद्धानां कथिता ह्येते षट् पारमिताश्रवात् | त्रिंशच्चक्रिणे मुद्रा कथिता लोकपुङ्गरिवः || एकाक्षरस्य वीरस्य मन्त्राणामधिपतेर्विभो | लोकेश्वरस्य विद्यानां कथिताष्टविंशति साधिका || सिताख्या महाश्वेता तथा षण्डरवासिनी | भृकुटी च तथा देवी बुद्धानां हृदयोद्भवा || ताराया कथ्यते मुद्रा उत्पलं तु नियोजयेत् | हयग्रीवस्य तु भीमस्य मुद्रा वक्त्र इति स्मृता || वज्रपाणे तथा मुद्रा तिंश एक भवन्ति ते | सर्वे प्रहरणा तस्य नानाकारा युधिष्ठिता || चत्वारोऽपि महामुद्रा प्रोक्ता मारमण्डले | रुद्रस्य शूलनिर्दिष्टो * * * * * * * (?) || ब्रह्मस्याक्षमालं तु विष्णोश्चक्रमितिस्तथा | * * * * * * * (?) यमदण्डमतः परां || एतत् सर्वं देवानां सर्वयक्षनराधिपां | सर्वभूतानां तथा मुद्रा सर्वसत्त्वसमाश्रिता || सरागवीतरागाणां त्रिधा धातु स्थिता परां | सर्वलोकसमावृत्त्यु त्रिधा स्थावरजङ्गमा || १३७, प्. ३८७) धात्वाख्यामसङ्ख्ययां ये सत्त्वा भूतवादिनः | सर्वेषाणां तु सर्वत एकमुद्रादिहोच्यते || एवमष्टशतं प्रोक्तं शतमेकं साष्टसाधिकम् | तेषां च गुणविस्तारं प्रभावं च इहोच्यते || यथा मनुष्याणां भवेत् सिद्धिः संयुक्ता मन्त्रयोजिता | करोत्यन्यप्रयोगैश्च अङ्गुलीभिः सशोभिता || विन्यस्ता करयोर्मध्ये क्षिप्रमर्थकरा परा | तेषामादि वक्ष्ये शृणुध्वं भूतिकांक्षिणः || आदौ तावच्छुचौ देशे शुक्लवस्त्र शुचाम्बरः | शुचिकर्मसमाचारो शुचौ देशे सदारतः || बन्धयेत् प्राङ्मुखो भूत्वा स्थितो स्तूपस्य चग्रतो | नाशिष्याय प्रदातव्यं रौद्रकर्मान्तचारिणे || अभय अदाताय समयानुप्रवेशिने | भक्तो जिनपुत्राणां बुद्धानां चापि शासने || अनुत्पादितचित्तस्य नादेयं मुद्रसम्पदा | भक्तानां जिनपुत्राणां बोधिसत्त्वानां च धीमताम् || प्रत्येकबुद्धानार्हतानां पूजितानां ददेत् सदा | सुस्थितो बोधिचर्यायामाचार्यो बहुमतः सदा || सर्वमन्त्रप्रयोगेषु * * * (?) उत्कृष्ट सदा | तेन मुद्रा तदा देया शिष्यस्याविचिकित्सतः || तथा मन्त्रप्रयोगज्ञः शुचिर्दक्षः कुलान्वितः | आचार्यो धार्मिको धीमां अभिषिक्तो दृष्टमण्डलः || तेनोपदर्शिता मन्त्राः शिष्यो गृह्येत तन्त्रवित् | शिष्येण कार्यस्तथा प्रेमो बुद्धस्येव गुरोस्तथा || अन्यथा न सिद्धि मन्त्राणां सर्वमुद्रेषु वा सदादिदि | १३८, प्. ३८८) आदौ तावत् शुचिर्भूत्वा प्राङ्मुखो शुक्लचन्दनेन हस्तमुद्वर्त्य पूर्वं तावत् समयमुद्रा बन्धितव्या | भगवतो उष्णीषस्य मुद्रा | उभौ करौ कृताञ्जलिपुटौ अशुषिरौ ईषित्कुञ्चितौ कुड्मलाकारौ अकोशपद्माननौ | अयं भगवतो बुद्धस्य समयमुद्रा | तदेव हस्तौ प्रसारितौ सम्पुटावस्थौ पद्मविकसिताकारा अवलोकितस्य मुद्रा | उभौ हस्तौ पूर्ववत् करमावेष्टयित्वा अभ्यन्तरस्थिताभिरङ्गुलीभिः कन्यसः तर्जन्योपरिष्ठा निष्पीडयेत् | इयं मञ्जुश्रियः कुमारभूतस्योत्पलमुद्रा | तदेव कन्यसौ सङ्कोच्य पूर्ववत् तर्जन्याभिः अङ्गुष्ठसमेतौ स्थितिकरा एव उत्पलकुड्मलाकार दर्शयेत् | सर्वङ्गमानामियं ताराया मुद्रा | तदेव सङ्कोच्य नेत्राकारं कृत्वा इयं मुद्रा आर्यभृकुट्याः | तदेव ललाटे योजयेत् | इयं देव्यदेव्या नेत्रमुद्रा | पुनरपि तं सङ्कोच्योभौ मध्यमाङ्गुलिभिः सन्दंशाकारं कृत्वा मस्तकोपरि स्थापयेत् | इयं भगवतो चक्रवर्तिनः एकाक्षरस्य महामुद्रा सर्वकर्मिका | तदेव ललाटे स्थापयेद् बुद्धस्य भगवतः हृदयमुद्रा | अक्ष्णौ स्थापयेत् | तदेव चक्रवर्तिनः नेत्रमुद्रा | तदेव मुके स्थापयेत् | तदेव विद्याधिपतेः चक्रवर्तिन एकाक्षरस्य वक्त्रमुद्रा | एवं याव मन्त्री च भुजौ जानुजङ्घाचरणादिषु विंशत्प्रकारा भवन्ति मुद्रा अष्टौ महामुद्रा भवन्ति | सर्वकर्मसु प्रयोक्तव्या | तदेव करसम्पुटं मध्यमाङ्गुल्यावेष्टितं कृत्वा कन्यसाङ्गुलिसूचीकृतां उभौ अङ्गुष्ठाग्रयवाकारस्थितौ तर्जन्या प्रसारितौ कृतसूच्या कोशीकृतावुभौ निर्नामिकौ वक्रीकृतपर्यन्तौ सुविन्यस्तौ | इयं भगवतां धर्मचक्रमहामुद्रा | तदेवाङ्गुष्ठौ विनाम्य मध्ये प्रसार्य इयं बुद्धानां चतुर्मारपराजयमुद्रा | तदेव मुद्रां शिरस्योपरिधाय दर्शयेत् | सर्वबुद्धानां सर्वक्लेशनिषूदनं नाम महामुद्रा | तदेव ललाटे स्थापयेत् | महाकरुणा नाम सर्वबुद्धानां मुद्रा | तदेव हृदये स्थाप्य सर्वदृष्टिशल्याभ्युद्धरणं नाम महामुद्रा | तदेव मुद्रं उभौ न्यसेत् | सर्वविद्याप्रसाधनं नाम महामुद्रा | तदेव मुद्रा ग्रीवा संन्यसेत् | सर्वानर्थप्रशमनकरी नाम महामुद्रा | तदेव मुद्रा सर्वतः भ्रामयेत् | महारक्षार्थसम्पातनं नाम महामुद्रा | एवमनेन प्रकारेण अष्टौ महामुद्रा भवन्ति सर्वार्थसाधकाः | जयोष्णीषस्य मुद्रा भवन्ति | तदेव करपल्लवो वामहस्तप्रसारितौ दक्षिणतस्तिर्यकं | इयं सितातपत्रस्यच्छत्रमुद्रा | १३९, प्. ३८९) तदेव हस्तौ तथा विन्यस्तौ शिरसि भगवतो जयोष्णीषस्य मुद्रा | उभौ करतलौ सम्पुटीकृत्य मूर्ध्नि स्थापितो उष्णीषाकारो इयं भगवतो अभ्युद्गतोष्णीषस्य मुद्रा | तदेव मुद्रां विकाषयेत् | इयं ज्वालामालिनोष्णीषमहामुद्रा सर्वकर्मिका | सर्वभयेषु च प्रयोक्तव्या सर्वकर्मसु | तदेव मुद्रा उरसि स्थापयेत् | सर्वोष्णीषाणामियं महामुद्रा | तदेव हस्तौ आवेष्ट्यावस्थितौ सुदृढौ सर्वतथागतानां महाकवचमुद्रा सर्वविघ्नेषु प्रयोक्तव्या | तदेव हस्तौ उभयाग्रावस्थितौ पुस्तकाकारौ उरोमध्ये न्यसेत् | इयं सा सर्वबुद्धानां जनेत्री प्रज्ञापारमिता महामुद्रा | सर्वसत्त्वानां दर्शयेत् | सर्वविघ्नेषु सर्वानर्थां प्रशमयति | सर्वार्थां सम्पादयति | स्मृतिसञ्जननं कुरुते | तदेव हस्तौ ललाटे न्यसेत् | सर्वबुद्धानामभिषेकः धर्ममहामुद्रा | सर्वाभिषेकेषु प्रयोक्तव्यः सर्वसत्त्वानाम् | तदेव हस्तौ चित्राकारेण ललाटे न्यसेत् | सर्वमारविद्रापनं नाम महामुद्रा | तदेव हस्तौ सङ्कुचिताकारौ अन्योन्यसङ्कुचितसक्तौ सूच्याकारेण व्यवस्थितौ मध्यमाङ्गुलिप्रसारितौ सूचीकृतचिह्नौ अङ्गुष्ठोद्वन्द्वपरामृष्टौ | इयं भगवतो तेजोराशेर्महामुद्रा | तदेव मुद्रं शिरसोपरि निधाय इयमपरा तथागतोष्णीषस्य तेजोराशेर्महामुद्रा | तदेव हस्तौ ललाटे स्थापयेत् तेनैवाकारेण इयं भगवतो तृतीया नेत्रमुद्रा | तदेव हस्तौ उभयचित्रीकृतौ अन्योन्योपरिस्थितौ दक्षिणार्थमथ वामसम्पुटाकारस्थितौ अन्योन्याङ्गुष्ठकन्यसावेष्टितौ | इयं सर्वबुद्धानां महावज्रासनमूलमुद्रा | तदेव हस्तौ मूर्ध्नि दर्शितौ महाबोधिवृक्षमूलमुद्रा | तदेव हस्तौ सम्पुटितौ पृष्ठीकृतौ सर्वबुद्धानां सर्वमारविध्वंसनकरी नाम मुद्रा | तदेव हस्तौ अन्योन्यावसक्तौ ग्रीवायां न्यसेत् | सर्वभूतवशीकरी नाम मुद्रा | तदेव कण्ठे धारयेत् | सर्वभूतविलोकनी नाम महामुद्रा | तदेव जानुभ्यां न्यसेत् | सर्वदुर्गतिविशोधनी नाम महामुद्रा | तदेवोर्ध्वं चिक्षिपेत् | सर्वदेवोत्पत्तिसन्निचयं नाम महामुद्रा | तदेव हस्तौ अभयाकारं उभौ सर्वभोगविषयं नाम शनिर्नाम महामुद्रा | तदेवाञ्जल्यकारेण मूर्ध्नि स्थापयेत् | सर्वबुद्धक्षेत्राक्रमणी नाम महामुद्रा | तदेव हस्तौ उभौ कर्णे स्थापेयत् | स्फुटाकारेण सर्वनागदमनी नाम महामुद्रा | तदेव हस्तौ उभौ सम्पुटं कृत्वा नासाग्रे धारितव्यः | सर्वबुद्धानामालम्बनं नाम महामुद्रा | १४०, प्. ३९०) तदेव मुद्रं शिरस्योपरि न्यसेत् | सर्वबुद्धाभ्युद्गतोष्णीषो नाम महामुद्रा || एवमनेनाकारेणासङ्ख्यानि भवन्ति सर्वतथागतोष्णीषायां मुद्राणि | असङ्ख्येयैः बुद्धैर्भगवद्भिः असङ्ख्येय चक्रवर्तिकुलं असङ्ख्येयाश्चक्रवर्तिनः | तेषामधिपतिः एकाक्षरो चक्रवर्त्ती मन्त्राधिप असङ्ख्येयाश्च तथागतोष्णीषराजानः असङ्ख्येयाश्च सर्वमन्त्रेषु कल्पविसरा | तेषां संक्षेपतः वक्ष्यते मुद्रा चात्र भवत्येक एव सर्वेषां हृदयः एकाक्षरः चक्रवर्त्ती | तस्यैव यो मूलमुद्रा सा इहैवोच्यते मन्त्रेषु निर्दिष्टा महाप्रभावामितौजसः | यस्याः बन्धनादेव सर्वमन्त्राभिमुखा भवन्ति | सर्वयुद्धाश्च भगवन्तः सिद्धिमनुप्रयच्छन्ते | अधिष्ठिन्ति च विद्यासाधकं चक्रवर्तिस्मरणादेव मन्त्रनाथं एकाक्षरमद्वितीयं दऽऽअस्बुद्धकोटीकुशलमूलार्जितो भवति | चतस्रोऽपि मूलापत्तयोरापन्नस्य भिक्षा तन्महान्तं नरकोपपत्तिवेदनीयं कर्मक्षयं गच्छति स्मरणादेव | कः पुनर्वादो जपम् | पञ्चानन्तर्याणि च क्षयं गच्छन्ति | कः पुनर्वादोऽन्ये अकुशलाः स तस्मात् सर्वप्रयत्नेनायं विद्याराजाधिपो एकाक्षरः स्मर्तव्यो जप्तव्यः भावयितव्यो मनसि कर्तव्यः पूजयितव्यः सततमेवाराधयितव्यः | नमः समन्तबुद्धानाम् | भ्रूं | एष स मार्षा सर्वोष्णीषाणां तथागतभाषितानां अयं मूलमन्त्रः | अनेनैव मन्त्राधिपतिना उष्णीषचक्रवर्तिना तथागतमूर्धजेन सर्वकर्माणि कारयेत् | मुद्रोपेतेन सर्वमन्त्रेषु लौकिकलोकोत्तरेषु कल्पविसरेषु नियतं सिध्यति | मुद्रा चात्र भवति | तदेव हस्तौ सपुटाकारौ मध्यमाङ्गुलिप्रसारितौ सर्वत्राङ्गुल्याग्राभ्यन्तरस्थितौ कुण्डलाभोगाकार ईषिदूर्ध्वावनतं उष्णीषाकारं शिरस्युपरि धारयेत् | इमं एकाक्षरचक्रवर्तिने महामूलमुद्रा | अनया सर्वकर्माणि कारयेत् | उत्तमसाधनादिषु योजयेत् | सर्वरक्षावरणगुप्तये च प्रयोक्तव्यः | नाल्पसाधप्रयोगादिषु प्रयुञ्जानः असमयज्ञो भवति | मन्त्राचार्यस्य न सिद्ध्यन्ते | अन्यत्र रक्षाविधाना | शान्त्यर्थे च पापक्षपणार्थं नित्यमेव जप्तव्यः शुचौ देशे पर्वतनदीसरित्पतितटेषु च नान्यस्थानेषु जप्तव्यो यत् कारणं महाप्रभावोऽयं विद्याराजा नान्यदेशेषु जप्तव्यः | प्रभावोद्गतेन मनसा सर्वसत्त्वानां मैत्र्या स्फुरित्वा जप्तव्यः | मुद्रा चात्र भवति | १४१, प्. ३९१) तदेव हस्तौ करसम्पुटाकारौ आवेणिकाङ्गुलिभिः कृत्वा मध्यमाङ्गुलीनां पर्वभागे तृतीये ईषिदवनामयेत् | उष्णीषाकारं कारयेत् | इमं भगवतोष्णीषराजस्य महामुद्रा | तदेव हस्तौ सम्पुटं कृत्वा ईषदवनामयेद्भगवतोष्णीषस्य तृतीया महामुद्रा | ओं गोदरे वीर स्वाहा | अयं सर्वेषां तथागतानां हृदयः सर्वकर्मिकः सर्वार्थसाधकः सर्वानर्थनिवारकः | इयं स्मरणमात्रेणैव सर्वबुद्धाधिष्ठितो भवति | सर्वपापेभ्यो मुच्यते | सर्वमन्त्राणामुपरि वर्त्तते | बुद्ध एव साक्षाद् द्रष्टव्यः | अनया मुद्र सह प्रयोक्तव्या | सर्वकर्माणि क्षिप्रतर एव करोति | अनेन जप्यमानेन सर्व एव मन्त्रा जप्ता भवन्ति | यथा यथा प्रयुज्यते तथा तथा कर्माणि करोति | जापिनस्येच्छया सर्वकर्मिको भवति | तदेव हस्तौ करसम्पुटावस्थौ शिरसि धारयेत् त्रिसूच्याकारेण | इयं भगवतां बुद्धानां सर्वेषां द्वितीया हृदयमुद्रा | मन्त्रं चात्र भवति | ओं गेरुरे वीर स्वाहा | इंअं सर्वेषां बुद्धानां भगवतां हृदयमुद्रा | सर्वकर्मिका सर्वानर्थनिवारिका सर्वार्थसम्पादिका महाप्रभावा सर्वमन्त्रकल्पेषु साधनीया | नात्र विचिकित्सा कार्या | यथा यथा प्रयुज्यते तथा तथा सिध्यतीति | पुनरपि तदेव हस्तौ सम्पुटाकारावस्थितौ अभ्यन्तराङ्गुलिभिः गाडमावेष्ट्य उभौ तर्जन्यौ प्रसारितौ ईषदाकुञ्चयेच्छिरस्युपरि निधाय दर्शयेत् | इमं सर्वतथागतोष्णीषाणां महामुद्रा | भवति चात्र मन्त्रः | ओं ट्रां बन्ध स्वाहा | अयं सर्वोष्णीषाणां मूलमन्त्रः सर्वकर्मिकः दिश दिश सर्वबन्धेषु प्रयोक्तव्यः | सर्वकर्माणि च करोति | साधनजपकाले होमादिषु आत्मरक्षा पररक्षा वा सर्वद्रव्येषु सर्वमन्त्रकल्पेषु च यान्युक्तानि लौकिकलोकोत्तरेषु तान्यशेषतमनेनैव रक्षा कार्या | महारक्षा कृता भवति | सर्वमन्त्रेषु प्रयोक्तव्यः | सर्वकर्मसु सिध्यति | सर्वतथागतोष्णीषाणां महाचक्रवर्तिविद्याधिपतीनां तेजोराशिसितातपत्रजयोष्णीषप्रभृतीनां यानसाधनविसरपटलानि मुद्रामन्त्राणि तान्यशेषतः विस्तरतो प्रयोक्तव्या सर्वाणि च लौकिकलोकोत्तराणि मन्त्रतन्त्र विस्तरपटलविसरां अनन्तानि च मुद्राणि | भवन्ति चात्र मन्त्रः | ओं ज्वलितोग्रदेह विभिन्द हुं फट् स्वाहा | एष १४२, प्. १९२) भगवतः तेजोराशेर्बुद्धस्य परमहृदयः सर्वतन्त्रेषु सर्वतः सर्वकर्मिकः प्रयोक्तव्यः इति | तदेव हस्तौ यमलिताकारौ मध्यमाङ्गुलिप्रसारितौ तर्जन्या परिवेष्टितौ कटकाकारेण पाशपरिवेष्टितौ उभौ कृतमण्डलाभोगौ | इयं च भगवतो बुद्धस्य खङ्खरमुद्रा | मन्त्रं चात्र भवति | ओं धुन जितारण हुं | एष भगवतां बुद्धानां खङ्खरकमुद्रामन्त्रः सर्वकर्मसु प्रयोक्तव्यः | यथाभिरुचितेषु सर्वमन्त्राणां प्रबोधनः सर्वभूतानां वशङ्करः सर्वसत्त्वानां समाश्वासकरः सर्वद्रव्याणां समुत्तेजकः साधकः सर्वपापानां समुच्छोषकः | यथा यथा प्रयुज्यते अयमष्टाक्षरो तथागतमन्त्रः तथा तथा सर्वकर्माणि साधयतीति | तदेव हस्तौ आवेष्टितौ कृत्वा कृतपात्राकारौ | इयं सर्वतथागतानां पात्रमुद्रा तथागतपात्र इत्यवगन्तव्यः | नाभिदेशे धारयेत् सर्वकर्मसमर्था भवति | भवति चात्र मन्त्रः | ओं लोकपालाधिष्ठित धर धर धारय महानुभाव बुद्धपात्र स्वाहा | एष भगवतां बुद्धानां तथागतपात्रमुद्रामन्त्र अनेन संयुक्तः सर्वकर्मसमर्थकरो भवेत् || करोति कर्मवैचित्र्यं गतिमाहात्म्यपूजितम् | साधयेत् सर्वकर्माणि सर्वमन्त्रेषु भाषिताम् || साधकस्येच्छया क्षिप्रं करोतीह न संशयः | येऽपि ताथागती मन्त्रा ये चापि अवलोकिते || कुलिशाह्वे मन्त्रमुख्यास्तु नानादेवतपूजिता | ते सर्वे सिद्धिमायान्ति बुद्धपात्रसमोदिता || विविधा दूतिगणा ह्यग्रा चेटचेटिगणास्तथा | नानाकिङ्करमुख्यास्तु यक्षराक्षसकश्मला || प्रेष्या सर्वमन्त्रणां सर्वकर्मकरास्तथा | विदिधैर्राजमुख्यैस्तु देवगन्धर्वयोनिजैः || सिद्धविद्याधरैः मन्त्राः लोकपालाश्च महर्द्धिकाः | शक्राद्यैः ब्रह्ममुख्यैस्तु सुरश्रेष्ठैश्च धीमतैः || मन्त्रा भाषिता ये स्युः सर्वकर्मकरा सदा | किन्नरैर्गरुडैश्चापि महर्द्धिकैः * * * (?) || १४३, प्. ३९३) सर्वे ते सिद्धिमायान्ति बुद्धपात्रसमोदिता | आकृष्टा सर्वमन्त्राणां गतिमूर्तिसमाश्रिताम् || वशै ता मन्त्रराट् स्वामी प्रभुः श्रेष्ठो महाद्युतिः | अग्र च सर्वमन्त्राणां निर्दिष्टो तत्त्वदर्शिभिः || स मन्त्रो पात्रभूतस्थः त्रिषु चिन्तामणिस्तथा | करोति कर्मवैचित्र्यं ईप्सितं साधकेच्छया || विविधागुणमाहात्म्यं प्रभावातिशयापराम् | करोति ऋद्धिदुर्लङ्घ्यं सर्वमन्त्रिभिः || अपात्रो पात्रतां याति मन्तस्थे मुनिवर्णिते | पात्रो मन्त्रप्रयुक्तस्तु मुद्राभिश्च समन्वितः || करोति गुणविस्तारं विचित्रं कर्मसम्भवम् | हन्युः सर्वतो रोगान् भोगांश्चैव सुपुष्कलाम् || त्रिजन्मगतसत्त्वानां देवदैत्यनराधिपाम् | कुर्यात् सम्पदां क्षिप्रं सर्वकर्मसु योजिता || इति | तदेव हस्तौ करसम्पुटाकारौ सविचित्रवेणिकावबद्धौ ललाटदेशे स्थापयेत् | चित्रहस्त तदेव भगवतां बुद्धानां चिन्तामणिरत्नमहामुद्रा | मन्त्रं चात्र भवति | नमः सर्वबुद्धेभ्यः ओं तेजोज्वाल सर्वार्थसाधकं सिध्य सिध्य सिद्धिचिन्तामणिरत्न हुं || चिन्तामणिरत्नमन्त्रः सर्वार्थसाधकम् * * (?) | ईप्सितां साधयेदर्थां मन्त्राश्चापि सविस्तराम् || करोति गुणमाहात्म्यं चिन्तितं चापि साधयेत् | सम्पदां सफलांश्चापि मन्त्रतन्त्रसुभाषितम् || नैष्ठिकं साधयेदर्थां बुद्धत्वनियतं तथा | इच्छया कर्मविन्यस्तं करो चैवमजायत || विविधां सम्पदां सद्यः फलमुद्भवचेष्टिताम् | सर्वाणां मन्त्रतन्त्राणां साधयेत्मसाधितम् || १४४, प्. ३९४) देवत्वमथ शक्रत्वं ब्रह्मत्वं वापि रूपिणम् | आभास्वराणां तथा मूर्तिसदृशानां सुदर्शनाम् || सुरश्रेष्टां सुरामग्रां बृहत्फलामकनिष्ठाम् | देवभूयिष्ठां मूर्तिमाप्नोति साधनादिति || चिन्ता मनसो ह्यग्रा कथिता मन्त्रार्थविस्तराम् | मुद्रासु पुष्कलाश्चैव गतिधर्मार्थसाधका || सर्वधर्मार्थनिःपत्तिं सर्वमन्त्रार्थसाधनम् | सर्वगुणबोध्यर्थं धर्मधातुसमाश्रयम् || कथितं मन्त्ररूपेण रत्नचिन्ताग्रपूजितम् | विशेषात् प्राप्नुयात् स्वर्गरूपाश्चैव समाश्रयम् || साधनात् प्राप्नुयात् स्वर्गं गतिमन्त्रार्थविस्तरमिति || तदेव हस्तौ उभौ स्कन्धावसक्तौ अर्धोपरिस्थितौ दक्षिणवामावष्टब्धौ अन्योन्यासक्तौ करमूलसुयोजितौ | इयं सर्वबुद्धानां चीवरमुद्रा | भवति चात्र मन्त्रः | ओं रक्ष रक्ष सर्वबुद्धाधिष्ठिता मे चीवर स्वाहा | चीवरमन्त्रः | आत्मचीवरमाभिमन्त्र्य प्रावरेत् | सर्वभूतानां अधृष्यो भवति | महाराजक्षत्रियेन मूर्ध्नाभिषिक्तेन सर्वप्रश्वासकरेणात्मवस्त्रमभिमन्त्र्य सप्तवारां सङ्ग्राममवतरेत् | सर्वारयः दृष्ट्वा स्तम्भिता भवन्ति | प्रतिनिवर्तन्ते वा | सर्वभूताश्च दृष्टमात्रा वशा भवन्ति | गतमानमदर्प न चास्य काये शस्त्रं निपतति | न चास्य मनुष्यामनुष्यभयं भवति | न विषो न हुताशनः काये निपतति | न चास्य रोगभयं भवति | न चास्यापमृत्युभयं भवति | न चास्य परचक्रेण हन्यते | न डाकिनीभूतपिशाचैश्च यक्षराक्षसगन्धर्वै विचित्रैर्वा भूतगणैः ओजोहारिभिः रौद्रचित्तैः पिशिताशनैः सर्वक्रव्यादैर्वा हिंसकैः परसत्त्वविहेठकैः पापकर्मान्तचारिभिर्वा राजानैर्न शक्यते हिंसयितुं उपघातं कर्त्तुम् | कः पुनर्वादो विना रक्षा वा भेत्तुं सर्वकर्मादिषु सर्वद्रव्येषु जीविता व्यवरोपयितुम् | न हि तद्विद्यते सत्त्वो वा सत्त्वनिकायो वा मन्त्रो वा मुद्रो वा विषो वा स्थावरजङ्गमो वा शस्त्रो वा प्रहरणानि वा विविधानि १४५, प्. ३९५) राक्षसो वा राक्षसी वा यक्षा वा यक्षी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षपार्षदो वा यक्षपार्षदी वा पेयालं विस्तरेण कर्तव्यं सर्वसत्त्वेभ्यः नेदं स्थानं विद्यते | अतो न तथागतमुद्राचीवरमन्त्रेण कृतरक्षाविधानेन जापमात्रेण वा स्मरितेन वा नान्यशक्तो भेत्तुं तथागतमन्त्रैर्वा सर्वबुद्धबोधिसत्त्वैश्च भेत्तुम् | वर्जयित्वा तस्यैव साधकस्येच्छया | एवं महाप्रभावोऽयं मन्त्रः सर्वकर्मिकः सर्वार्थसाधकः सर्वदुष्टविनाशकः सर्वमङ्गलसङ्गतः सर्वार्थपरिपूरकः सर्वदुर्गतिशोधकः सर्वक्लेशनिषूदनो बुद्ध धर्मां परिपूरकमिति || तदेव हस्तौ पूर्ववत् मध्यमाङ्गुलिमधोनामितौ अनामिकाग्रावस्थितौ अङ्गुष्ठपरिनामितौ तृतीयपर्वमङ्गुष्ठाविश्लेषितौ कन्यसानामितौ चक्राकारौ आराग्रोपेतौ नाभिमण्डलोपेतौ कृत्वा शिरःस्थाने स्थापयेत् | इयं सर्वबुद्धानां धर्मचक्रमुद्रा | मन्त्रं चात्र भवति | ओं छिन्द छिन्द हन हन दह दह दीप्तचक्र हुं | एष सः सर्वबुद्धानां धर्मचक्रमन्त्रः | सर्वक्लेशनिषूदनः सर्वोपायदुर्गतिविनिपातां छिन्दयति | सर्वबुद्धधर्मां ज्वालयति | सर्वक्लेशान्धकारां आलोकीकरोति | सर्वदुःखां विहेठयति | सर्वकर्मां साधयति | सर्वदुःखेभ्यः प्रमोचयति | सर्वद्रव्यां दीपयति | अयं भगवां धर्मचक्रः परमन्त्रकृतदुष्टसत्त्वोपदेशितप्राणोपहारिणां मन्त्रां हिंसकां रौद्रां विकृतिस्थां छिन्दयति दालयति पाचयति शोषयति उत्सादयति च साधकेच्छया उत्कीलयति मोचयति यथाव्यवस्थायामुपस्थापयति | यथा यथायं भगवां प्रयुज्यते तथा तथा कर्माणि करोति वर्जयित्वाभिचारुकं कामोपसंहितानां च | सर्वशान्तिकर्मसु च प्रयोक्तव्यम् | महारक्षादिभिः सर्वतः सर्वसत्त्वोपकारायैव प्रयोक्तव्यः | सर्वसाधनेषु लौकिकलोकोत्तरेषु मन्त्रमुद्रेषु कल्पोक्तेषु सर्वकर्मसु शान्तिकपौष्टिकेषु महारक्षा अनेनैव प्रयोक्तव्यमिति || तदेव हस्तौ प्रहारावर्जितदक्षिणाग्रकरवामहस्ततर्जन्या तर्जयमानं सङ्कोचितक्रकूनिकाग्रन्थान्यप्रयोगावस्थितसन्दशेदोष्ठपुटा जानुभागावस्थितवामचरणविक्षिप्तदक्षिणावनामित-उपविष्टकिञ्चित्स्थितकास्थित | १४६, प्. ३९६) इदं भगवत्यापराजिताया महामुद्रा | भवति चात्र मन्त्रः - ओं हुलु हुलु चण्डालि मातङ्गि स्वाहा | अपराजिताया मन्त्रा सर्वबुद्धानां सर्वमारनिषूदनी | सर्वविघ्नप्रशमनी आयुरारोग्यवर्धनी || श्रेष्ठा सर्वमन्त्राणां रक्षाकर्मविधानता | नरनारीकुमाराणां सौभाग्यजननं परम् || मनुष्यामनुष्याश्च ये चान्ये दुष्टसत्त्वचेतसा | राक्षसोस्तारका प्रेता स्कन्दापस्मारगुह्यका || मातृभूतग्रहगणा योगमन्त्रकृतानि च | रुजो रोगो व्याधयश्च नानाधातुसमुद्भवाः || सर्पमूषिकलूताश्च कीटविष्फोटकानि च | शरीरे न क्रमिष्यन्ति कर्मणान्यत्र पूर्वकात् || अध्ववादविवादेषु राजचोरोदकाग्निषु | जयं क्षेमं शिवं शान्तिं लप्स्यते नात्र संशयः || भूर्जपत्रेऽथवा वस्त्रे लिखित्वान्यत्र वा क्वचित् | शिरसा ग्रीवकट्या वा बाहुना पाणिनाथवा || वस्त्रबन्धं शिखाबन्धं कृत्वा ग्रन्थिमालिकाम् | धारयिष्यति यो नित्यं स्वस्ति तस्य भविष्यति || यश्चेमां प्रातरुत्थाय स्वपंश्च परिवर्तये | सुखं कालक्रियां कृत्वा सप्तजातीं स्मरिष्यति || रूपवां शीलसम्पन्नो मुखेनोत्पलगन्धिना | प्रियश्चादेयवाक्यश्च जात्यां जात्यां भविष्यति || भवन्ति चात्र सिद्धानि मन्त्रपदानि मन्त्रसंज्ञानि यथोक्तार्थकराणि तु | तद्यथा - भञ्जने स्तम्भने धा धा धा धत्स या या या यते हा हा हा हते परकराणि वीर्येवीर्ये गुणतेजभूतकरि भद्रकरि रौद्रकरि कुम्भवति १४७, प्. ३९७) विषकुम्भवति सर्वबले भूतबले रक्ष रक्ष मां सर्वविषेभ्यः सर्वविघ्नेभ्य | तद्यथा - सिद्धकरि सिद्धार्त्थे सिद्धमनोरथे सिद्धकार्ये फुरुनुरूपे स्वस्ते प्रशस्ते सिद्धे सिद्धार्थे धैर्यवति समने तपने शरणे भद्रे भवति शान्ते दान्ते शिवे हुनुनु परि परित्राणं कुरु परिग्रहं कुरु परिपालनं कुरु शान्तिं कुरु स्वस्त्ययनं कुरु मम सर्वसत्त्वानां च रक्षां कुरु स्वाहा | अयं हृदयः अपराजितायाः | पूर्वं मूलविद्या | अवश्यं साधकेन कुशलपक्षाभिमुक्तेन भवितव्यम् | त्रिःकालं जप्तव्यम् | पूर्वतरमेव सकृत् पुस्तकवाचिकायां वाचयेदेतदेव कुशलपक्षं भवति | उपहृदयं चात्र भवति - नमः सप्तानां सम्यक्सम्बुद्धानां सश्रावकसङ्घानां सर्ववैरभयातीतानाम् विपश्चिनस्तेजसा ऋद्ध्या च शिखिनस्तथा | विश्वभुक् प्रज्ञया चैव क्रकुच्छन्दबलेन च || कनकमुनेः शिक्षायां काश्यपस्य गुणोरपि | शाक्यसिंहस्य वीर्येण शिवं भवतु सदा मम || तद्यथा - जये विजये अपराजिते मारसैन्यप्रमर्दनीये स्वाहा | सर्वार्थसाधनीये स्वाहा | एषा भगवती सर्वार्थसाधिका यथा यथा प्रयुज्यते तथा तथा कर्माणि करोति | सर्वत्र च रक्षाविधानेषु प्रयोक्तव्या | अवश्यं साधकेन मनसि कर्त्तव्या | सर्वविघ्नां नाशयति | सर्वमारकर्माणि च विधमयति | सर्वमन्त्राणि चामुखीकरोति | सर्वबुद्धधर्मां परिपूरयति | सर्वलौकिकलोकोत्तराणि च मन्त्रं आकर्षयति | ऊनातिरिक्तं परिपूरयति | सर्वाशां सम्पादयति | सर्वदुष्टां निवारयति | संक्षेपतः साधकस्येच्छया सर्वां करोति | मरणकाले चास्य संमुखं दर्शनं ददाति | सर्वापायदुर्गतिं परिशोषयति | सततजापेन पञ्चानन्तर्याणि क्षपयति | चतस्रोऽपि मूलापत्तयः तन्वीकरोति | स्मरणमात्रेण जापेनैवोन्मूलयति | सर्वदेवोपपत्तिमनुष्योपपत्तिभ्यो प्रतिष्ठापयति | सर्वबोधिसत्त्वचर्या नियोजयति | सर्वबुद्धधर्मां परिपूरयति | एवमपि भगवती अपरिमितगुणानुशंसा महाप्रभावा सर्वबुद्धानां मुखोद्गीर्णा सर्वमारनिर्नाशनाय भाषिता सर्वतथागतैः सर्वक्लेशशोषणी १४८, प्. ३९८) अप्रतिहता सर्वकर्मसु सर्वरक्षावरणगुप्तयेषु च योजयितव्या | सर्वबुद्धानां विस्फूर्जितमेतत् | महासिंहनादमेतत् | सर्वचर्यानिश्रयमेतत् | सर्वबुद्धानां बोधिमेतत् | महासमाधिनिष्पन्दितमेतत् | महाप्रातिहार्यऋद्धिमेतत् | सर्वातिशयमेतत् | सर्वशान्तपदमेतत् | सर्वबुद्धास्पदमेतत् | निर्वाणपदमेतत् | स्वस्त्ययनपदमेतत् | अनभिलाप्यपदमेतत् | भूतकोटिपदमेतत् | अभावस्वभावपदमेतत् | यदुत मन्त्रपदं सर्वबुद्धाधिष्ठानपदमिति || तदेव हस्तौ करसम्पुटाविन्यस्तौ उभयाङ्गुलिमध्यसूचितौ ललाटदेशे न्यसेत् | एषा अपराजिताया मुद्रा द्वितीया सर्वकर्मिका मूलमन्त्रेण सह विन्यस्ता सर्वाशां परिपूरयति | हृदयस्थाने न्यस्ता हृदयमन्त्रेण संयुक्ता सर्वरक्षोघ्ना सर्वापायदुर्गतींश्च नाशयति | एषा तृतीया भगवत्यापराजितायाः हृदयमुद्रा | तदेव हस्तौ नाभिदेशावलम्बितौ अधोनामितौ करौ | एषा चतुर्था भगवत्यपराजिताया उपहृदयमुद्रा | हृदयमन्त्रेण सर्वकर्माणि कतोरि | सर्वमङ्गलसंमतानि च सर्वशान्तिः स्वस्त्ययनं च | उदकाभिमन्त्र्य स्नपनं परमसौभाग्यकरणं अलक्ष्म्यापहं लक्ष्मीसञ्जनन श्रिया सम्पत्करणम् | तदेव हस्तौ वक्त्रदेशे स्थापयेत् | इयमपरा महामुद्रा भगवत्यपराजितायाः महामुद्रा पञ्चमं भवति | एवमनेन प्रकारेण असङ्ख्येयानि मुद्राणि भवन्ति | सर्वपराजितमन्त्रेषु च प्रयोक्तव्यमिति | तदेव हस्तं दक्षिणक्षिप्तं ईषिन्मुष्टोपश्लेषितं वामहस्तेन दृढमुष्टिकम् | एषा सर्वबुद्धानां महाशक्तिमुद्रा | मन्त्रं चात्र भवति - ओं विजये महाशक्ति दुर्धरि हूं फट् विजयिने फट् मङ्गले फट् स्वाहा | तथागतशक्तिमन्त्रा सर्वदुष्टसत्त्वेषु प्रयोक्तव्या | महाभयेषु च प्रत्युपस्थितेषु ग्रामे वा मुद्रोपेता प्रयोक्तव्या सर्वकर्मसु | ग्रहनक्षत्रपीडासु च सर्ववेताडग्रहगृहीतेषु सर्वयक्षराक्षसपिशाचमरुतग्रहब्रह्मराक्षसादिषु गृहीतस्य मुद्रां बध्वा मन्त्राः प्रयोक्तव्याः | तत्क्षणादेव मुच्यते | सर्वमहाश्मशानप्रवेशेषु च प्रयोक्तव्या | सर्वविघ्ना विद्रवन्ति प्रपलायन्ते सर्वेण सर्वं न भवन्ति | एवम्प्रकारान्येकानि सर्वकर्मार्थचित्राणि मन्त्रतन्त्रमाहात्म्यानि साधयति | सर्वरक्षावरणगुप्तिं च करोति | सर्वरक्षोघ्नं च पवित्रं आयुरारोग्यवर्धनमिति || १४९, प्. ३९९) तदेव हस्तौ करसम्पुटावस्थौ ईषिन्नामितमध्यमाङ्गुलीयकौ अनामिकावेष्टितकन्यसौ नेत्राकारौ उभयाङ्गुष्ठावष्टब्धौ एष भगवतां बुद्धानां तथागतलोचनमहामुद्रा | नेत्रभागे दर्शिता सर्वतथागुणाग्रमात्रा सर्वतथागतानां जनेत्री सर्वविद्यानां प्रभङ्करी सर्वार्थपरिपूरकी सर्वकुदृष्टीनां विशोधनकरी सर्वसत्त्वसम्यग्दृष्टिसञ्जननकरी सर्वतथागतकुलमाता सर्वमन्त्रगोत्रकुलन्धरी सर्वलौकिकलोकोत्तराणां मन्त्राणां परिपूरकी सर्वार्त्थापरिपूरकी समाश्वासिका | भवति चात्र मन्त्रः - ओं रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा | तथागतलोचनानामहाविद्या | वचन वचन वचन ओं बुद्धलोचने स्वाहा | इयं सा विद्या वज्रपाणेः सर्वकर्मिका अस्यैव | तदेव हस्तौ पूर्ववत् सम्पुटाकारं कृत्वा मध्यमाङ्गुलिरवनामितौ कन्यसाप्रसारिताग्रौ ईषिदवनामितौ उभयाङ्गुष्ठौ तर्जन्यपरिवेष्टितौ अनामिकासंश्लिष्टौ ईषत्कुञ्चितौ | इयं भगवतो सर्वबुद्धानां ऊर्णामुद्रा | तदेव हस्तौ उभयाग्रौ ललाटदेशे स्थापयेत् | एष सर्वतथागतानां ऊर्णामुद्रा | तदेव हस्तौ उभयाग्रवेणीकृतौ ललाटदेशे मण्डलाकारेणावेशयेत् | ईष तृतीयं ऊर्णामणिरत्नमुद्रा | तदेव हस्तौ उभयतः कुञ्चीकृतौ कन्यसाङ्गुलिवेष्टितौ उभयाङ्गुष्ठसंश्लिष्टौ | इयं चतुर्था ऊर्णामुद्रा | तदेवाङ्गुष्ठावनतौ ललाटदेशे चित्राकारेण दर्शयेदेष सर्वतथागतानां तथागतोर्णा | एते पञ्च महामुद्रा तुल्यवीर्या तुल्यप्रभावा सर्वकर्मिकानि भवन्ति | भवति चात्र मन्त्रः सर्वेषाम् - नमः सर्वतथागतानीभ्योऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः | हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्धोर्णामणि स्वाहा | भगन्मन्त्रा सर्वोर्णामणिमुद्राणां सर्वकर्मिकाणि भवन्ति | एषा तथागतोर्णामुद्रा अप्रतिहता सर्वकर्मसु सर्वप्रयोक्तव्या | गोरोचनेन तिलकं कृत्वा मन्त्रं जपता तथागतोर्णा सङ्ग्राममवतरे | सर्वशत्रवः स्तम्भिता भवन्ति | दृष्ट्वा तं प्रपलायन्ते | विगतक्रोधाश्च भवन्ति | मैत्रचित्ता हितचित्ता सर्वसत्त्वा समाश्वस्ताश्च भवन्ति | दृष्ट्वा तं रोचनतिलकं कृत्वा सर्वक्रव्यादादयो न शक्यन्ते | दृष्ट्वा तं महाराजमहासत्त्वमहेशाख्यमहोत्साहं ज्वलन्तमिव पश्यन्ते | सर्वदुष्टप्रदुष्टानां सर्वयक्षराक्षसप्रेतपिशाचसर्वग्रहभूतकश्मला रौद्रचित्ता मैत्रचित्ता भवन्ति | १५०, प्. ४००) अपक्रमन्ते तस्माद् देशात् | सर्वोपद्रवचर्येभ्यश्च मुच्यते | सर्वग्रहगृहीतेषु सर्वमातरवालग्रहेषु ब्रह्मराक्षसादिषु गोरोचनमभिमन्त्र्य ललाटे तिलकं कृत्वा दर्शयेत् | सर्वे दृष्टमात्रा प्रमुञ्चन्ते विद्रवन्ति च प्रपलायन्ते | सर्वेण सर्वं तस्मै न भवन्ति न भूयो गृह्णन्ते | यदि गृह्णन्ति सर्वेण सर्वं विनश्यन्ति | एवं सर्वग्रहेषु प्रयोक्तव्यः सर्वतः मन्त्रतन्त्राणां कल्पेषु यान्युक्तानि विविधानि साधयति लौकिकलोकोत्तरेषु यानि विधानमण्डलपटसाधनानि तन्यनेनैव साध्यानि क्षिप्रतरं सिध्यन्ते | गोरोचनमभिमन्त्र्य तिलकं कृत्व शत्रुमध्ये प्रविशेत् | विगतक्रोधा भवन्ति | न शक्यन्ते अभिभवितुम् | महाजनमध्ये जपता प्रविशेत् | सर्वे मैत्रचित्ता भवन्ति | आदेयवाक्यश्च भवन्ति | परैरनभिभवनीयश्च अधृष्यश्च सर्वत्र सर्वभूतानाम् | गोरोचनेनाभिमन्त्र्य सप्तवाराननेन मन्त्रेण तिलकं कृत्वा महाश्मशानं प्रविशेत् | सर्वक्रव्यादाशिनः प्रपलायन्ते | सर्वग्रहमातराश्च नश्यन्ते | अधृष्यो भवति | सर्वमनुष्याणां तेजसा तस्य ज्वलन्तमिव दृष्ट्वा ओजोहारा अपक्रमन्ते | तस्माद् देशा दर्शनमपि न समनुप्रयच्छन्ति | कः पुनर्वादो ओजो हर्तुम् | क्षणमपि नाप्रतिष्ठन्ते | महाश्मशानं परित्यज्य सर्वभूतगणा ये तत्र निवासिनः ते प्रक्रमन्ते | इतश्चा * (?) तश्च न शक्यन्ते प्रेक्षितमपि | कः पुनर्वादो ओजो हर्तुम् हिंसयितुम् वा | एवमपीयं महाप्रभावा सर्वविद्या महर्द्धिका उपपरिवर्तते महाविद्या तथागतोर्णो नाम | असङ्ख्यैश्च बुद्धैर्भगवद्भिः भाषिता गङ्गासिकतप्रख्यैः भाषिता चाभ्यनुमोदिता च | एतर्हि शाक्यमुनिना सम्यक् सम्बुद्धेन भाषिता चाभ्यनुमोदिता च | येऽपि ते भविष्यन्त्यनागतेऽध्वनि सम्यक् सम्बुद्धाः तेऽपि भाषिष्यन्ते | एवमतीतानागतैर्बुद्धैर्भगवद्भिः संवर्णिता सम्प्रशस्ता अनुमोदिता मयाप्येतर्हि शाक्यमुनिना संवर्णिता सम्प्रशस्ता कृताभ्यनुज्ञाता सर्वसत्त्वानां सर्वासां विधितः साधयिष्यन्तीति | यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति | वर्जयित्वाभिचारुकम् कामोपसंहितं चेति || तदेव हस्तौ सम्पुटाकारौ कृत्वा अन्योन्यावावेष्ट्य चित्रीकृतौ आत्मोरसि मध्ये स्थापयेत् | एतद् भगवतः समाधिवज्रस्य महमुद्रा | १५१, प्. ४०१) यां बध्वा अवैवर्त्तिको भवत्यनुत्तरायां सम्यक् सम्बोधो नियतस्थम् | भवति चात्र मन्त्रः - नमः समन्तबुद्धानाम् | ओं विभिदे चूर्णय चूर्णय वज्रधिक् वज्रधिक् हुं हुं जः जः समाधिजः हुं हट् स्वाहा | अल्पमस्य विस्तरेण सर्वं तं प्रयोक्तव्यम् | अपरिमितानुशंशंश्चायम् | भगवां समाधिवज्रः सर्ववुद्धानाम् | तदेव मुद्रां कण्ठदेशे न्यसेत् | इयं सर्वबुद्धानां पद्मपद्ममुद्रा | एतदेव वामपार्श्वे न्यसेत् | उत्पलमुद्रा | एतदेव दक्षिणभुजे न्यसेत् | इयं भगवतो बुद्धस्य कृपालम्बनमैत्रीमुद्रा | एतदेव हस्तौ उभयाङ्गुल्यवेष्टितौ मध्यमाङ्गुलिसम्प्रसारितौ आभोगमण्डलाकारौ हृदयमध्ये न्यस्ता | इयं द्वितीया मैत्रीमुद्रा | सर्वतथागतानां सर्वकर्मिकम् | अप्रतिहता | एवमनेनैव विधिना ललाटे तृतीया ऊर्ध्वविन्यस्ता चतुर्थ्या समन्तात् परिभ्रामिता पञ्चमा भवति मैत्रीमुद्रा | ध्यानालम्बनकाले च प्रयोक्तव्या | न सर्वे मानुषा विहेठयन्ति | न चास्य काये किञ्चिदाबाधमुत्पदयन्ति मानुषामानुषा वा सर्वयक्षराक्षसप्रेतपिशाचकटपूतनादयः | सर्वे च मारा मारकर्माणि कुर्वन्ति | सर्वे च विघ्ना अविघ्ना भवन्ति | भवति चात्र मन्त्रः - ओं प्रस्फुर प्रस्फुर कृतालम्बनमन्त्रात्मक ह्रां | एष भगवतो मैत्री प्रयोक्तव्यः | तदेव हस्तावन्योन्यावावेष्ट्य वेणिकाकारौ कृत्वा मण्डलाद् व्यवस्थापयेत् | ज्येष्ठाङ्गुलीयकावूर्ध्वस्थितौ ललाटदेशे न्यसेत् | एष भगवतो बुद्धस्य महाकरुणामुद्रा | मन्त्रं चात्र भवति - ओं विश्वे स्वाहा | सर्वकर्मिका | सत्त्वानां प्रयोक्तव्या | करुणात्मका भवन्ति | तदेव हस्तावुद्वेष्ट्य चित्रीकृतावभयावस्थितौ | एषा बुद्धस्य भगवतो महामुद्रिता मुद्रा | मन्त्रं चात्र भवति - ओं मुनिमुनिगगन स्वाहा | एषा भगवती सर्वकर्मिका सर्वासां परिपूरयति प्रमुदितेन चेतसा प्रयोक्तव्या | सर्वं करोति | सर्वमन्त्रकल्पेषु यानि कर्माणि सर्वलौकिकलोकोत्तरेषु तान्यशेषतो साधयतीति | तदेव हस्तावुभयाङ्गुष्टविन्यस्तौ चित्रीकृतौ ललाटे दर्शयेदेषा भगवतस्तथागतप्रेक्षामुद्रा सर्वकर्मिका सर्वार्थसाधिका | मन्त्रं चात्र भवति - ओं महद्गते उपेक्षय सर्वधर्मां विश्वात्मने विश्वमूर्त्ति ज्वल ज्वलय सर्वबुद्धधर्मां हुं फट् स्वाहा | षट्पारमितासु च षण्मुद्रा भवन्ति | १५२, प्. ४०२) तदेव हस्तौ वरप्रदानौ | इयं दानपारमिता महामुद्रा | तदेव हस्तौ अन्योन्यसङ्कुचितौ नाभिदेशे स्थापितौ | इयं शीलपारमिता महामुद्रा | तदेव हस्तौ अधः कृत्वा कक्षाभ्यां सन्नियोज्य स्थापयेदियं क्षान्तिपारमिता महामुद्रा | तदेव हस्तौ भुजोपरि स्थापयेत् | परामृश्यमाना विपर्यस्ताकारेण | इयं वीर्यपारमिता महामुद्रा | तदेव हस्तौ पर्यङ्कं बध्वा मुपरि स्थापये वामदक्षिणमुपरि निबध्य च पर्यङ्कासने सर्वसत्त्वानां करुणाया माना ध्यानालम्बनगतदृष्टि | इयं भगवत्या ध्यानपारमिताया महामुद्रा | तदेव ध्यानपारमितामुद्रं पर्यङ्कमभिन्द्य धर्मदेशनाकारा | इयं भगवत्या प्रज्ञापारमिताया महामुद्रा | तदेव पर्यङ्कमभिन्द्यात् | वामहस्त पर्यङ्के न्यस्य दक्षिणहस्तमवलम्ब्य भूमौ स्पृशेत् वज्रासनाकारेण | इयं भगवती सर्वबुद्धानामनुत्तरायां सम्यक् सम्बुद्धौ महामुद्रा सर्वबुद्धधर्माणामेषा एव महामुद्रा | सर्वेषां मन्त्राणि भवन्ति - ओं दाने दद ददापय ज्वल ज्वल सर्वबुद्धाधिष्ठिते हुं हुं जः स्वाहा | एषा दानपारमिताया महामुद्रा | ओं शील शीलाढ्ये शान्तिकरणि शिवे प्रशस्ते सर्वबुद्धाधिष्ठिते स्वाहा | शीलपारमिताया महामुद्रा - ओं शान्ते श्रीकरि क्षान्ते क्षान्तिकरि स्वाहा | इयं क्षान्तिपारमितायाः | ओं वीर्ये वीर्यमिति सर्वबुद्धाधिष्ठिते स्वाहा | अभावस्वभावे स्वाहा | वज्राक्रमणि स्वाहा | इयं वीर्यपारमितायाः | ओं शान्तिकरि धूधूधूर्धरि धैर्ये वीर्ये गगने रमणे ध्यानवति स्वाहा | इयं ध्यानपारमितायाः | ओं धीः धूः इयं प्रज्ञापारमिता | ओं त्रायाहि भगवति सर्वबुद्धजुष्टे अनालम्बने गगनस्वभावे धर्मधातुमनुप्रविष्टे आलोककरि विधमय विधमय सर्वक्लेशान्धकारम् | च्छोषय तारय माम् | अमूर्त्तिजे हुं हुं दालय सर्वकर्मां हुं फट् स्वाहा | एषा भगवती बुद्धानां भगवतां महाबोधिमन्त्रा सर्वकर्मिक सर्वार्थसम्पादिकाः सर्वानर्थप्रतिघातिकाः सर्वबुद्धधर्मां पारिपूरिका सर्वक्लेशां निसूदिनी सर्वमन्त्रां परकर्मकृतां विनाशनी सर्वमारविद्रापणी सर्वलौकिकलोकोत्तराणां मन्त्राणां प्रसाधनी सर्वपापां विधमनी सर्वदुर्गतिह्योषिका सर्वदेवमनुष्येषु सर्वबुद्धधर्मेषु प्रतिष्ठापनीति | संक्षेपतो यथा यथा प्रयुज्यते तथा तथा कर्माणि करोति | १५३, प्. ४०३) न शक्यमस्याः कल्पकोटीभिर्गुणमाहात्म्यं संवर्णनं असङ्ख्येयैश्च बुद्धैर्भगवद्भिः प्रभावविकुर्वणचर्याधिष्ठानऋद्धिबलाधान भाषितुं वर्णयितुं वा | एवमस्या भगवत्या अपर्यन्तगुणविस्तारमाहात्म्यस्य विकुर्वण इति षट्पारमितामपि विस्तरेण कर्त्तुम् | समासतो निर्देशप्रभावचर्या ऋद्धि च गुणगोत्रमधिष्ठितचर्या सर्वतो ज्ञेया विशेषाधिगमोऽपि वा || गगनस्वभावा धर्माख्यां भावाभावविचारताम् | कल्पकल्पाक्षरं प्रयोक्त * * (?) कर्मसिद्धिषु || पुष्कलां कथिता ज्ञेभिः क्षिप्रं फलाकारसमुद्भवम् | गगनस्वभावमन्त्रार्थं मक्षरव्यक्तिभूषितम् || फलन्ति बहुधा काले युक्तिमात्रि दभिमूक्षिता | मुद्रातं वै सविस्तरं कथितं तत्त्वचेष्टिभिः || मन्त्रतन्त्रगतिं कालो नियमश्चैव सुयोजिता | जपो होमादिभिर्ज्ञेयं फले तत्त्वसमुद्भवे || आश्रयाय न द्रव्याणां गतिर्लक्षणसुलक्षितम् | मन्त्रबोथ स्वमन्त्रं च कुलयोनिसमोदयाः || लक्ष्यते सिद्धिकालो हि मुद्राचिह्नसमुद्भवम् | तत्त्वनिष्ठागतो मन्त्री जपेन्मन्त्रं समाहितः || सिद्धयः सिद्धहेतुत्वं दर्शयेत् कुलदेवताम् | एता मुद्रा वराः प्रोक्ता मन्त्राश्चैव महायशाः || सिध्यन्ते विधिना युक्ता यथेच्छा मानसोद्भवे | इति || तदेव हस्तौ परिवेष्टिताङ्गुलीयकौ दक्षिणाङ्गुष्ठावनामितौ वामाङ्गुष्ठाधस्थितौ | एषा सर्वबुद्धानां हृदयमुद्रा सम्यक्सम्बुद्धैस्तु भाषिता सर्वकर्मिकास्तु | भवति चात्र मन्त्रः - ओं त्रैलोक्यपूजिताय हूं फट् स्वाहा | सर्वकर्मकरा भवन्ति | सर्वमण्डलविधानेषु प्रयोक्तव्या सर्वैः सत्त्वानां महारक्षादिषु | १५४, प्. ४०४) तदेव हस्तावुभयाग्रौ सङ्कोचितावूर्ध्वमेतमध्यमाङ्गुलीयकौ | इयं भगवतां सर्वबुद्धानां मूलमुद्रा | भवति चात्र मन्त्रः - ओं द ददातु दण्ड हुं | ओं सर्वसत्त्वामृतप्रदेशिकंकराय स्वाहा | दण्डकमण्डलू उभौ मूलमन्त्रौ | अनेन सर्वकर्माणि कारयेत् | सर्वत्र च सर्वमन्त्रेषु प्रयोक्तव्यः सर्वसिद्धददः सर्वरक्षाविधानेषु प्रयोजितव्यौ | तदेव हस्तौ उभयकराबलग्नौ अन्योन्यानसक्तवेणिकौ शिरस्स्थाने स्थापयेत् | विशेषेषु प्रयोक्तव्यः | भवति चात्र मन्त्रः - ओं ज्वल ज्वल सर्वबुद्धाधिष्ठिते स्वाहा | अनेन तथागतकुले सर्वकर्माणि कारयेत् | आर्यमञ्जुश्रियो मन्त्रेण वा रक्तेन करवीरेण मालतीकुसुमेन वा द्रव्यस्योत्तेजनं कार्यम् | मञ्जुश्रीमूलमन्त्रेण सर्वतो योज्यम् | सर्वतश्च प्रयोजयितव्यः सर्वकर्मसु | तदेव हस्तौ उभयवेणिकाकारौ शिरःस्थाने स्थापयेत् | सर्वबुद्धानामुष्णीषमहामुद्रा | मन्त्रं चात्र भवति - ज्रीं | सर्वकर्मिकोऽयमुष्णीषराजा | तदेव हस्तौ पद्माकारं कृत्वा हृदये स्थापयेत् | इयं पद्मकुलेऽवलोकितमहामुद्रा सर्वकर्मिका | मन्त्रं चात्र भवति - ज्रीः | तदेव हस्तौ कुड्मलपद्माकारौ नाभिमध्ये स्थापयेत् | इयमपरा अवलोकितस्य सर्वविघ्नप्रशमनी नाम महामुद्रा | मन्त्रं चात्र भवति - जिः | अयं सर्वकर्मिकोऽवलोकितसर्वभयेभ्यः प्रयोक्तव्यः | तदेव हस्तौ सुशिराकारौ कृत्वान्योन्यप्रतिकूलाङ्गुलिभिर्ललाटदेशे न्यशेदियं सर्वबुद्धानां प्रभावमानसोद्भवं नाम महामुद्रा | मन्त्राणि चात्र प्रयोक्तव्यानि | एकाक्षराणि चतस्रः - ताः | वाः | द्रोः | हाः | एते मन्त्रा एकाक्षरा चतश्रश्चतुर्भिर्बुद्धकोटिभिर्भाषिता सर्वबुद्धानामुष्णीषराजानः सर्वेषां विद्यामहर्द्धिकानां प्रभावा सर्वधर्माश्रयाच्चतुऋद्धि पञ्चचरणाश्चतुरार्यसत्यमास्था बोधिप्राग्भारशिरा चतुर्विमोक्षचतुर्ध्यानसमाधिभिः सर्वैरासेवनीया अप्रकम्प्या सर्वलौकिकलोकोत्तरादिभिर्मन्त्रतन्त्रैः परमेश्वराः सर्वविद्याराजा चक्रवर्तीनां ज्येष्ठा सर्वमन्त्राणाम् अचिन्त्या सर्वसमाधिविशेषाणां बोधिप्राप्तामिति महासत्वैस्त्रैलोक्याधिपतयो सर्वकुलमन्त्रतन्त्रादिषु अगम्यां सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः | एवमचिन्त्या अश्वभावा अलङ्घ्या गगनस्वभावभूतकोटिधर्मधातुमनाविलप्रतिष्ठा इति संक्षेपतः सर्वकर्मसु प्रयोक्तव्या इति | १५५, प्. ४०५) अनेनैव सर्वकर्माणि कारयेत् | विशेषतः आर्यमञ्जुश्रियः मूलकल्पविधानेष्विति | तदेव हस्तौ सम्पुटाकारौ शिरःस्थाने मुपदर्शयेत् | इयं सर्वतथागतकुले सर्वविषनाशिनी नाम महामुद्रा सर्वविषकर्मसु प्रयोक्तव्या | ट्रों | अनेन मुद्रया युक्त मन्त्रोऽयं बुद्धभाषितः | निर्विषां कुरुते क्षिप्रं सत्त्वां स्थावरजङ्गमाम् || निर्विषां कुरुते नागां उद्युक्तां विषदर्पिताम् | सर्वदोषां तथा हन्ति रागद्वेषजा || परा मोहजाश्चैव मन्त्रोऽयं मुद्रेण योजितः | विविधां कुरुते कर्मां विषसत्त्वसमुद्भवाम् || संक्षेपत इयं मुद्रा | विन्यस्ता मन्त्रयानेन विविधां च विषोद्भवाम् | कर्मां करोति विषं चास्य वशो भवति यदृच्छया || इति लक्षजप्तेन | तदेव हस्तौ समयवज्राकारौ उभयत्रिसूचिकौ वामहस्तादधःस्थितः दक्षिणहस्तादूर्ध्वविपर्यस्तं कृत्वा शिरःस्थाने न्यसे | तदेव वज्राधिपतेर्हृदयमुद्रा सर्वकर्मिका | मन्त्रं चात्र भवति - हूं | सर्वकर्मिकोऽयं सर्वार्थसाधकः सर्वक्रूरग्रहेषु प्रयोक्तव्यः नान्यथा विचिकित्सा कार्या | ओं भद्रे भद्रवति करटे रत्न विरत्न स्वाहा | अस्य जापः प्रथमं कार्यः अष्टशतम् | ततो मञ्जुश्रीः सिद्ध्यतीति | तदेव हस्तौ उभयकुञ्चिताग्राङ्गुलीयकौ मूर्ध्नि स्थापयोदियं समन्तभद्रस्य बोधिसत्त्वस्य महामुद्रा | सर्वकर्मेसु प्रयोक्तव्या सर्वरक्षेषु प्रतिकृता सर्वार्थसाधनी मञ्जुश्रियसाधनेषु च पूर्वमारभेत् पश्चात् कर्मं कुर्यात् कुलत्रयसामान्यमिति | तदेव मुद्रं आर्यसमन्तभद्रस्य ललाटे न्यसेत् | आकाशगर्भस्य महामुद्रा | मन्त्रं चात्र भवति सर्वकर्मिकम् - स्वं | तदेव मुद्रं गलदेशे स्थापयेत् | इयं विमतेलगते महामुद्रा | मन्त्रं चात्र भवति सर्वकर्मिकम् - लं | तदेव मुद्रां उरसि मध्ये स्थापयेत् | मैत्रेयस्य महामुद्रा | मन्त्रं चात्र भवति - मं | तदेव हस्तौ पूर्ववन्नाभिदेशे स्थापयेत् | १५६, प्. ४०६) क्षितिगर्भस्य महामुद्रा | मन्त्रं चात्र भवति सर्वकर्मिकम् - क्षिं | तदेव मुद्रा कटिदेशे नियोज्या ऊर्ध्वं क्षिपेत् | इयं गगनगञ्जस्य मुद्रा | मन्त्रं चात्र भवति सर्वकर्मिकम् - गं | तदेव मुद्रां उभौ भुजे न्यस्य शिरसि भ्रामयेत् नृत्तयोगेन | इयं सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानाम् | भवति चात्र मन्त्रः - घ्रुः | एषोपरिमितानुशंसकर्मप्रभावविस्तारा सर्वतः द्रष्टव्यगुणमहात्म्ययोगेन | तदेव मुद्रं ऊर्ध्वमवलोक्यावनामयित्वा ऊर्ध्वं क्षिपेत् नृत्तयोगेन | इयं सर्वदेवानां त्रिधातुस्थितानां अनन्तलोकधातुपर्यापन्नानां ऊर्ध्वमधस्तिर्यक् सर्वतः सर्वसत्त्वानां यक्षयक्षीराक्षसराक्षसी विस्तरेण सर्वेषां इयं महामुद्रा सर्वत्रतालया नाम सर्वकर्मसु प्रयोक्तव्यः | आह्वाननविसर्जनमण्डलपटलविधानसर्वसाधनेष्वपि कर्मसु प्रयोक्तव्यः | मन्त्रं चात्र भवति | ओष्ट्रै | तदेव हस्तौ अञ्जलिकृताकारौ मूर्ध्नि न्यसेदेषा सर्वमन्त्रेषु महाबन्धनान्तरावणमहामुद्रा | कटिदेशे च भ्रामयितव्या | भवति चात्र मन्त्रः - ग्यं जये कुमारि शुक्लबन्धनि स्वाहा | अष्टशतजप्तं सूत्रकं कन्याकर्तितकं कट्यां बन्धयेत् | शुक्रबन्धः कृतो भवति | सर्वदिशांश्च व्यवलोकयेत् | सर्वविघ्नाः स्तम्भिता भवन्ति | सर्वतश्च रक्षा मुद्राबन्धमतः साधकेन सर्वकर्मसु | अयं प्रथमतः प्रयोगः कार्यः | पश्चात् कर्माणि कर्तव्यानीति | एवमष्टाविंशकं शतं भवति मुद्राणाम् | साधकेन यथेच्छयान्यतरं प्रयोक्तव्यं सर्वकर्मसु सर्वाणि वा | एवमसङ्ख्येयानि अनेन प्रयोगेण मुद्राणि भवन्ति | असङ्क्येयाश्च मन्त्रा | तदेव हस्तौ करसम्पुटाकारौ स्थितौ अन्योन्याङ्गुलिभिः समस्तव्यस्ताभिरुभयाङ्गुष्ठोपशोभिताभिः पञ्चसूचिकाकारेण उभौ मुष्टिकृतौ शिरःस्थाने मूर्धनि न्यसेत् | इयमार्यमञ्जुश्रियः पञ्चशिखा नाम महामुद्रा सर्वकर्माणि करोति | अङ्गुष्ठाक्षेपविक्षेपां सङ्कुचितैराह्वाननं विक्षिप्तैर्विसर्जनम् | एवं मनसा सर्वप्रयोगैः सर्वकर्माणि करोति | मञ्जुश्रीमूलमन्त्रहृदय उपहृदय सर्वमन्त्रेषु वा संयुक्तः सर्वार्थकरा भवति | तदेव मुद्रां त्रिसूच्याकारम् | एषा मञ्जुश्रियस्य त्रिशिखेति कथ्यते | तदेव कन्यसाङ्गुलिभिः सूच्याकारं एकचीरेति अवगन्तव्यम् | १५७, प्. ४०७) उभौ करसम्पुटावस्थितौ सर्वतो नामितौ अङ्गुलिभिः सुरचितविन्यस्ता गाढावसक्तं मूर्ध्ना स्थापितम् | एषा मञ्जुश्रियस्य सर्वशिरोभ्युद्गतं नाम महामुद्रा | तदेव हस्तौ ततोच्चवाग्र उत्तानकावस्थितौ वक्त्रमध्ये धारयेदियं मञ्जुश्रियं महावक्त्रमुद्रा | तदेवावतार्य हृदयमध्ये न्यसेत् | इयमपरा मञ्जुश्रियः हृदयमुद्रा | तदेव हस्तौ अर्धावस्थितौ किञ्चिन्नामितललाटस्थौ | इयमपरा हृदयमुद्रा | तदेव हस्तौ उद्धृत्य मध्यमाङ्गुलिमवनामितौ अनामिका अवनामितदर्शिताग्रौ तर्जन्या कृतवेष्टितौ अङ्गुष्ठपार्श्वासु प्रसारितौ | इयमपरा वक्रदंष्ट्रमहामूलमुद्रा सर्वमहाभयेषु प्रयोक्तव्या | द्वौ मृसृतौ तदेव | इयमपरा मञ्जुश्रियः उत्पलमुद्रा | तदेव बद्धौ अवनाम्य संवेष्टितौ | मञ्जुश्रियः मयूरासनमुद्रा | तदेव तर्जन्या कन्यसावष्टब्धौ उभयपार्श्वयोः तिर्येकं पीठाकारेण | इयमपरा भद्रपीठमुद्रा | तदेवाङ्गुलिमुष्टीकृतौ तर्जन्येकोच्छ्रिता | इयमपरा यष्टिमुद्रा | द्विरुच्छ्रितौ ध्वजमुद्रा | त्रिरुच्छ्रितौ पताकामुद्रा | चतुरुच्छ्रितौ घण्टा | तदेव हस्तं तर्जन्योपरिस्थितौ तं छत्रमुद्रा | सर्वेष्ववनतेषु फलमुद्रा | हुं | अङ्कुशाग्राङ्गुले तर्जन्यां वस्थितं अङ्कुशमुद्रा | तदेव तर्जनीं दृढमुष्टावस्थितं मुष्टिमुद्रा | तदेव सूच्याग्रस्थितौ तिर्यक् शूलमुद्रा | उभयतर्जन्योपेतं महाशूलमुद्रा | एकाङ्गुष्ठोच्छ्रितं एकलिङ्गमुद्रा | तदेव मुद्रा हृदयेन स्थापयेत् | मनोरथमुद्रा भवति | तदेव हस्तौ सम्पुटाकारे यमलं कृत्वा उपर्युपरि यमलमुद्रा | तदेव कुड्मलाकारं विकाश्य यमलं कृत्वा उपर्युपरि यमलमुद्रा | तदेव कुड्मलाकारं विकाश्य मूर्ध्नं क्षिपेत् उत्पलमुद्रा | तदेव पूर्णमाकाशाकारं पूर्णमुद्रा | मूर्ध्नि स्थिता तदेवाध मुष्ट्योपरचितं मञ्जुश्रियं यष्टिमद्रा | पुनः चित्रीकृतौ करौ स्वस्तिकं मञ्जुश्रियस्योर्ध्वगं मालतीकुसुमानरक्तं सर्वं बन्धितव्यम् | तदेव हस्तौ विपरीतवेष्ट्य मध्यमाङ्गुलिप्रसारिताग्रम् | इयमपरा कार्त्तिकेयस्य मञ्जुश्रियः शक्तिमुद्रा | घण्टा पताका च पूर्ववद् ज्ञेया | तदेव हस्तौ सम्पुटीकृत्य विकासयेत् | इयमपरा पद्ममुद्रा मञ्जुश्रियः | तदेव हस्तौ तिर्यगवस्थितौ सुनेत्रीकृतौ स्वस्तिकाकारं कारयेत् | अङ्गुलीभिश्चतुर्भिश्चतुर्दिश्यवस्थितौ सुप्रसारितौ मध्यसुविन्यस्तैः | इयमपरा मञ्जुश्रियः स्वस्तीकमुद्रा | तदेव हस्तौ करपल्लवाकारौ अन्योन्यविश्लिष्टौ अङ्गुलीभिः | १५८, प्. ४०८) इयमपरा पल्लवमुद्रा | तदेव मुष्ट्यौ कृतौ | इयमपरा सर्वबुद्धास्पदमुद्रा | मञ्जुश्रियः तदेव धर्मभेरीमुद्रा | तदेव हस्तौ सम्पुटीकृतौ मध्ये सुषिरौ तर्जन्या परिवेष्ट्य मूलाङ्गुष्ठतलविन्यस्तौ अङ्गुष्ठावनतौ शङ्खाकारकृतचिह्नौ | इयमपरा मञ्जुश्रियः धर्मशङ्खमुद्रा | चक्रं पूर्ववत् | धर्मचक्राकारं इयमपरा मञ्जुश्रियः धर्मचक्रमुद्रा | तदेव मुद्रं ललाटे न्यस्तं तृत्ययोगं कृत्वा क्षिपेदवसव्ययोगेन | इयमपरा महाक्रीडाविकुर्वाणमुद्रा | मूलमन्त्रेणैव महाभयेभ्यो प्रयोक्तव्या नश्यन्ते अविकल्पत इति || एवमनेन प्रयोगेणासङ्ख्येयानि मुद्राणि भवन्ति | असङ्ख्येयाश्च मुद्राकल्पमन्त्रतन्त्राश्च | असङ्ख्येयानि च द्रष्टव्यानि | महाप्रभावोद्गतस्वयम्भुवोद्भवाः | तानि च सर्व प्रयोक्तव्यानि | इह कल्पविसरे सर्वाणि च शुचिवस्त्रान्तरावनद्धेन प्रयोक्तव्यानि | इह कल्पविसरे सर्वाणि च शुचिवस्त्रान्तरावनद्धेन प्रयोक्तव्यानि | यथा असमयज्ञैः सत्त्वैर्न दृश्यन्ते | एवं महाप्रभावानि | अन्यथा समयव्यतिक्रम इति | एता साधनोपयिकानि करमुद्राणि हस्तविन्यस्ता नृत्तगीतप्रयोगैश्चानेकानि भवन्ति | रुतविशेषैश्च सत्त्वानां क्रमशः कथित एवमधुना मण्डलसाधनोपयिकानि महामुद्राणि भवन्ति || सर्वबुद्धानां तथा स्तूपा भुवि धातुपरं पटे | बोधिसत्त्वानां तथा पद्म श्रावकाणां परिमण्डलम् || चतुरश्रः प्रत्येकबुद्धानां कथितां त्रिमण्डलो | नानावाहननाना विविधाभरणविभूषणा || नानाप्रहरणाश्चैव देवयक्षग्रहापराम् | नृणां पुरुषमतः स्यात् ऋषीणां दण्डकमण्डलुः || यस्य यो प्रहरणं नित्यं यो वा वाहनभूषणा | तस्य कुर्यान्मुद्रा संक्स्.एपान्मण्डलेष्विह || आदित्यचन्द्रौ तदा कुर्यान्मण्डलोपरिमण्डलौ | संक्षेपाद् यस्य यो भूमि तदेव मनसाह्वये || विविधाः प्राणिनो प्रोक्ता तेषां तेषां तदा न्यसेत् | बहुप्रकारा सत्त्वाख्या बहुमुद्राश्च प्रकीर्त्तिता || १५९, प्. ४०९) तेषां कर्मतो कुर्याद् विधानेन मण्डले | ब्रह्मस्य पद्मं शक्रस्य वज्रं वरुणस्य पाशं रुद्रस्य शूलं दुर्गस्य पट्टिशं ऋषिस्य कमण्डलु यमस्य दण्डं धनदस्य गदा कुबेरस्य खड्गं हुताशनस्याग्निकुण्डं पृथिव्या कलशः एवमादयो यथा यस्य प्रहरणानि आभरणानि च लोकेऽद्य दृष्टानि तानि सर्वत्र यथानुस्मरतः विधिना तानि सर्वाणि सर्वमण्डलेषु प्रयोक्तव्यानि कल्पोक्तेन वा विधानेनालिखितव्यानि सर्वमण्डलानि सर्वसत्त्वानां अर्थाय हिताध्याशयेन चेतसा सर्वसत्त्वानां करुणायमानेन उत्पादितबोधिचित्तेन सर्वसत्त्वानुकम्पयमानेन सर्वमण्डलान्यभिलिखितव्यानि सर्वमण्डलाभिषेकाभिषिक्तैः महामण्डलाभिषिक्तैर्वा | आर्यमञ्जुश्रियः दृष्टमण्डलाभिषिक्तेन | अन्यवश्यं सर्वमण्डलां लिखेत | आर्यमञ्जुश्रीः मनसि कर्तव्यः | यत् कारणम् | अभिषिक्तो मया सर्वबुद्धैश्च गङ्गासिकताप्रख्यैः सर्वमन्त्राणां गम्भीरतत्त्वार्थनयधर्मदेशना कुमारबालरूपिणा मन्त्ररूपेण सत्त्वानामर्थं करिष्यसीति || न मन्त्रमुद्रसंयुक्तं न कुर्याद् धर्मसमाहितम् | अहितं कुर्यान्नात्र नाहितं हितमीप्सितम् || मुद्रामन्त्रसमायुक्तो अहितं चैव निवारयेत् | हिताहितं सदा सर्वं अहितं चैव निवारणम् || हितैव सर्वमन्त्रो कुर्यान्मन्त्रमुद्रितो | न मुद्रमन्त्र तत्कुर्यान्न मन्त्रं मुद्रितं तथा || मुद्रार्थसंयुक्तो सफलार्था साधयिष्यते | सफलं मुद्रसंयुक्तो मन्त्रो मुद्रफलोदयः || साधयेत् कर्मविस्तारं मुद्रसमं चिन्ता | शान्तिका ये तु मुद्रा ये मन्त्रा चैव शान्तिके || मन्त्रमुद्रसमायोगा शान्तिकं कर्ममारभे | पौष्टिकेषु च मन्त्रेषु बध्नीयान्मुद्रसम्भवम् || पौष्टिकं मुद्रमित्याहुः कथिता मन्त्रयोजिता | शान्तिके शान्तिकं कुर्यात् मुद्रमन्त्रेष्विहोदितैः || १६०, प्. ४१०) जिनैः जिनमन्त्रमुख्यैस्तु मुद्रैश्चापि विभागतः | शीतलेषु च सर्वर्तुसर्वकर्मंश्च साधयेत् || पुष्ट्यर्थं कथिता मन्त्राः अब्जकुले तु समुद्भवा | मन्त्रतन्त्रानि तीक्ष्णैः मुद्रैश्चापि तवोदितैः || विख्यातैः कथितैर्मन्त्रैः मुद्रैश्चापि महर्द्धिकैः | अब्जके तु समादिष्टैः शुचिभिश्चैव दीपितैः || प्रशस्तैः मङ्गलैश्चापि आरोग्यार्थसुपुष्कलैः | क्रोधयुक्तैस्तथा मन्त्रैः मुद्रैश्चापि वर्णितैः || भोगार्थसम्पदोद्दिष्टैः निर्मलैश्चापि शोभनैः | शुक्लैः सितमुद्रैस्तु मन्त्रमुद्रसमोदितैः || साधयेत् सम्पदां मन्त्रां भोगकारा जन्मनि | तथाविधैः मन्त्रमुद्रैस्तु साधिता सफलोदया || क्रोधमन्त्रा तथा प्रोक्ता मन्त्राद्या प्राणोपरोधिका | कथिता वज्रिणे तन्त्रे जिनाब्जे च समुद्भवे || तेजिनो बहुधा उग्रा दुष्टसत्त्वदमापहा | नियुक्ता प्राणहिंसायां न कुर्यात् तां तु धीमता || मुद्रा च दण्डदमनवज्रशूलाभिपट्टिशा | विविधा प्रहरणांश्चैव महाशूलास्तु यमान्तके || संयुक्ता मन्त्रिभिः क्षिप्रं कृत्वा प्राणापहं ध्रुवम् | तन्न कुर्याच्च तं धीमां सर्वप्राणोपरोधिनम् || भजेन्मन्त्रतन्त्रज्ञः क्रूरं क्रूरसमुद्रितम् | मुद्रा क्रूरतरः प्रोक्ता क्रूरमन्त्रेषु योजिता || क्रूरसत्त्वैः यथा सिद्धा क्रूरकर्मान्तचारिभिः | विविधां नारकां दुःखां प्राप्नोतीह स दुर्मतिः || न कुर्यात् क्रूरमन्त्रेभ्यो दुःशीलानां चाभिचारुकम् | क्रूरमन्त्र तथा मुद्रं न दद्युः सर्वतो जनाः || १६१, प्. ४११) यस्मात् फलमनिष्टं वै रनुभूये पुनः पुनः | न विद्या सुखं तदा मन्त्री क्रूरक * * (?) || * * * * * * * * * * * * (?) समोदिता | त्रिधा * * * * * * * * (?) सिद्धिषु दृश्यते || इष्टं इष्टफलायत्तं * * * * * * * * (?) | होमं क्रूरकर्मेषु तस्माद्धर्मां विवर्जयेत् || मुनिश्रेष्ठो स योगा * * * * * * * * * (?) | * * * * (?) अब्जिनो गीता हीना क्रूरकर्मभिः || गीता वज्रकुले मन्त्रा त्रिधा ते परिकीर्त्तिता | हीनोत्कृष्टम * * * * * * * * * * * (?) || * * (?) मुद्रसमुद्देशं बहुमन्त्रार्थविस्तरम् | कथिता जिनवरैः पूर्वं अधुना ये इहोदिता इति || बोधिसत्त्वपिटकावतसंकात् आर्यमञ्जुश्रियमूलकल्पात् चतुस्त्रिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति | १६२, प्. ४१२) अथ सप्तत्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये मूलकल्पे अपरमपि मुद्रा परमगुह्यतमम् | सर्वेषां मुद्रातन्त्रविधानं सर्वमन्त्राणां सम्मतं सर्वमन्त्रैश्च सह संयोज्य सर्वकर्मप्रसाधकं सम्यक् सम्बोधिमार्गविशोधकं सर्वभवमार्गविनाशकं सर्वसत्त्वोपजीव्यं आयुरारोग्यैश्वर्यसर्वाशापारिपूरकं सर्वबोधिपक्षधर्मपरिपूरकं सर्वसत्त्वसन्तोषणकरं सर्वसत्त्वमनाशाभिरुचितसफलाभिकरणं सर्वकर्मकरं सर्वमन्त्रानुप्रसाधकं सर्वमुद्रामन्त्रसमेतम् | शृणु कुमार ! मञ्जुश्रीः ! | आदावेवोष्णीषलक्षणं भवति | प्रसृतसमोहानोभयपाणिना जिह्वा आनामिकाङ्गुल्यौ करमध्ये नखे नखं परिधाय अङ्गुष्ठाग्रेणोपगूढाः कन्यसौ सूच्याकारेण संहताग्रा तथैव मध्यमा समनखशिखासंसक्तमध्यगौ प्रदेशिन्यौ सूच्याकारसमन्तावभासोष्णीषमहालक्षणं नाम महामुद्रा | भवति चात्र मन्त्रः - आः मः हं | तदेव प्रदेशिन्यौ सञ्चार्य नखेन नखमालभेत् | मण्डलाकारसूच्याभिः कुदृष्टिशल्यविपर्यासदाहनं नाम महाधर्मचक्रमुद्रा | मन्त्रं चात्र भवति - ओं धुन पातय छिन्द चक्रे वज्रिणि हूं समयिरवो भागे प्रदेशिन्यो निर्गुगुगुल्याकातृकं चतुर्मारारिशयनी | वजवीरा चलाचलमहा महीक्लेशासनी नाम महामुद्रा | मन्त्रं चात्र भवति - ओं वज्राननि हूं फट् | पर्यक् तु मुद्रा मन्त्रा च संयुक्ता सर्वकर्मसु | नश्यन्ते सर्वविघ्ना वै शरदैव यथाम्बुदा || चतुर्मारकृता ये च ये च विघ्ना ससुरासुराः | नश्यन्ते दृष्टमात्रं वै मुद्रं पर्यमुत्तमम् || परतस्तुल्यमुद्दिश्य तृतीया मुक्तप्रदेशिनी | सङ्कुचिताग्र्या शुभा चैव मुष्टिस्तथागती स्मृता || त्रैलोक्येन महामहेश्वरगभस्तिमालिनी नाम महामुद्रा | मन्त्रं चात्र भवति - ओं विजये हः | तथागतमुष्टिमुद्रा च | एभिरन्यतमैर्मुद्रै १६३, प्. ४१३) हस्तद्वयेनावबध्वा साधनकाले पूर्वसेवाकाले वा सकृदुच्चार्य यावदिच्छं जपेत् निषण्णो स्थितो वा | एवं सर्वविघ्नविनायकाः अवतारं न लभन्ते | सिद्धिश्चाभिमुखीभवति || ता एव प्रदेशिन्यः सञ्चार्य मध्यमयोपरि संसक्ताग्रां कारयेत् | उद्गतोष्णीषमुद्रा | मन्त्रं चात्र भवति - ओं ज्वलोज्ज्वल दीप्तोद्गतोष्णीष धुन धुन हूं || ता एव प्रदेशिन्यो सञ्चार्य मध्यमसूच्या सदा नखशिखरसंसक्ता निर्भुग्नगुल्फकुण्डलाकारमुद्रा सितातपत्रोष्णीष | मन्त्रं चात्र भवति - ओं म म म म हूं निः || ता एव प्रदेशिन्यौ परतस्तुल्यमुद्यम्य आश्लेष्य मध्यमसूच्ये तेजोराशिमुद्रा | मन्त्रं चात्र भवति - ओं तथागतोष्णीष अनवलोकितमूर्ध्नि तेजोराशि हूं ज्वल एक एक दर विअर च्छिन्न भिन्द हूं हूं स्फट् स्फट् स्वाहा || ता एव प्रदेशिन्याग्रसंसक्तमध्यमसूच्ये मण्डलाकारो जयोष्णीषमुद्रा | मन्त्रं चात्र भवति - ओं जयोष्णीष ज्वल ज्वल बन्ध बन्ध दम दम ङ्रं ङ्रं ङ्रं हः हन हूं जयोष्णीषमन्त्रा || तयैव प्रदेशिन्याग्रा सञ्चार्य मध्यमध्यमसूच्या नखस्योपरि तृतीयभागे श्लिष्टा चक्रवर्तिमुद्रा | ओं नमो अप्रतिहततथागतोष्णीषाय अनवलोकितमूर्ध्नि चक्रवर्ति हूं ज्वल ज्वल धक धक धुन धुन विधुन त्रासय मारयोत्सादय हन हन अं अं अः अः कः कः प्रोंखिनि प्रोंखिनि कुण्डलिनि अपरोजितास्त्रधारिणि हूं फट् | चक्रवर्ति ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखस्याधस्तात् तृतीयभागे संयुक्ता मन्त्राधिपस्य चक्रवर्त्तिने मुद्रा | ता एव प्रदेशिन्याग्रा सञ्चार्य सूच्या नखस्याधस्तात् संसक्ता मन्त्राधिपस्य मुद्रा | ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यप्रसूच्या नखपर्वयोरन्तरे संसक्ता महाचक्रवर्त्तिने मुद्रा | ता एव प्रदेशिन्याग्रा सञ्चार्यः मध्यमसूच्य १६४, प्. ४१४) तृतीये पर्वे अधस्तात् संसक्ता कुण्डलाकारेण महाचक्रवर्तिने मुद्रा | ता एव प्रदेशिन्याग्रा सञ्चार्य तृतीये पर्वे मध्यमसूच्या पर्वयोरन्तरे संसक्ता मन्त्राधिपस्य महाचक्रवर्तिने मुद्रा | ता एव प्रदेशिन्याग्रा निर्भुग्नगुल्फसत्रिकं मध्यमसूच्या मध्यमपर्वयोरधस्तात् संसक्ता पर्वतृतीयेन अपराजितोष्णीषचक्रवर्त्तिन हृदयमुद्रा | मन्त्रं चात्र भवति - ओं अपराजिता धिक् || ता एवोष्णीषमूलमुद्रायान्तमेन वा सोपचारविन्यास सर्वकर्माणि कारयेदङ्गुष्ठाग्रैश्चलितैरनामिका परामृज्योत्कर्षयेदावाहनम् | मन्त्रं चात्र भवति - नमो भग्गवते अप्रतिहतोष्णीषाय एहि एहि भगवं ! धर्मराज ! प्रतीच्छेयं अर्घ्यं गन्धं पुष्पं धूपं बल्यं दीपं च | मां चाभिरक्षाप्रतिहतबलपराक्रमाय स्वाहा | आवाहनं शुक्लपुष्पैः स्वरूपेणार्घ्यपाद्यमाअमनीयमासनोपविशते तदानेनैव दिशि विदिशि अध ऊर्ध्वं च बन्धयेत् || ता एवानामिकौ अङ्गुष्ठाग्रैरपमृज्याथ नामयेत् | मध्यमे पर्वे स्पृश्योत्क्षिपेत् | विसर्जनार्घेण स्वदेवताया अपसव्येन भ्रामयेत् | मुद्रा दिशा बन्धा मुक्ता भवन्ति | मन्त्रं चात्र भवति - नमोऽप्रतिहतोष्णीषाय गच्छ गच्छ भगवं ! धर्मराज ! प्रतीच्छ मयार्घ्यं गन्धं पुष्पं धूपं मां च रक्षाप्रतिहतबलपराक्रमाय | मुद्रा मन्त्रविसर्जनार्घेण || ता एव प्रदेशिन्यौ अधस्तात् तृतीये पर्वे मध्यमसूच्ये संसक्तावन्योन्य अङ्गुष्ठौ सह कन्यसैः निःपीडितमुष्टिः मध्यमसूच्यौ | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओं ओं ह्रौं बन्ध हूं फट् | अप्रतिहतोष्णीष तेजोराशे | मुद्रामन्त्रा सर्वबन्धादिषूपयुज्यते सर्वकर्मिकः || ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीयपर्वे दीपिदसंसक्ता विकरणोष्णीषमुद्रा | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय विकरण धुन धुन हूं विकरणोष्णीषः भगवतो विद्याधिपते महाविद्याराजा उष्णीषतन्त्रे सर्वविघ्नविनायकोपघातेष्वभिषेकमात्मरक्षादिशाबन्धमण्डलवन्धादिषु सर्वकर्मेषु प्रयुज्यते || १६५, प्. ४१५) ता एव प्रदेशिन्यौ विकसिताकुञ्चिताग्रा चलिताकृष्टौ अग्नेरावाहनं पश्चाद्धोमयामीति | एष एव विसर्जनं विक्षिप्तैः प्रदेशिन्यौ ज्वालामालिन्योष्णीषमुद्रा | अप्रतिहतः सर्वकर्मसु | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एह्येहि तेजोमालिने अग्नये स्वाहा || ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीये पर्वे मध्यमपर्वयोरन्तरे संसक्ता बलोत्कटोष्णीषमुद्रा | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय इमं गन्धं पुष्पं धूपं बलिं दीपं च प्रतीच्छ हर हर सर्वबुद्धाधिष्ठिते धर्मराजाग्रतिहताय स्वाहा || गन्धादिषु मन्त्रः - विपर्यस्तानामिके तृतीये तृर्वाङ्गुष्ठे संसक्ता प्रदेशिन्यः सूच्याकारः वज्रतेजोष्णीषमुद्रा | अप्रतिहतः सर्वविनायकानाम् | अनेन निग्रहं कुर्यात् सहायानां दिक्कालानां च | एवमेभिर्मन्त्रमुद्रैः रक्षा जपकाले साधनकाले मण्डलेऽपि सर्वकर्माणि कर्तव्यानि | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वविघ्नविध्वंसनकराय त्रोटय स्वाहा || अनामिकयोरङ्गुष्ठमूले कुण्डलाकारस्तथैव च प्रदेशिन्यौ सूच्याकारः सर्वत्राप्रतिहतोऽपराजितोष्णीषमुद्रा | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वत्रापराजिताय समये शान्ते दान्ते धर्मराजभाषिते महाविद्ये सर्वार्थसाधनि स्वाहा | घृतहोमादिषु शान्तिकपौष्टिकानि कर्माणि कुर्यात् || एतावनामिकायाः कुण्डलयोः प्रदेशिन्यौ कुञ्चिताग्रा प्रतिहतेन शङ्करोष्णीषमुद्रा | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीष ओं शङ्करे स्वाहा | रक्षा सर्वकर्मसु || अङ्गुष्ठाग्रौ अनामिकयोस्तृतीये पर्वेनाक्रान्ता तथैव प्रदेशिन्यौ सूच्या वज्राप्रतिहतसमयोष्णीषमुद्रा सर्वत्र समयसाधारणः | मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय | ओम् सङ्करे समयं स्वाहा || अङ्गुष्ठाग्रौ अनामिकयोर्मध्ये पर्वेणाक्रान्ता प्रदेशिन्यौ कुञ्चिताग्रा मध्यमसूच्या मध्यमपर्वसंसक्ताप्रतिहतमहासमयोष्णीषमुद्रा देवासुरेषु युज्यते समये स्थापिता | १६६, प्. ४१६) मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओं शङ्करे महासमयं स्वाहा | अनया मण्डलबन्धं कृत्वा जपेच्चक्रवर्त्तिनमपि समये तिष्ठ तिष्ठ | अन्यांश्चक्रवर्तिनांश्चाभिभवति | तत्रैव स्थाने जपं कुर्वं सर्वलौकिकलोकोत्तराणां मन्त्राणां असक्तादन्योन्यं विद्याप्रभावबलविघातं कर्त्तुम् | एकस्मिंस्थाने सर्वजापिनाम् | एवमाद्या उष्णीषराजानः असङ्ख्येयानि भवन्ति | विस्तरेण कर्त्तव्यं सर्वतथागतकुलम् | इह हि मञ्जुश्रीः कल्पराजे अपरिमाणानि मन्त्राणि भवन्ति | मुद्राश्चैव विविधाकारा | संक्षेपतोऽहं वक्ष्ये | यदि विस्तरशो कथेयम् अशक्यं सर्वमानुष्यैः अमानुषैश्च कल्पसहस्रेणापि कालप्रमाणेनोद्गृहीतुं धारयितुं वा | तस्मात् तर्हि मञ्जुश्रीः संक्षेपतः कथयिष्यामि समासेनोपधारय | हृदयस्य मुने मुद्रा कथ्यते प्रवरा इह | ततो देवातिदेवस्य मुद्रा वै श्चक्रवर्तीनः || अवलोकितचन्द्रस्य बोधिसत्त्वस्य धीमतः | वज्रपाणेस्ततो मुद्रा यक्षेन्द्रस्य प्रकीर्त्तितः || ततोऽन्येषां तु मुद्राणां महताममितौजसाम् | दूतदूतीगणां सर्वां चेटश्चेटी तथा पराम् || यक्षा यक्षीस्तथा देवां नागनागी तथापराम् | किङ्करः किङ्करीणां च पिशाच पिशाचीनां च || महर्द्धिका राक्षसीनां तथान्यां सुरयोषित् | दैत्यमङ्गनां सिद्धविद्याधराणां च सर्वेषां च || अमानुषाणां नामानुष्यांश्चापि सर्वेषां त्रिभवे जन्मनिःसृताम् | सर्वेषां तु जन्तूनां मुद्रा ह्युक्ता पृथक् पृथक् || मन्त्रास्तु विविधाकारा नानाकर्मसमाधिका | राजकुले मानुकुले चापि तेषां मुद्रा पृथक् पृथक् || अर्हप्रत्येकबुद्धानां उभौ मुद्रौ शोभोदयौ | सर्वेषां बोधिसत्त्वानां दशभूमिप्रतिष्ठिताम् || १६७, प्. ४१७) मुद्रा हृदयमन्त्रा च एकैकः परिकीर्त्तिता | दिव्ययक्षकुले चापि ऋषिगन्धर्वपूजिते || कुले सप्तमके प्रोक्ता मुद्रा गन्धर्वमाश्रिता | तथाष्टमके मुद्रा कुलेभ्यो परिकीर्तिता || सर्वे मुद्रा समाख्याता अपराश्च सुगताह्वया | पृथक् पृथक् मन्त्रेषु लौकिकेषु ससौगते || मुद्रासहितो मन्त्रः दीप्रो भवति कर्मसु | मुद्राक्षेपादिकुशलं नानुयान्ति विनायकाः || अथ खल्वेषां महामुद्रादीनां लक्षणं भवति | बुद्धानां भगवतां हृदयमुद्रालक्षणं भवति | हस्तद्वयेनान्योन्यमङ्गुलीः सन्नियम्याङ्गुष्ठौ दर्शयेत् | सैषा तथागतानां हृदयमुद्रा | एषैव दक्षिणेनाङ्गुष्ठेन एकैकदर्शितेन पद्मधरस्य मुद्रा भवति | वामेतरस्य पूर्वमुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुञ्च प्रसृतं कृत्वैकतः वज्राकारम् | एषा वज्रधरस्य मुद्रा | एकासूचीमवनाम्य एषा गन्धहस्तिने बोधिसत्त्वस्य मुद्रा पुनरेवोत्क्षिप्य मण्डलाकारं कुर्यात् | एष गजगन्धस्य मुद्रा | उभयोरप्येकं पर्वं कुञ्चयेत् | एषा मणिकुले मुद्रा | सर्वेषां मणिचराणां जम्भले जलेन्द्रादीनां मन्त्रैः तैरेव योजयेत् | तर्जनीयुगलं द्विपर्वं कुञ्चितान्योन्यनखसंयुक्तम् | एषा यक्षकुले मुद्रा पञ्चकादीनां यक्षमहर्द्धिकानाम् | अन्योन्यनखसंयुक्तं अङ्गुष्ठं नखोपरि धारयेत् | तथैव हस्तौ पूर्ववत् कारयित्वा मध्यमाङ्गुलियुगलं उत्थाय सूचिकाकारं कारयित्वा एषा सर्वदेवानां मुद्रा दिव्यकुले अकनिस्ठादीनां दिवौकसाम् | भूयस्तथैव हस्तौ संयम्य मुष्टिं बध्वा अङ्गुष्ठौ दर्शयेत् | सैषा प्रत्येकबुद्धार्यश्रावकानां मुद्रा || इत्येतामष्टौ मुद्रासु कुला चाष्टसमावृता | सर्वेषां जिनपुत्राणां मुद्रामेकं तु वक्ष्यते || प्रसृताञ्जलिविन्यस्तं ईषित्सङ्कुचितं पुनः | स एषा कथिता मुद्रा बोधिसत्त्वां महीयसाम् || १६८, प्. ४१८) चिन्तामणिः खखरकं सङ्घाटी पात्रचीवरम् | दंष्ट्राभयहस्तं च मुद्रैताः सप्तकं मुनेः || दृष्टिमैत्रीप्रभाजालदशनतोर्ण सुगतः स्थितिः | इमाप्यसा परा मुद्रा जिनस्यात्मशरीरजा || द्वौ सप्तकौ गणावेतौ मुद्रा पञ्च मया स्मृता | हृदयस्य मुनेः सहितानि विंशत्युक्तादिस्वयम्भुवैः || पुरा कथिता ह्येते मुद्रा आदिजिनैः तदा | परिवारः समाख्यातो विंशकश्चक्रवर्त्तिनः || परमं परसङ्ख्याता मुद्रा मन्त्राश्च निश्रिता | उद्गतं कुण्डलीकृत्य चिन्तामणिमुद्रा | पर्यङ्के वामदक्षिणे मुष्टिमंसदेशे धारये | खखरकमुद्रा भवति | हस्तसम्पुटेनान्योन्यमभिमुखं सङ्घाटीमुद्रा भवति | पात्रं सम्पुटाधारः चीवरं वामहस्तेन दंष्ट्रा हृदयमुद्राया वाममेकमङ्गुष्ठमुन्नतम् | अभयहस्तमभयावनतः वामचीवरावलम्बतः अभयहस्तः सम्पुटे मध्यमाङ्गुलियुगले तर्जन्यौ बहिः कुञ्चितौ निवेशयेत् मध्याङ्गुष्ठौ | एषा बुद्धलोचनमुद्रा भवति | एषैव एवा पर्वकुञ्चिते तर्जनी एकतः कुर्याद् बुद्धमैत्री | अञ्जलि विरलाङ्गुलिं कृत्वा तर्जन्यनामिका गोपयेत् सूचीत्रयेण | मामकी मुद्रा भवति | अञ्जलिं कृत्वा तर्जनीमध्यमाङ्गुलिवहिः तृतीयपर्वे कुञ्चिते सन्दध्यादङ्गुष्ठौ पृथक् अङ्गुल्याकारेण भोगवतीमुद्रा | वामहस्तेन तर्जन्या मध्यमया च विजया | दक्षिणया त्र्यङ्गुले वज्रं कटिदेशे धारयेत् || एवमेवाष्टौ महामुद्रा आत्मना शिरसि विद्याराजमुद्रा बध्वा सर्वकर्माणि कारयेत् | समये वा मण्डले पुष्पाणि क्षिपेत् | पूर्वनिर्दिष्टेन वा विधिनानेन वा कुर्यात् | यथेप्सतः सर्वकर्माणि कारयेत् | विद्यामन्त्राभिहितानि समयानि भवन्ति मुद्रैः समुद्रितानि मुद्राप्रभावानि | यन्मुद्रं सहसा अस्थाने बध्नीयात् स एवास्य समायभङ्गो भवति | यद् वज्रं तच्छूलम् | त्रिशूलवज्रयोर्विशेषो नास्ति | यदूर्ध्वं तद् वज्रधरस्य मुद्रा भवति | १६९, प्. ४१९) अधरस्ताच्च महेश्वरस्य | मध्ये आचार्यगुरुदक्षिणीयां सर्वेषा च मनुष्याणां एकाङ्गुलिमुच्छ्रिते सर्वेषा मनुष्याणां द्विपदचतुष्पदबहुपदापदविभवसंस्थितानां सत्त्वानां मुद्रा भवति | द्विरुच्छ्रितै सर्वेषां यक्षयक्षीणां मुद्रा भवति | त्रिमुच्छ्रितैः सर्वविद्याधरविद्याधरीणां मुद्रा भवति | चतुरुच्छ्रितैः समपाणितलविन्यस्तैः ससुरासुराङ्गनानां मुद्रा भवति | कृताञ्जलिविधिन्यस्तौ हस्तौ शोभनाकारसंस्थितौ सर्वेषां रूपाधचराणां देवानां मुद्रा भवति | तदेव हस्तौ आरूप्याधचराणां देवानां मुद्रा भवति | तदेव हस्तौ सुषिरसम्पुटाकारौ मुष्टिनिबन्धनौ कामधात्वेश्वरप्रभृतीनां सर्वेषां कामधातुस्थितानां सनरतिर्यक्प्रेतयमलौकिकानां सत्त्वानां मुद्रा भवति | तामेव मुद्रामेकमङ्गुलिमुत्सृज्य सर्वेषां पिशाचपिशाचीनां मुद्रा भवति | द्विमुत्सृतै राक्षसराक्षसीनां | त्रिमुत्सृतैः सर्वक्रव्यादादीनां ग्रहमातरकूष्माण्डादीनां पिशिताशिनां सर्वेषां च डाकिनीनां व्यन्तरादीनां च सकश्मलां चतुर्भिरङ्गुलीभिः सङ्कुचित्तैः सर्वकश्मलां मुद्रा भवति | मुद्रैराकृष्टैराकर्षणं मुद्रैरुत्क्षिप्तैर्विसर्जनम् | स्वचित्तेन सर्वकर्माणि कारयेत् || एभिरेव मुद्रैः यथेष्टतः स्वकं स्वकं मन्त्रं नियोजयेत् | नान्येषां नान्यकर्माणि कारयेत् | तस्मिं तस्मिं नियुञ्ज्याद् यस्मिं यस्मिं मन्त्रा भवन्ति | अनुल्लङ्घ्या ह्येते मुद्रा सर्वबुद्धैरधिष्ठिता | अशक्ता सर्वसत्त्वा वै मुद्रां दृष्ट्वापि कोपितुम् || मुद्रोलङ्घनाद् विनाशमाप्नुवन्ति | मुद्राणां विनाशात् समयभ्रंशः सर्वविद्याव्यतिक्रमश्च निष्ठायां रौरवे गतिः अवीच्यायां वा महानरकोपपत्तिः गाढतरमेवाप्नुवन्ति विघ्नकर्तारो | ये च मुद्रासमयमधितिष्ठन्ते तेषां चिरसौख्यमनल्पकं भवति महादिवौकसोपपत्तिश्च गतिनिष्ठायां नियतं बोधिपरायणो भवति | संक्षेपतो मुद्रा बहुप्रकारा प्रकाशिता आदिबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः | न शक्यमस्य पर्यन्तं गन्तुं सङ्घ्यागणनां वा कर्तुम् | सर्वसत्त्वैश्च उद्ग्रहीतुम् | संक्षेपतः जिनकुले विद्याराजचक्रवर्ति एकमक्षरं रक्षार्थं तस्य मुद्रा भवति || १७०, प्. ४२०) वामेतरस्य पूर्वं मुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुचे प्रसृतं कृत्वैकतः | उभयोरप्येकं पर्व कुञ्चये | तर्जनीयुगलं द्विपर्व कुञ्चितः अन्योन्यनखसंयुक्तं अङ्गुष्ठनखोपरि धारयेत् | एष चक्रवर्त्तिमुद्रा सर्वकर्मिका प्रवरा सर्वमन्त्राणां निर्दिष्टा लोकतायिभिः | पूर्वनिर्दिष्टेन एकाक्षरचक्रवर्त्तिना संयुक्ता सर्वकर्मिका भवति | अनेन साधितेन सर्वं तथागतकुलं सर्वाश्च लौकिकलोकोत्तराः मन्त्राः सिद्धा भवन्ति | अनेन जप्यमानेन सर्वमन्त्रा जप्ता भवन्ति || अन्यदवश्यं साधकेन पूर्वतः अस्मिं कल्पराजे प्रचोदिते मन्त्रवरे अष्टसहस्रं जापः कर्तव्यः | एवमेते सर्वविद्याः आमुखीभवन्ति आशु सिद्धिं प्रयच्छन्ति | क्षिप्रं च वरदा भवन्ति | नियतं बोधिपरायणः पद्मधरमुद्रायाः एकाक्षरावलोकितेश्वरहृदयेन संयुक्तः सर्वकर्मां करोति | पण्डरवासिन्या वा विद्यामुद्रेण वा संयुक्ता तथैव सर्वकर्मां करोति | वज्रधरस्य मुद्रया तस्यैव एकाक्षरहृदयेन संयुक्तः तथैव सर्वकर्मां करोति | मामक्या वा महाविद्यया || एवं राजकुले एकाक्षरराजगन्धबोधिसत्त्वहृदयेन एवं तेनैव मुद्रया मणिकुले यक्षकुले दिव्ये आर्ये तेष्विह एकाक्षरहृदयैः तेष्वेव मुद्रैः सर्वकर्माणि कर्तव्यानि | एवं सर्वत्र सर्वमुद्रैः सर्वमन्त्रैश्च सर्वकर्माणि कर्तव्यानि | यथायुक्तितः विद्यामन्त्रबलाधाना न्यसेत् | नान्यतः कर्माणि कर्तव्यानि || एवं दक्षिणकरविन्यस्तं स्वस्त्योद्यतः ब्राह्मणस्य सहाम्पतेः एकलिङ्गमुद्राया महेश्वरस्य चक्रमुद्राया विष्णोः अञ्जलिराकोशविरलविन्यस्तः गरुत्मनः एवं ऋषीणां शापोद्यतहस्तमुद्रं एवं गन्धर्वाणां ससुरासुराणां वामहस्तमङ्गुष्ठमभ्यन्तरीकृतमुखमुपदर्शनमष्टिस्थितं चतुःकुमार्यमुद्रा तेनैव मन्त्रेण एवं कार्तिकेयस्य शक्तिमुद्रया एवं यमवरुणकुबेरयक्षराक्षसपिशाचमहोरगादीनां सर्वेषां त्रिभवसंस्थितानां सत्त्वानां सर्वगतिपर्यापन्नानां सत्त्वधातुसन्निःश्रितानां सर्वेषां ग्रहमातरक्रव्यादकश्मलादीनां सत्त्वानां सर्वतः सर्वेषां मुद्रान्युक्तानि | मन्त्राश्चैव सर्वतः नियुज्यानुपूर्वशः क्रमशः सर्वं भवति नान्यतः || १७१, प्. ४२१) आदौ तावत् साधकेन अस्मिन् कल्पराजे तथागतगतिः शुभा महामुद्रा मन्त्राश्च तदङ्गा निश्रिता आर्यसमन्तभद्रमहास्थानप्राप्तविमलगतेः त्वदीया मञ्जुश्री उत्पलमुद्रा एतेषां च बोधिसत्त्वानां च मुद्रा अवश्यं साधकेन पूर्वाभिमुखस्थितेन आदित्याभिमुखेन प्रातरुत्थाय शुचिना शुचिस्थानस्थितेन एतेषां मुद्राणामन्यतरं बध्वा आत्मशिरस्योपरि क्षिपेदूर्ध्वम् | एतेषामन्यतमं च मन्त्रं जपेदष्टशतम् | सर्वव्याधिविनिर्मुक्तो भवति | दीर्घायुषः सर्वविघ्नैश्च नाभिभूयते | सर्वसत्त्वानामधृष्यो भवति | सर्वमन्त्राश्चाभिमुखीभवन्ति | आशु सिद्धिं प्रयच्छन्ति | सर्वबुद्धैश्चाधिष्ठितो भवति | नियतं बोधिपरायणो भवति | मञ्जुश्री कुमारभूतश्चास्य कल्याणमित्रो भवति यावदाबोधिमण्डात् | कतमा च ते मुद्रा मन्त्राश्च भवन्ति || आदौ तावन्महावीरमुद्रा वक्ष्यते | हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिमङ्गुष्ठमुन्नतौ पर्वतृतीयभागाकुञ्चितौ एषा महावीरमुद्रा सर्वतथागतैर्भाषिता | मन्त्रं चात्र भवति - आः वीर हूं खः | अनेन मन्त्रेण संयुक्तः मुद्रोऽयं सर्वकर्मकृत् || तदेव हस्तद्वयं सम्पुटं कृत्वा भूयो विकसितमङ्गुलीभिः समन्ततो विकसितां वज्राकारम् एषा विकासिनी नाम मुद्रा वरा आदिबुद्धैः प्रकाशिता | मन्त्रं चात्र भवति - ओं गगनसम्भवे दीप्त दीप्त ज्वालय ज्वालय बुद्धाधिष्ठिते विकाशय विकाशय सर्वबुद्धान् | हूं हूं विकासिनि फट् फट् स्वाहा | एषा विकासिनी मुद्रा | अनेन मुद्रेण संयुक्ता सर्वकर्मिका भवति | ग्रहाविष्टानां प्रज्ञापयति | जल्पापयति ग्रहगृहीतां क्रव्याअकश्मलगृहीतानां विषमूर्छितानां वा यथा यथा प्रयुज्यते तथा तथा तत् सर्वं करोति | एष संक्षेपतः सर्वार्थसंसाधनी विद्याविकासिन्या मुद्रया युक्ता असिद्धा च क्षिप्रमर्थं करोति || हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिसमं कारयेत् हृदयमुद्रा | हृदयं सप्तवारां हृदयमभिमन्त्र्य मोक्तव्या | एवं सर्वत्र | मन्त्रं चात्र भवति - ओं गोदरे वीर स्वाहा | तथागतहृदय || १७२, प्. ४२२) तदेव हस्त सम्पुटं विच्छुरिताङ्गुलिमन्योन्यसर्वाग्राङ्गुलिमध्ये सुषिरा उष्णीषमुद्रा | मन्त्रं चात्र भवति - ओं द्रों बन्ध स्वाहा | एष सर्वकर्मिकः || दक्षिणहस्तेनाङ्गुष्ठं मुक्तं मुष्टिं वध्वा खकरकमुद्रा | मन्त्रं चात्र भवति - ओं धुनाजितरण हूं | खखरकमन्त्रा सर्वकर्मिकः || अनेनैव मुद्रया संयुक्त वामं चीवरसंसक्तं कृत्वा चीवरमुद्रा | मन्त्रं चात्र भवति - ओं रक्ष रक्ष सर्वबुद्धाधिष्ठितात्मचीवर स्वाहा | तथागतचीवरः | अनेनैव मुद्रेण सर्वकर्मां करोति | चीवरं चास्याभिमन्त्र्य प्रावरेत् सुभगो भवति | महारक्षा कृता भवति | सर्वग्रहमातरपिशिताशिनक्रव्यादसकश्मला सर्वविघ्नाश्च दृष्टमात्रा प्रपलायन्ते || वामाङ्गुष्ठदक्षिणकनिष्ठिकान्योन्यासक्तौ कृत्वाधः हस्तसम्पुटाधारः पात्रमुद्रा | मन्त्रं चात्र भवति - ओं लोकपालाधिष्ठित धर धारय महानुभाव बुद्धपात्र स्वाहा | अनेनैव मुद्रेणायं मन्त्रः संयुक्ता सर्वकर्मिकाः भोजनकाले स्मर्तव्यः | सर्वगरविषा न प्रभवन्ति || करयुगावनद्धमुष्टौ तर्जन्यौ मध्यकुञ्चितौ | एषा सा चिन्तामणिमुद्रा | मन्त्रं चात्र भवति - ओं तेजो ज्वल सर्वार्थसाधक सिध्य सिध्य चिन्तामणिरत्न हूं | चिन्तामणिरत्नम् | अनेनैव मुद्रेण संयुक्तो सर्वकर्मकरं शुभम् | अनेन चाभिमन्त्र्य सर्वाभरणालङ्कारविशेषां आबन्धीत चात्मनो महारक्षा कृता भवति | परमसुभगश्च भवति | स्वयमलङ्कृत्य धर्मं चाभिमन्त्र्य सङ्ग्राममवतरेन्न चास्य काये शस्त्रं निपतति | अधृष्यो भवति सर्वशत्रूणाम् | स्वसैन्यं पालयते | परसैन्यं चाक्रामति || एवमादीनि कर्माणि अपरिमाणानि असिद्ध एव करोति | पद्मरागमरकतादीनामन्यतम रत्नविशेषं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा ध्वजाग्रे आत्मनो शिरसि वा हस्तिस्कन्धे वा सङ्ग्रामशीर्षेणावतीर्णोनाबन्धयितव्यम् | नियतं परसैन्यमयुद्धेनैव दृष्ट्वा भङ्गमुपजायते | महास्तम्भितत्वं वा भवति | भग्नसैन्या वा प्रपलायन्तेऽधिपतिस्तेषाम् || १७३, प्. ४२३) अन्योन्यासक्ताङ्गुलिमुष्टिं कृत्वा मध्यमाङ्गुलिस्थाने तयोस्तृतीयपर्वभागे मध्यकुञ्चिते तर्जन्योन्य स एषा धर्मचक्रमुद्रा | मन्त्रं चात्र भवति - ओं छिन्द भिन्द हन दह दीप्त चक्र हूं | धर्मचक्र || वामपादमुक्तट्कदक्षिणजानुभूमिस्थं वामेन पृष्ठतः प्रसारिते प्रहारहस्तेन दक्षिणेनाहुङ्कृतेन सावष्टम्भः | एषा अपराजितमुद्रा | मन्त्रं चात्र भवति - ओं हुलु हुलु चण्डालि मातङ्गि स्वाहा | अपराजिता धर्मचक्रापराजितमन्त्रः | एभिरेव मुद्रैः संयुक्तैः सर्वकर्मिका भवति | संक्षेपतः सर्वदुःखानि छिन्दति | यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि कुर्वन्ति || वेण्योत्सङ्गे तथैव हस्तं कृत्वा दक्षिणेन धर्मदेशनाहस्तेन तथागतशक्तिमुद्रा भवति | मन्त्रं चात्र भवति - ओं विजये महाशक्ति दुर्धरि हूं फट् विजयिनि फट् मङ्गले फट् | तथागतशक्तिः | अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति | सर्वविघ्नां सर्वदुष्टां सर्वशत्रूं सर्वदेवांश्च स्तम्भयति | एषा अपर्यन्तगुणा यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति || तथैव हस्तौ परस्पराङ्गुलिरुत्तानौ करौ तर्जन्याग्रौ सूच्याकारेण मीलितौ विपर्यस्तमधोमुखं ललाटे न्यसेत् | एषा ऊर्णामुद्रा बुद्धानां भगवतामादिबुद्धैः प्रकाशिता | मन्त्रं चात्र भवति - नमः सर्वतथागतेभ्योऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यः | हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्ध ऊर्णामणि स्वाहा | तथागतोर्णामन्त्रः | अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति | गोरोचनया ललाटे तिलकं कृत्वा जपता शत्रुमध्येऽवतरेत् | अधृष्यो भवति | सर्वदुष्टैश्च न हिंसते | सङ्ग्राममध्यं वा अवतरेत् | परसेनाभङ्गं दृष्ट्वा करोति | नादृष्ट्वा अपरिमाणां कर्मां करोति | अपरिमाणैश्च बुद्धैर्बह्गवद्भिर्भाषिता || अञ्जलि निरन्तरमन्योन्यासक्तां कृत्वा तर्जन्यान्योन्यमध्यकुञ्चितौ अङ्गुष्ठोङ्गुष्ठौ | एषा तथागतलोचना मुद्रा | मन्त्रं चात्र भवति - ओं रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा | १७४, प्. ४२४) एषा तथागतलोचना मन्त्रा अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति | अक्षीण्यभिमन्त्र्य शत्रुमध्यमवतरेत् | दृष्टमात्रा विगतरोषा भवन्ति | मैत्रचित्ता हितैषिणो भवन्ति | मित्रत्वमधिगच्छन्ति | सङ्ग्रामशीर्षो वा अक्षिणी मभिमन्त्र्य परसेनां निरीक्षयेत् सौम्यचित्ता भवन्ति | न प्रतिप्रहरसमर्था अयुद्धेनैव निवर्तन्ति | साहाययं तावत् प्रतिपद्यन्ते || उभौ हस्तौ तथैव पुस्तकाकाराङ्गुलिरचितौ अन्योन्याग्राश्लिष्टौ तिर्यक् स्थितौ | एषा प्रज्ञापारमिता मुद्रा | मन्त्रं चात्र भवति - नमो भगवति चारुदर्शने ओं थ | एषा भगवती प्रज्ञापारमिता अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति | मन्त्रं जप्ता हृदयं परामृशेत् स्मृतिमां भवति | दुष्टारिमध्ये जपं कुर्वन् तेषां चित्तमपहरति | सङ्ग्राममध्ये वा द्विपदचतुष्पदादीं सत्त्वां प्रत्यर्थिकां विमोहयति | चित्तविक्षेपं वा करोति संक्षेपतः | एषा भगवती यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति | संक्षेपतः अपर्यन्तगुणा अपर्यन्तं चास्य कल्पं भवति | अपर्यन्तास्तथागतानां मुद्रा मन्त्राश्च भवन्ति | यथा सन्निपातपरिवर्ती चोक्तं तथागतानां परिवाराः तेऽत्र सर्वे मुद्रा मन्त्राश्च प्रयोक्तव्या | अन्यत्र चासङ्ख्येयानि कल्पानि भवन्ति | मुद्रा मन्त्राश्च तेऽस्मिं कल्पराजे नियोक्तव्या || एवं पद्मकुले पद्ममुद्रेण सहिता | मन्त्रं भवति - ओं जिः जिः जिनाङ्गभृद्भयभेदिने स्वाहा | एष मन्त्र अवलोकितेश्वरस्य बोधिसत्त्वस्य पद्ममुद्रया संयुक्तं सर्वकर्मिकं भवति | अनेन जप्तेन सर्वं पद्मकुलं जप्तं भवति | अनेन सिद्धेन सर्वं पद्मकुलं सिद्धं भवति | पण्डरवासिन्या वा महाविद्यया | मन्त्रं चात्र भवति - ओं कटे विकटे निकटे कटङ्कटे कटविकटकटङ्कटे स्वाहा | मुद्रेणैव योजयेत् पद्ममुद्रेण वा सर्वकर्मिका भवति | रक्षा च कर्तव्या सर्वश्मशानगतेन || एवं तारा भ्रुकुटी चन्द्रा हयग्रीवस्येति विद्याराजसन्निपातपरिवर्ते वा ये कथिताः सर्वमसङ्ख्यं चा पद्मकुलं प्रयोक्तव्यम् मुद्रा मन्त्रैश्च कल्पविस्तरैः || एवं ध्वजकुल उभयवज्रमुद्रसहितम् | मन्त्रं चात्र भवति - हूं | एष वज्रपाणेः साक्षादनेन साधितेन सर्वं वज्रकुलं सिद्धं भवति | १७५, प्. ४२५) अनेन जप्तेन सर्वं जप्तं भवति | उभयवज्रमुद्रासंयुक्तेन पूर्वनिर्दिष्टेन साधकेच्छया सर्वकर्माणि करोति | विरुद्धान्यपि जिनवरैः सत्त्ववैनेयवशात् | अतिक्रूरतरोऽयं महायक्ष मामक्या वा कुलन्धर्या महाविद्यायाः सर्वकर्माणि करोति | मन्त्रं चात्र भवति - ओं कुलन्धरि बन्ध बन्ध हुं फट् | एषा सर्वकर्मिका मामकी नाम महाविद्या सर्वबुद्धैर्निर्दिष्टा पूर्वप्रयुक्तेन मुद्रेण मामक्याया महाविद्यया संयुक्ता सर्वकर्मिका भवति | साधकेच्छाया निदानपरिवर्ति पूर्वनिर्दिष्टे वज्रपाणिपरिवारेण सर्वं वाशेषं वज्रिकुलं मुद्रामन्त्रमन्त्रसंयोगैश्चात्र प्रयोक्तव्यम् || एवं राजकुले गजगन्धस्य बोधिसत्त्वस्य मन्त्रं भवति - ओं गजाह्वये हूं खचरे स्वाहा | पूर्वनिर्दिष्टेन मुद्रेण संयुक्तः सर्वकर्मिकः | एवं पूर्ववत् सर्वं गजकुलः सिद्धो भवति || एवं समन्तभद्रस्य मन्त्रः - ओं समासमजिनसुत मा विलम्ब हूं फट् || महास्थानप्राप्तस्य मन्त्रः - तिष्ठ तिष्ठ महास्थाने गतबोधः समयमनुस्मर हूं फट् फट् स्वाहा || विमलगते मन्त्रः - ओं विमले विमले विमल मुहूर्तं धक धक समयमनुस्मर स्वाहा || गगनगञ्जस्य मन्त्रः सर्वबोधिसत्त्वस्य मुद्रसंयुक्तः सर्वकर्मिको भवति | एषमपायजहसदाप्ररुदितक्षितिगर्भरत्नपाणिमैत्रेयप्रभृतीनां दशभूमिमनुप्राप्तानां सर्वमहाबोधिसत्त्वानामसङ्ख्येयानां मुद्रा मन्त्राश्चासङ्ख्येया भवन्ति | तस्मिं कल्पराजे नियोक्तव्यानि भवन्ति | सविस्तरता सर्वलौकिकलोकोत्तरोत्तरता सर्वलौकिकाश्च सर्वमन्त्रमुद्राकल्पविस्तरो महासमयासमयमनुप्रविष्टा सर्वकल्पविकल्पा त इह कथितानि साध्याश्च ते इह सर्वमन्त्राः || एवं मणिकुलयक्षकुलदिव्यार्यकुलेष्वपि प्रयोक्तव्यानि | सर्वतन्त्रमन्त्रमुद्राश्च त्र्यध्वाश्रिता एक एव कुलं भवति नान्यं यदुत तथागतकुलम् | त्वं च मञ्जुश्रीः ! कुमार ! तथागतकुले द्रष्टव्यः | सर्वबुद्धबोधिसत्त्वार्यऽऽरावकप्रत्येकबुद्धाः सर्वाश्च लौकिकलोकोत्तराः साश्रवानाश्रवमन्त्रा मुद्राविकल्पास्तथागतकुलानि प्रविष्टा इति धारय | १७६, प्. ४२६) न तद् विद्यते मञ्जुश्रीः ! सर्वविमुद्रातन्त्रमन्त्ररहस्यं यस्तथागतकुले तथागतसमये अनुप्रविष्टः | प्रविष्टमेव मञ्जुश्रीः ! कुमार ! धारय | यस्मात् तथागत अग्रमाख्यायते तस्मात् तथागतकुलं अग्रमाख्यायते | एवं तर्हि मञ्जुश्रीः ! अयं कल्पराजा अयं च कुलाग्ररत्नः आदिमद्भिर्युद्धैः प्रकाशितं देशितं प्रस्थापितं विवृण्वीकृतम् भगवां संकुसुमितराजेन भगवता शालराजेन्द्रेण भगवता सङ्कुसुमितगन्धोत्तमराजेन भगवता रत्नकेतुना भगवता अमिताभेन भगवता पुण्याभेन कुसुमोत्तमेन सङ्कुसुमेन सुपुष्पेण अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण कनकमुनिना काश्यपेन क्रकुत्सन्देन शिखिनाविश्वभुवा भगवता कोनाकमुनिना मयाप्येतर्हि शाक्यमुनिना प्रकाशितवां प्रकाशिष्यन्ते च || एवमेतद् बुद्धपरम्परायातं अयं तव मञ्जुश्रीः ! कुमार ! कल्पराजा तथागतकुलाग्ररत्नभूतं महानुशंसं नियतं धर्मधातुनिश्रितं न शक्यमस्यानुशंसं कल्पसहस्रेणापि कथयितुं महागुणविस्तारा विस्तरशः कथयितुम् | दृष्टधर्मवेदनीयाः साम्परायिकबोधिपरायणाश्च वक्तुं सर्वसत्त्वैर्वा श्रोतुम् | त्वत्सदृशैरेवमस्यापरिमाणा महागुणविस्तारफलोदया दृष्टधार्मिकसाम्परायिकाश्च भवन्ति | यः कश्चित् श्राद्धे अविचिकित्सः धारयेद् वाचये स्मिं तन्त्रेऽभियुक्तो विकल्पतः मन्त्रं साधये जपेद् वापि मुद्रां वापि बध्नीयात् सतताभियुक्तश्च भवेत् | स दृष्ट एव धर्मैरष्टौ गुणानुशंसां प्रतिलभते | अस्खलितश्च भवति सर्वप्रत्यर्थिकैः | अपितु भयं चास्य न भवति | विषं चास्य काये नाक्रामति | शस्त्रं चास्य काये न पतति | बुद्धबोधिसत्त्वैश्चाधिष्ठितो भवति | दीर्घायुः सुखमेधावी भवति | मञ्जुश्रियश्चास्य कुमारभूतः कल्याणमित्रो भवति | रात्रौ वास्य प्रत्ययं स्वप्ने दर्शनं ददाति | सर्वमन्त्राश्चैनं रक्षन्ते | मुद्रां चास्य स्वप्ने कथयन्ति | दुष्टराष्ट्रं दुष्टसत्त्वानां चाहितैषिणामवध्यो भवति | नियतं बोधिपरायणः || इमेऽष्टानुशंसा श्राद्धस्याविचिकित्सतोऽभियुक्तस्य द्रष्टव्याः | गृहेणो वा प्रव्रजितस्य वा स्त्रियस्य वा पुरुषस्य वा महासत्त्वानां शासनोपकारिणाम् | नान्येषां पापकर्मप्रवृत्तानां विपर्यस्तमधस्ताद् भवति रौरवादिषु | १७७, प्. ४२७) यदुक्तं पूर्वाह्ने मुद्राबन्धः दीर्घायुष्यता जयेति | तथागतमन्त्रपरिवारेण हृदयोष्णीपाद्यालोचनाद्याः मुद्राः सत्कर्तव्यम् | मञ्जुश्रियः कुमार ! त्वदीयमुद्रामन्त्रैर्वा तुल्यवीर्या ह्येते तुल्यप्रभावा | यदुक्तं शुचिना शुचिवस्थानस्थितेनेति | स्थानं मध्यं भूप्रदेशं अशल्योपरुद्धं अपतितगोमयोपलिप्तं सुगन्धशुक्लपुष्पाभिकीर्णम् | तत्र स्थितः मन्त्रं जपे | मुद्रां बध्नीयात् | नान्यत्र नान्येषामन्यतरमेकं जपेन्मुद्रसहितम् || यदुक्तं शुचिनेति अस्तं गते भानोः स्नायीत शुचिना जलेन निःप्राणकेन प्रत्यग्राम्बरनिवासी उष्णीषकृतरक्षः | ग्राम्यधर्मविवर्जी शुचिचौक्षरक्षरतः शुभ || उष्णीषकृतरक्षा वै श्चक्रबन्धानुवर्तिनः | ध्यात्वा तथागतां तत्र स्वप्ने यामविनिर्गते || कन्याकर्तितसूत्रेण ब्राह्मण्या वा अरतिसम्भवाया गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा अनेन मन्त्रेण - ओं हर हर बन्ध बन्ध शुक्रधारणि सिद्धार्थे स्वाहा - मामक्यया मुद्रासंयुक्ता मन्त्रं जपेत् | ततः सूत्रकं कट्यां बन्धयेत् | त्रिगुणपरिवेष्टितं कृत्वा शुक्रबन्धः कृतो भवति | कामधात्वेश्वरोऽपि शक्तः स्वप्ने मनोविघातमुत्पादयितुम् | किं पुनः स्वप्नविनायकाः | विधिना नाविधिना सरागस्य न वीतरागस्य कामधात्वेश्वरस्यापि ऋषिणो दुहितरश्च अशक्ता मनोविघातमुत्पादयितुं विविधरूपधारिण्यः रागिणाम् | किं पुनः तदन्यः स्त्रियः मानुषामानुषोद्भवाः || एवं विधिना प्रातरुत्थाय विसर्ज्य दन्तधावनं मुखं प्रक्षाल्य शुचिना जलेन स्नात्वा निःष्प्राणके विमलोदकेन पूर्ववद् विधिना पूर्वाभिमुखस्थितेन मुद्रां बन्धीयात् | मन्त्रांश्च जपेत् | दीर्घायुषो भवति सर्वकर्मसमर्थः | महाव्याधिभिर्मुच्यते | सर्वजनप्रियो भवति | अमित्राणां प्रत्यङ्गिरमुपजायते | दृष्टमात्राश्च सर्वग्रहक्रव्यादकश्मलादयः प्रपलायन्ते | परबलं स्तम्भयति | दर्शनमात्रेणैव सर्वकर्मां करोति शुचिनाशुचिना विधानेनाविधानेन || १७८, प्. ४२८) एवमस्य असङ्ख्येया मुद्रामन्त्रगणपरिवृतोऽयं कल्पराजा | असङ्ख्येयैश्च बुद्धैर्भगवाद्भिर्भाषिता भाषिष्यन्ते च | मयाप्येतर्हि शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितो महता पर्षन्मण्डलमध्ये | त्वमपि कुमार ! मञ्जुश्रीः ! सन्नियुक्तोऽयं शासनपरिसंरक्षणार्थं धर्मधातुचिरसंरक्षणार्थं च मयि परिनिर्वृते धर्मकोटिनिश्रिते भूतकोटिपर्यवसाने शान्तीभूते महाकरुणावर्जितमानसेन सत्त्वानां हितार्थाय भाषितोऽयं मया युगान्ते महाभैरवे काले वर्तमाने रत्नत्रयापकारिणां दुष्टराज्ञां दुष्टसत्त्वानां च निवारणार्थाय विनयनार्थाय च भाषितोऽयं कल्पराजा विस्तरविभागशः सर्वसत्त्वानामर्थायेति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चत्रिंशतिमः मन्त्रमुद्रानियमकर्मविधिपटलविसरः परिसमाप्त इति || १७९, प्. ४२९) अथाष्टात्रिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्यं मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु मञ्जुश्रीः ! संक्षेपतः मुद्राणां लक्षणं मन्त्राणां च सविस्तरम् | संक्षेपतश्च मण्डलानां विधिः समयानुवर्तनम् || * * * * * * * * (?) मुद्रास्थानं च तेषु वै | सरहस्यं सर्वमन्त्राणां सर्वमन्त्रेषु मण्डलम् || एतत् सर्वं पुरा प्रोक्तं सर्वबुद्धैर्महर्द्धिकैः | मन्त्राणां गतिमाहात्म्यं कथितं सर्वकुलेष्वपि || आदिमद्भिः पुरा बुद्धैः सत्त्वानां हितकारणात् | प्रवर्त्य मन्त्रचक्रश्च धर्मचक्रमनुत्तरम् || शान्तिचक्रानुगा याता भूतकोटिं समाशृताः | शान्तिं जगाम सर्वे ते बुद्धा लोकमहर्द्धिका || एतत् सर्वं पुरा ख्यातमादिमद्भिस्तथागतैः | अहमप्यपश्चिमे लोके देशेयं त्वयि मञ्जुश्रधीः || एतत् कृत्वा तदा वाच्यं बुद्धस्येदं महाद्युतेः | कुमारो मञ्जुघोषो वै प्राञ्जलिं कृतमग्रतः || उवाच वदतां श्रेष्ठं सम्बुद्धं द्विपदोत्तमम् | वदस्व धर्मं महाप्राज्ञ ! लोकानां हितकारणम् || संक्षेपार्थमविस्तारं गुणमाहात्म्यफलोदयम् | एवमुक्तस्तु मञ्जुश्रीस्तूष्णीम्भूतस्तस्थुरे || अथ ब्रह्मेश्वरः श्रीमां कलविङ्करुतस्वनः | कथयामास तत् सर्वं मुद्रामण्डलसंस्थितम् || मन्त्रं तन्त्रं तदा काले शुद्धावासोपरि स्थितो | कथयामास सम्बुद्धः शाक्यसिंहो नरोत्तमः || शृणु त्वं कुमार ! मञ्जुश्रीः ! मुद्राणां विधिसम्भवम् | मन्त्राणां तन्त्रयुक्तीनां गुणमाहात्म्यविस्तरम् || १८०, प्. ४३०) आदौ सर्वतथाचिह्नं सत्त्वासत्त्व यथा च तम् | आकारं चरितं चेष्टा सर्वमिङ्गितभाषितम् || द्विहस्तपादयोर्मूर्ध्ना एकहस्ताङ्गुलयोजना | सर्वं तं मुद्रमिति प्रोक्तं आदिबुद्धैः पुरातनैः || कलशं छत्रं तथा पद्मं ध्वज पताकं तथैव च | मत्स्य वज्र तथा शङ्खः कुम्भश्चक्रस्तथैव च || विविधा प्रहरणा लोके यावन्तस्ते परिकीर्तिता | उत्पलाकारमुद्रं च सर्वे ते मुद्रानुमण्डले || अनुपूर्वमिह स्थिता तथैते विधियुक्तमुदाहृता | सदृशाकारस्वरूपेण सर्वासां चैव लिखेत् सदा || मण्डले मुद्रमित्युक्त्वा सामान्येष्वेव सर्वतः | यथास्थानसुविन्यस्तं मुद्रास्ते परिकीर्तिताः || मण्डलेष्वेव सर्वेषु स्वाकारं चैव योजयेत् | चक्रवर्ती तथा चक्रं उष्णीषे सितमुद्भवे || सितातपत्रं मुख्येन मण्डले तु समालिखेत् | बुद्धानां धर्मचक्रं वै पद्मं पद्मकुले तथा || वज्रं वज्रकुले प्रोक्तं गजं गजकुलोद्भवे | तथा मणिकुले कुम्भं नियुज्यात् सर्वमण्डले || दिव्यार्यौ च कुलौ मुख्यौ श्रीवत्सस्वस्तिकौ लिखेत् | आलिखेद् यक्षकुले श्रेष्ठे फलं फलजसम्भवम् || महाब्रह्मे हंसमालिख्य शक्रस्यापि सवज्रकम् | महेश्वरस्य लिखेच्छूलं वृषं चापि समालिखेत् || त्रिशूलं पट्टिशं चापि स्कन्दस्यापि सशक्तिकम् | विष्णोश्चक्रमालिख्य गदांश्चापि सदानवाम् || नानाप्रहरणा देवा विविधासनसम्भवाम् | याना च विविधाश्चापि तेषां मध्यं लिखेत् सदा || १८१, प्. ४३१) सरूपसंक्रान्तिप्रतिबिम्बं यथास्थितम् | एषामन्यतरं ह्येकं लिखेत् सर्वत्र म.डले || एकद्विकसमायुक्ता तृप्रभृत्यमसङ्ख्यका | मण्डला जिनवरैः प्रोक्ता वेदिकापङ्क्तितत्समा || यदोद्दिश्य मण्डलं प्रोक्तं तं मध्ये तु निवेशयेत् | आलिखेज्जिनकुले गर्भे बुद्धं वापि सुमध्यमे || अभ्यन्तरस्थं तदा बिम्बं शास्तुनो चापि मालिखेत् | द्वितीयं पद्मकुले न्यस्तं तृतीयं वज्रकुलं लिखेत् || एवं सर्व तदालिख्य अनुपूर्व्या सुरासुराम् | सर्वभूम्यां ततः पश्चाद् यक्षराक्षसमानुषाम् || तीर्थिकानां ततो लिख्य अनुपूर्व्या यथास्थितम् | दिक्पालां च तथालिख्य सर्वांश्चैव विविधागताम् || संक्षेपादेकबिन्दुस्तु द्विप्रभृत्यमसङ्ख्यकाम् | आलिखेन्मण्डलं यावदुपर्यन्तं दिशमाशृतम् || अप्रमेय तदा प्रोक्ता क्ष्मातलो मण्डलेऽस्य वै | एकबिन्दुप्रभृत्यादि अपर्यन्ते वसुधातले || मण्डलस्य विधि. ह्प्रोक्तो निर्दिष्टं त्रिविधस्य तु | उत्तमं मध्यमं चैव कन्यसं चैव कीर्तितम् || उत्तमे उत्तमा सिद्धिर्मध्यमे मध्य उदाहृतम् | कन्यसे क्षुद्रसिद्धिस्तु कथितं जिनवरैः पुरा || त्रिधा सर्वे मनोभिश्च सिद्धिरुक्ता जिनोत्तमैः | महासत्त्वैर्महासिद्धिर्मध्यसत्त्वे तु मध्यमा || तृतीया क्षुद्रजन्तूनां क्षुद्रकर्म उदाहृतम् | चित्तं प्रसादे बुद्धत्वं उत्तमे सफलोदयम् || नियतं प्राप्यते सत्त्वो मण्डलादर्शनेन वै | मध्यचित्तस्तदा काले प्रत्येकं बोधिमाप्नुयात् || १८२, प्. ४३२) इतरे नियतं प्रोक्तां श्रावकत्वमनादरात् | अवन्ध्यं फलमाहात्म्यं गतिशान्ति उदाहृतम् || मण्डलादर्शनस्वर्गं नियतं तस्य भविष्यति | एव मुद्रवरां सर्वां मन्त्राश्चैव सविस्तराम् || नियुक्तास्त्रिविधाश्चैव त्रिःप्रकारा सुखावहा | मुद्रा मण्डला प्रोक्ता मन्त्राणां कथ्यते हितम् || एकाक्षरप्रभृत्यादि यावत्सङ्ख्यं प्रमाणतः | कथिता वचना मन्त्रे यावन्त्यस्ता प्रकीर्तिताः || वाक्प्रलापां रुदितं हसितं क्रन्दितं तथा | सर्वजल्पप्रजल्पं वा सर्वमन्त्रहितं भवेत् || त्रिविधा ते च मन्त्राश्च त्रिप्रकारा समोदिता | यथैव मण्डले ख्यातः मुद्रामन्त्रेषु वै तथा || विधिरेषा समायुक्ता निर्दिष्टा लोकनायकैः | तथैव तत् त्रिधा याति अनेकधा चापि सहस्रधा || त्रिविधं त्रिःप्रकारं तु त्रिधा चैवमसङ्ख्यकाः | चित्तायतं हि मन्त्रं वै न मन्त्रं चित्तवर्जितम् || चित्तमन्त्रसमायुक्तः संयुक्तः साधयिष्यति | तथागतकुले ये मन्त्रा ये च पद्मकुले तथा || ये च पद्मकुले गीता कुलेष्वेव च मापरैः | सलौकिका सर्वमन्त्रा वै सर्वे त इह निःसृताः || जिने जिनसुतैर्यो मन्त्रो भाषितैः सत्त्वकारणात् | तां जपेद् योऽभियुक्तश्च नियतं बुद्धो हि सो भवेत् || मध्यस्था ये तु मन्त्रा वै तं जपेद् योऽभिजापिनः | प्रत्येकबुद्ध आख्यातो नियतं तस्य गोत्रतः || येऽन्यमन्त्रे प्रवृत्ता वै प्रत्येकार्हभाषितैः | सलौकिकैश्च सत्त्वे वै अभियुक्तो मन्त्रजापिनः || १८३, प्. ४३३) स भवेन्नियतं गोत्रस्थो श्रावकाणां महर्द्धिकाम् | तत्रापि कर्म प्रयोक्तव्यः उत्कृष्टेऽधममध्यमे || शान्तिके बुद्धबोधिः स्यात् पौष्टिके वापि खड्गिनाम् | इतरैः क्षुद्रमन्त्रैस्तु श्रावको बोधिमुच्यते || तत्रापि चित्तं द्रष्टव्यं तत् त्रिधा परिभिद्यते | पुनश्च भिद्यते बहुधा असङ्ख्यं चापि भेदत इति || आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्त्रिंशतिमः मुद्रामण्डलतन्त्रसर्वकर्मविधिपटलविसरः परिसमाप्त इति | १८४, प्. ४३४) अथैकोनचत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वांश्च लोकधातुं बुद्धचक्षुषा सर्वसत्त्वानामवलोक्य पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीयमन्त्रतन्त्रमुद्रापटलविसरे सर्वलौकिकलोकोत्तरसमयमण्डलानुप्रविष्टे सामान्याविधानचर्यानिर्हारे समनुप्रवेशसत्त्वामाश्रये अचिन्त्याचेष्टित सर्वमन्त्राणां सर्वमुद्राणां सर्वमण्डलानां सर्वसत्त्वानां सर्वमन्त्रानुप्रविष्टानां निधाननिर्देशचर्या समासतो व्याचक्षते | तच्छूयताम् || अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्वः भगवतश्चरणयोर्निपत्य अध्येषयति स्म | अध्येषयतु मे सुगतः अस्माकमनुकम्पायै लोकस्यानुग्रहाय | तद् भविष्यति महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै | तद् वदतु मे सुगत ! सर्वमन्त्राणां जपहोम- आप्यायनपूजननियमस्र्वतन्त्रमुद्रेषु समयप्रवेशानुनिगमसाधनोपयिकविधानं सर्वमण्डलेषु सर्वलौकिकलोकोत्तरविधिविशेषणोपयिकपटलविसरम् || एवमुक्ते भगवां मञ्जुभाणी तदन्तरमभूत् सर्वज्ञ वान्यं तूष्णीं तस्थौ तदन्तरम् || तुष्टः मञ्जुरवो धीरः सुगतज्ञ प्रतीच्छयम् | सर्वबुद्धाश्च सर्वत्र सर्वधातुसमागता || बोधिसत्त्वास्तु सर्वे वै सर्वश्रावकखड्गिणः | सर्वसत्त्वा त्रिधा ये च अनादिभवचक्रके || निबद्धा योनिजा ये च गतिपञ्चसुयोजिता | सर्वभूतगणाध्यक्षा राक्षसोरगमानुषा || दैत्यदानवयक्षाश्च कूष्माण्डकटपूतना | देवमुख्या गणाध्यक्षा मातराश्च महर्द्धिकाः || सर्वे ग्रहगणा लोके चन्द्रसूर्यौ परेस्तथा | ब्रह्मेन्द्रधनदा रुद्रा विष्णुस्कन्दविरूढका || १८५, प्. ४३५) धृतराष्ट्रकुबेराश्च सर्वे वै वसवस्तथा | सर्वभूताश्च सर्वत्र सत्त्वधातुसमाश्रिताः || शुभाशुभफलैः कर्मैः निबद्धा गतिसूत्रके | मुक्तामुक्तश्च सर्वत्र आगता समये स्थिताः || बुद्धाधिष्ठानबला ऋद्ध्या शृण्वन्तेह त्रिधा स्थिताः | शुभयोनिजसम्भूता अशुभैश्चैव स्वकर्मभिः || शृण्वन्ते सर्वबुद्धा वै शुद्धावासपुरे तदा | तदा धर्मं सौगतं चार्यं अग्रधर्मशुभोदयम् || मन्त्रमुद्रत्रिधायुक्तं नियतं चापि कीर्तितम् | क्षेमं शिवतमं मार्गं आर्याष्टाङ्गिकं तदा || त्रिधा कर्मपथं श्रेष्ठं निर्वाणपुरगामिनम् | दानशील तदा ध्यानं तृधा मार्गोपदेशितम् || भगवानुवाच सर्वज्ञ मन्त्रमार्गाङ्गप्रवर्तनम् | ईषस्मितमुखो धीर मञ्जुघोषं निरीक्ष च || वाक्यं च शुभया युक्तं इदं ब्रह्मरवो तदा | शृण्वन्तो भूतगणाः सर्वे स्थिता सौम्या विशारदाः || मा वो समयाद् भ्रंशो भविष्यति अनर्थकम् | अहितं दीर्घरात्रं वो बुद्धवाक्यमजानकाः || पतिष्यथ तमस्यन्धे वत्स दूरीभविष्यथ | इदं वः श्रेयसे युक्ता मन्त्रमुद्रा समीरिताः || करिष्यथा सदा लोका सदानुग्रहनिग्रहम् | मन्यथा मत्क्रियायुक्तं क्रोधो वै च यमान्तकः || करिष्यति न सन्देहः सदा निग्रहतां युगे | आदौ पुष्पाभिकीर्णे वै विचिक्ते विजने सदा || कर्तव्ये मण्डले बुद्ध्या ध्यानेनावर्ज्य सर्वतः | आदौ च सर्वबुद्धानां पद्मं ध्यायीत बुद्धिमाम् || १८६, प्. ४३६) द्वितीयं पद्ममुद्यन्तं अर्कस्यैव महाद्युतिम् | तत्रस्थो मञ्जुवरः श्रीमां कुमाराकारचिह्नितः || पञ्चचीरकमूर्धानो जानुकर्णककोर्परः | फलितः कृताञ्जलिपुटो बालो पृच्छन्तं सुगतं विदुम् || वाचं च शुभया युक्तां वदन्तो सुगतालये | यो वै सर्वबुद्धानां महापद्मं स्फटिकोद्भवम् || वैदूर्यमयं पद्मं किञ्जल्कं हेमजोद्भवम् | महामरकतीनालां कर्णिकां सह हेमजम् || महाविटपसंघातं महारत्नविभूषितम् | पद्मरागमयैः कलिकैः अनेकाकारसुभूषितैः || अश्मगर्भमयैर्दिव्यैः अङ्कुरैश्च विभूषितम् | पद्मं मुनिवरे ध्यात्वा महोच्चं गगनाश्रितम् || तस्मान्न्यूनतरं पद्मं समचिह्नं सुशोभनम् | तन्मनः धामतो ध्यायेन्मन्त्री प्रत्येकार्हश्रावकाम् || तस्मान्न्यूनतरं पद्मं तृतीयं चित्तेन यत्नधीः | चतुर्थं पद्ममावर्तं तस्माद्ध्रस्वतमं विदुः || ध्यायीत पञ्चमं पद्मं ह्रस्वाह्रस्वतमं सदा | समाकारसमोद्योतं व्योमं संस्थितसर्वतम् || कुर्यात् तस्य विदो पद्मं चित्तया सप्तगे स्थितम् | वज्रपाणेः तथा पद्मं उदयन्तं रवेर्यथा || दक्षिणेन विदोः पद्मे तथा मञ्जुरवः सदा | ततो ह्रस्वतरं पद्मं लोकीशस्य महात्मनः || तृतीयं पद्ममित्येव समन्तद्योतिलाभिने | चतुर्थं पद्ममित्येव अक्षयप्रतिभानता || ईषिद् विमलगते ह्रस्वं कमलं पञ्चमतत्त्विते | तस्मात् षष्ठतमो यो पद्मः आर्यं चाधर्मसंज्ञितम् || १८७, प्. ४३७) अधश्चैव समन्ताद् वै उदधिं चापि चिन्तयेत् | महानागेऽर्धनिर्यान्तोऽनन्तः नन्दोपनन्दकौ | सर्वश्वेता महानागाः सर्वालङ्कारभूषिताः | अब्धोर्जाता स्मितमुखो गगनालम्बनदृष्टयः || सप्तशीर्षमहाभोगो मणिकुण्डलभूषिता | पुरुषाकारदिव्यास्तु अर्धभोगोरगस्तथा || सप्तस्फटा ससौम्यास्तु अर्धचक्षुर्गतोर्ध्वार्मा | वामतो मुनिवरा पद्मे पञ्चमुष्णीषसंस्थिताम् || चक्रवर्ति तथाद्यन्तां शक्रायुधसुतेजिताम् | एकाक्षरश्चक्रवर्तिस्तेजोराशिः सितोन्नतः || अभ्युन्नतो जयोष्णीषविद्याराजमहर्द्धिकः | वज्रपाणिश्च यक्षेशः अधश्चैव सुचिन्तयेत् || एतेषु चित्तं धीमां रूपिभिः सर्वदा सदा | आत्मनश्च धियो युक्तो मन्त्रविन्मन्त्रराड् जमे || तत्रस्थं नियमस्थं वै पद्मपत्रोपविष्ट वै | ध्यायीत अधश्चात्मानं पर्यङ्केनोपविष्ट वै || सर्वपापांश्च देशी मुनिनामन्तिके सदा | तत्रस्थो नियमजो रूपी अध्येष्य मुनिवरां वराम् || धर्मचक्रानुवर्तन्तां तिष्ठन्तां सुगतात्मजाम् | तेषा. पुण्यमतुलम् अनुमोद्येव जापधीः || सुशुक्लमालतीकुसुमां पुन्नागं नागकेसराम् | चम्पकाशोकतिलकां तगर्यांश्चैव समल्लिकाम् || क्षिपेत् पुष्पाञ्जलिं दिव्यां सव्यांश्चैव सुशोभनाम् | सभूतामप्यभूतं वा धिया युक्तां सुशोभनाम् || विविधां पूजावरां कुर्युर्विद्या चैव मनोरमाम् | विविधां धूपवरांश्चैव तथा गन्धानुलेपनाम् || १८८, प्. ४३८) चित्तेनेव तु तत् कुर्यात् सभूता मध्यभावतः | निवेद्य बलिमन्त्रैर्वै प्रदीपांश्चैव तदा न्यसेत् || विविधाकारसम्पन्ना विचित्रश्चित्रभोजनाम् | अनेकाकारसम्पन्नां दध्योदनमशालिकाम् || यबगोधूममुद्गैश्च खाद्यभोज्यसुभूषितैः | निवेद्य सुगते भक्त्या दद्याच्चात्मानमेव तु || तथ्येन नान्यथा चापि चित्त येनापि शिष्यते | एषा श्रद्धा मया पूजा सर्वपूजेषु शिष्यते || मं ध्यात्वा जापिनः सर्वे नियतं बोधिमवाप्नुयात् | सफला मन्त्रसिद्धिश्च जायते च न संशयः || इहैव जन्म निःसत्त्वा सिध्यन्ते मन्त्रदेवता | अन्यजन्मान्तरे वापि केचित् सिद्ध्यन्ति मानवाः || विचित्रां भोगसम्पत्तिं विशेषांश्चापि पुष्कलाम् | विविधा कालमनोवाग् ध्यानं चापि त्रिधा पुरा || बुद्धैर्बुद्धशतैश्चापि प्रत्येकार्हश्रावकैः | त्रिःप्रकारा तथा बोधिः प्राप्नुवन्तो यशस्विनः || एतैस्त्रिप्रकारैस्तु मन्त्रसिद्धिरिहोदिता | त्रिप्रकारैस्तु सत्त्वाख्यै उत्तमाधममध्यमे || त्रिधा कर्मसमुद्दिष्टम् * * * * * * * * (?) | प्रणीतं ध्यानतां प्रोक्तं मध्यमं शीलजं स्मृतम् || कन्यसं दानजं मुख्यं तच्चैव तु पुनस्त्रिधा | प्रणीतं धर्मदानं तु मध्यमं तु गतं तथा || वाक्यमामिषदानं तु कन्यसे व तु कीर्त्यते | शीलं चापि त्रिधा प्रोक्तमित्युवाच मुनिः पुरा || बुद्धत्वपरिणामाख्यं अग्र्यं शीलमिति स्मृतम् | प्रत्येकबोधो मध्यं तु कन्यसं श्रावकोद्भवम् || १८९, प्. ४३९) एतल्लोकोत्तरं शीलं लौकिकं तु प्रकथ्यते | तच्चापि त्रिविधा ज्ञेयं सास्रवोत्पत्तिकारणम् || मुमुक्षुबुद्धिभिर्भक्त्याधिज्ञप्त्या अभिज्ञसम्भवा | श्रेष्ठा ज्येष्ठतभा लोके कथ्यन्ते ऋषिवरैः सदा || एतदग्रमयं लोके शीलमाहुर्मनीषिणः | मध्यमं देवज ज्ञेयं कन्यसं तु नृपद्वराम् || तच्चापि त्रिप्रकारैस्तु त्रिधा कर्मेषु योजितैः | त्रिधा च त्रिविधैश्चैव पुनर्मुक्तं त्रिद्विसप्तपञ्चशः || त्रिसप्तं सप्ततिं तच्चापि त्रिधा भिन्नम् | प्रादुर्भूतोऽङ्कुरोऽङ्कुराः ध्यानजं चैवमत्यन्तो || सुरेश्वरौ पुनः त्रीणि पुनरष्टाष्टभूषितम् | यथैव पूर्वनिर्दिष्टं ध्यानेष्वेव च कथ्यते || एवं तरङ्गवद् भिन्नं पुनर्ज्वालेव गच्छति | बुद्बुदाकारवद् ज्ञेयं क्षणोत्पत्तिप्रभङ्गुरम् || एवमेवाद्यप्रयोगेन शतधा भिद्यन्ते पुनः | सहस्रशश्च सदा ज्ञेयमसंख्येयाद्यलक्षितम् || साध्यते ध्यानजं कर्म अग्र्यं मानसोद्भवम् | तस्माद् ध्यानवतं मन्त्रं चित्तं बोधाय नामितम् || अयनेनैव ते सिद्धिं लप्स्यन्ते मन्त्रदेवताम् | तस्मात् सर्वप्रयत्नेन जापिभिः सिद्धिलिप्सुभिः || कर्तव्या मानसी पूजा बुद्धानां सर्वतः सदा | इहैव जन्मनि सिद्धिं नित्यं ध्यानरतस्य तु || सर्वत्राप्रतिहतो ह्येष ध्यानजो शीलसंवरः | धानतो विभवो धर्मः शीलतो सुरवरोदयम् || उत्पत्तिध्यानादाना श्रवे * * * * * * * (?) | एतत् संक्षेपतो ह्युक्तं जापिनां मन्त्रसिद्धये || १९०, प्. ४४०) यं बुध्वा मन्त्रिणः सर्वे क्षिप्रमन्त्रेषु सिद्धये | क्षिप्रं चानुत्तरां बोधिं प्राप्नुवन्ति न संशयमिति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात् सप्तत्रिंशतिमः महाकल्पराजपटलविसराद् उत्तमसाधनोपयिकसर्वकर्मार्थसाधनतत्त्वेषु प्रथमः ध्यानपटलविसरः परिसमाप्त इति | १९१, प्. ४४१) अथ चत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये महाकल्पराजे पटलविसरे ध्यानजेऽनाश्रवे परमशिवशान्तीभूते अत्यन्तभूतकोटिधर्मधातुप्रविष्टे सर्वतथागतधर्मनेत्रीमनुगते परमनिर्वाणमार्गां सानुप्रविष्टे आर्यपथक्षेमशान्तीभूते महाधर्मनैरात्म्यशून्यतास्वभावमनुप्रविष्टे सर्वलौकिकलोकोत्तरतत्त्वावतारध्यानानुगतमनुप्रविष्टे सर्वमन्त्रचर्यासाधनविधिसमासक्रीडानाटकबालचर्याविस्फूर्यानानुगत- सन्तोषणसत्त्वचर्यानुगतैः | कतमं च तत् || शृणु त्वं मञ्जुरव ! श्रीमां सर्वसत्त्वानुवर्तनम् | ध्यानं सर्वज्ञतो ज्ञेयं सर्वमन्त्रार्थसाधनम् || पूरणं सर्वमन्त्राणां शोधनं पापकर्मिणाम् | यं ध्यात्वा च जनाः सर्वे सिद्धिं प्राप्स्यन्त्यनांविलाम् || सर्वाकारवरोपेतां ध्यानसौख्यमचिन्तिताम् | बोधित्वं त्रिविधं प्राप्य उत्तमाधममध्यमाः || अतुलां मन्त्रसिद्धिं च अस्तुवन्ति जना भवेत् | सर्वार्थसाधनं लोके यशःकीर्त्तिसुखोदयम् || दीर्घायुष्कतां लोकेऽस्मिं देवानां च महद्गतिम् | सर्वाशावाप्तितां क्षिप्रं प्राप्नुवन्ति न संशयः || द्विप्रपञ्चानुत्तरां बोधिं लप्स्यते ध्यानचिन्तकाः | सर्वसत्त्वाहितह्यग्रं सर्वमन्त्रेषु कीर्त्यते || स्मरणादेव मन्त्रेषु सर्वतन्त्रेषु च पुनः | सिद्धयः सिद्धिहेतूनां क्षिप्रमाशानिबन्धनम् || आशास्यं भुवि तां मर्त्या पुनर्गच्छन्ति देवता | आजहार पुरं दिव्यं देवतामन्दिरेष्विह || तिष्ठन्ते मन्त्रराट् सर्वे तन्मुखापिध्यायिने | आगत्य च पुनः सर्वं देवतामन्त्ररूपिणाम् || १९२, प्. ४४२) कथयन्ति यथातथ्यं शुभाशुभफलोद्भवम् | वाचां प्रबुद्धः स्वप्ने प्रत्यक्षं वाथ जापिने || शुभोदयं फलं कर्म प्रत्यक्षं वापि देवताम् | पश्यन्ते स्वप्नगताः सर्वे मन्त्रिणा वापि तदन्तरे || इतरां चापि न पश्यन्ते जापिनो मन्त्रलौकिका | ध्यानेन पापं क्षीयेत जपे चापि सुपुष्कले || सिध्यन्ते मन्त्रराट् सर्वे अचिरात् तस्य मन्त्रिणः | प्रभावा ध्यानयोगस्य अचिन्त्याद्भुतचेष्टिता || एवमुक्तस्तु धीरेण शाक्यसिंहेन तापिना | भून्मञ्जुरवस्तूष्णीं शुद्धावासपुरे तदा || सर्वे देवगणा मुख्या त्रिधा धातुसमाश्रिता | अमुचद् वाक्यवरं शुद्धं सर्वमन्त्रेश्वरं गुरुम् || साधु साधु महावीर ! साधु धर्मेश्वरो विभोः | यस्त्वं हि सर्वसत्त्वानां हितार्थं मन्त्रजापिनाम् || ध्यानां च तत्त्वनिर्दिष्टं पूर्वनिर्दिष्टतामिति | इदानीं तु महावीर * * * * * * * * (?) || एवमुक्ताः सुराः स * (?) अग्रा ह्यग्रतमे हिताः | तूष्णीम्भूतास्ततस्तस्मिन् शुद्धावासपुरे पुरे || इत्युवाच महाधीरो मुनिस्तेजो * * * * (?) | शुभया वाचाया दिव्यां लोकतत्त्वार्थदर्शनम् || कथयामास सम्बुद्धः मधुराक्षरघोषजम् | शृणोथ भूतगणाः सर्वे स्थिता त्रिविधालया || ध्यानं च भवनिर्देशं कथयन्तः समाहिताः | अनेकार्थमनानात्वं नैरात्म्यं तत्त्वदर्शनम् || सर्वमन्त्रार्थरिधिंसार्थं विविधार्थं तु लौकिके | सर्वधर्मेश्वरा लोके येनायान्ति सुचिन्तिता || १९३, प्. ४४३) क्षिप्रं च जापिनां सर्वे आशु मन्त्रार्थसिद्धये | आदौ ध्यायीत महावीरं रत्नकेतुं तथागतम् || रत्नशैलनिषण्णं तु गुहायां रत्नजोद्यते | पद्मरागमयं दिव्यं महापद्मं महोन्नतम् || भगवां तत्र निषण्णस्थं पर्यङ्के धर्मदेशितम् | ध्यायन्तं महावीरं पद्मसम्भवमेव तु || पद्मोत्तरं च सम्बुद्धं पद्माभं चैव बुद्धिमाम् | ध्यायीत मुनिवरां पञ्च रत्नाभं च तथागतम् || समतः सुप्रतिष्ठिता ज्ञेया गुहेष्वेव पञ्चसु | सर्वां शैलमयां साद्रि पद्मरागमयं क्वचित् || भिन्नेन्द्रनीलमाभासं क्वचित् स्फटिकसन्निभम् | उच्छ्रयं मरकताभासं प्रमाणं चापि शताष्टकम् || योजनानां सहस्रं तु लक्षषोडशविस्तरम् | उपरिष्टात्तु सम्बुद्धा अपर्यन्ता नरोत्तमा || इत्यूर्ध्वमधः सर्वदिग्विदिशश्चापि सर्वतो | प्राप्तं मुनिवरैः सर्वं सम्बुद्धैर्द्विपदोत्तमैः || चन्द्राभासं च निर्भासैः श्वेतपुण्डरिकासनैः | हंसगोक्षीरनिर्भासैः शङ्खकुन्देन्दुहिमप्रभैः || सम्बुद्धैः सर्वमिदं व्याप्तं इत्यूर्ध्वमधस्सप्ततिर्यकम् | सद्व्योम्नि पुष्पवर्षाद्यैः सुरमुख्यैः समन्ततः || अदृश्यकायसारूप्यैः उपरिष्टात् खसमागतैः | अधश्चात्मानं सदा चिन्तेत् पर्यङ्केनोपविष्टकम् || पद्मपत्रे स्थितं मुख्यं शरीरं चापि निर्मलम् | अभिषिञ्चन्तं सदापश्यन्तं तोयधाराभि सर्वतः || असङ्ख्येयैर्मुनिमुनिमुख्यैः सम्बुद्धैः द्विपदोत्तमैः | प्रसृतैर्दक्षिणाग्रकरैः समन्तादङ्गुलिभिः सदा || १९४, प्. ४४४) शुक्लतोया बहुभिः बहुधाराभिरूर्ध्वतः | समन्तात् सर्वतश्चैव मूर्त्ति चात्मान एव तु || अष्टाङ्गसलिलधाराभिः सुगन्धैर्लयशीतलैः | अच्छैरनाविलैश्चैव सर्वव्याधिहरैस्तथा || जरामृत्युविनाशिन्यैः भिन्नस्फटिकसन्निभैः | तादृशैस्तोयधाराभिः आत्मानं चापि चिन्तयेत् || अभिषिञ्च्यात्मतो चिन्त्या तैश्चाप्यायितमानसः | समन्ताद् वारिधाराभिस्ततो ध्यायी सुखी भवेत् || सन्तुष्टमानसो धीमां पश्येद् ज्ञानं तदासनम् | चित्ते समाधितां लिप्स्ये पञ्चाभिज्ञासु चिन्त्यधीः || एवं युक्तः सदा योगी पश्येद् धर्मां तदा स्वयम् | दिव्यं श्रोत्रं तथा ज्ञानं पूर्वजातिमनुस्मरम् || ऋद्धिविक्रीडितं ज्योतिर्दिव्यं चक्षुरनावृतम् | परचित्तगतिं चिन्तां सर्वसत्त्वाश्रयम् तम् || सर्वं ज्ञास्यति योगीशो तदा युक्तेः समाहितः | अनिवर्त्त्यः सदा बोधो अनुत्तरायां न संशयः || बुद्धभूमिगतां धर्मां प्रथमायामविकल्पतः | प्राप्स्यतेऽसौ सदा जापी अनिवर्त्योऽमृते पदे || अनाभोगेनैव सम्यङ्मन्त्राः सिध्यन्ति सर्वतः | ये च लोकोत्तराः सर्वे अभिमुख्यैः प्रभाषिताः || बोधिसत्त्वैस्तु सर्वत्र अब्जा वज्रोद्भवाश्च ये | लौकिका ये च मन्त्रा वै ब्रह्मरुद्रेन्द्रभाषिता || यक्षमुख्यगणैः सर्वैः * * * * * * * * (?) | मातृभूतग्रहगणैः यक्षराक्षसकिन्नरैः || देवैर्नागगरुडैश्च सिद्धविद्याधरैस्तदा | कूश्माण्डैर्व्यन्तरैश्चापि कश्मलैः पिशिताशनैः || १९५, प्. ४४५) परप्राणहरैश्चापि राक्षसैः प्रेतदुःस्वपैः | पिशाचैः भूतयक्षैश्च अनेकाकारजातितैः || ये मन्त्रा भाषिता लोके * * * * * * * * (?) | ते तस्य योगिनो यान्ति ईषद् बोधाय बोधिता || क्षिप्रं सिद्धितां यान्ति मन्त्रा सर्वार्थसाधकाः | वचनं तस्य वै मन्त्रः क्षिप्रं तत्त्वार्थदर्शिने || ऋषयो ये च वै देवाः मानुषोद्भवाः | प्रसह्य वृत्ता मुख्याश्च स्त्रीपुंसाश्चापुंसकाः || सर्वे महर्द्धिकाश्चापि उत्तमाधममध्यमाः | सर्वे लौकिका चापि ये मन्त्रा लोकपूजिता || तैश्चाप्यथ मनैश्च मन्त्रैश्चापि मन्त्रजाः | भाषिता मुनिमुख्यैश्च सर्वे सिद्ध्यन्ति योगिने || तन्त्रमन्त्रगताश्चापि ओषध्यो मणिभूषणाः | सर्वे मन्त्रवरा तस्य उत्तमाधममध्यमाः || सर्वाशावाप्तये वाप् अक्षरे क्षरते यदा | सिद्ध्यते तस्य वै युक्तस्य मन्त्रिणे एवं युक्तस्य मन्त्रिणे || एवमुक्तस्य मन्त्रस्य धीमन्तस्य विशेषतः | प्रथमं चिह्नलिङ्गस्तु मन्त्राणां सिद्धिहेतवः || शरीरं जायते श्रेष्ठं पद्माभासं सुखोदयम् | गात्रस्य शैत्यता चापि चन्दनेन्दीवरगन्धिता || कर्पूरागरुसौगन्ध्यं पद्मकिञ्जल्कवर्णतः | वक्त्राद् रोमकूपेभ्यः गन्धो वान्ति सचाम्पकम् || जातीयूथिकपुन्नागं नागकेसरवकुलम् | धानुष्कारी ससौगन्धी जातिमल्लिककोलजम् || विविधां धूपमुख्या वा विविधा पुष्पजातयः | विविधा गन्धमुख्याश्च विविधा द्रव्यजातयः || १९६, प्. ४४६) विविधां सर्वगता गन्धाः शुभकर्मसमोचिताः | तेषां गन्धवरं हृद्यं अभिभूयोभिप्रवर्तते || दिव्यं मान्दारवं गन्धं सकिञ्जल्कं सकोकणम् | सकस्तूर्यकं लोके अभिभूय तां प्रवायते || ततश्चिह्नमिमां ज्ञात्वा गात्रे वै चापि शैत्यताम् | चित्तैकाग्रतां चैव मुखं चैव विवेकजम् || प्रथमं ध्यानजं चैव चित्तं ज्ञात्वा तु तीरितम् | सुखदुःखमुपेक्षाय निर्वृते चापि विरागताम् || उपेक्षं स्मृतिपरिशुद्धिं द्वितीये प्रेरयते जापी | तृतीयं चित्ततो ध्यानं चतुर्थं अश्रयतो व्रती || यथा मुनिवरोद्दिष्टं ध्यानं सर्वतो शुभम् | तथा मन्त्रगतो जापी ध्यायेदेकाग्रमनोमयम् || ये निर्दिष्टाद्याबुद्धैस्तु वर्तमानमनार्गतैः | सम्बुद्धैः श्रावकैश्चापि सूत्रान्ताश्चापि कीर्तिताः || तेषु योगेषु मन्त्रज्ञाः अनुपूर्व्या ध्यानमाचरेत् | निवर्त्त्यं श्रावकी बोधि प्रत्येकजिनमुद्भवाम् || महाकरुणानुभावीत महामैत्रीं चापि यत्नतः | यद् यद् गोत्रागतं चित्तं तथा चित्तं तु भावयेत् || परहितचित्तान्मैत्री परदुःखकृपालुता करुणा | परतुष्टिमुदिता परदोषमुपेक्षणमुपेक्षा || इत्युवाच महाभागा सम्बुद्धा द्विपदोत्तमा | अनित्यदुःखमनात्माशून्य तत्त्वं शिवं पदम् || क्षेमं शिवं परं स्थानं निर्दिष्टं लोकनायकैः | क्षणिकः सर्वसंस्काराः त्रिविधास्तत्त्वेष्वचेष्टिता || त एवासंस्कृता धर्मास्त्रिविधा बोधिसंस्थिता | त एव शिवतमा लोके कथिता बोधिपरायणैः || १९७, प्. ४४७) पुङ्गलाभावनैरात्म्यं तीक्ष्णपतनवर्णितम् | तं नास्ति शिवे मार्गे क्षेमे बुद्धोपदेशिते || अत्यन्तनिष्ठे धर्मेऽस्मिं भूतकोटिसमाश्रिते | धर्मधातुसमानं ते अस्तिनास्तिविवर्जिते || शुभे धर्मोदये बोधो त्रिप्रकारसमोदिते | अत्यन्तनिष्ठे मोक्षे च बहुधा भेदमाश्रिते || सुप्रयुक्ते सुनिर्दिष्टे सर्वबुद्धैः सुदेशिते | मार्गे स्थितेऽथ मन्त्रज्ञः सर्वपापहरे शिवे || ये धर्मा मुनिवरैः सर्वैः प्रतीत्योत्पन्ना शुभाशुभाः | सर्वे ते जातिभिर्योगे ध्यातव्या मुनिहेतुभिः || श्रावकानां तु शिक्षा अधिशीलानुप्रवर्त्तते | अधिचित्तं च यद् ज्ञानं श्रावण्यफलहेतुकम् || अनास्वरं सस्वरं ज्ञेयं जापिभिः सर्वदा स्वयम् | ज्ञातव्यं खड्गिणा शिक्षा प्रत्येकार्हसम्भवाम् || सर्वसत्त्वाख्यसत्त्वैवं सुस्वरं त्रिदिवोदितम् | यथाजिनैश्च निर्दिष्टं मार्गतत्त्वानुगामिनम् || साश्रवानाश्रवं ध्यानं संवरं च शोभोदयम् | यथावृत्ति यथालिङ्गं तथा शिक्षासु व्यवस्थितम् || तद्धर्मासेवतो जापी मन्त्रसिद्दि समश्नुते | ध्येयं च ध्यानजं पुण्यं पुण्यं ब्रह्मशुभोदयम् || तस्य सिद्धि सदा ज्ञेया ध्यानैः पुण्यैश्च बृंहितैः | उपोह्य सर्वतो मन्त्री जपहोमरतो व्रती || ध्यातव्यः सर्वतो मुख्यः जिनपुत्रो महर्द्धिकः | मञ्जुघोषो महावीरः कुङ्कुमाकारसमत्त्विषः || ईषिस्मितमुखो देवो सव्यामाभोगमण्डलः | प्रसन्नमूर्त्तिः पद्मस्थः समन्तरश्म्यावभासितः || १९८, प्. ४४८) पूर्वनिर्दिष्टजे स्थाने स्वमूर्त्त्याभिषेकसेविते | उपरिष्टात् तोयताराणां मध्ये जिनवरालये || तत्रस्थं तु सुखासीनं ध्यायीत मञ्जुरवं शुभम् | सर्वबुद्धोर्ध्वकं दृष्टिं सनमस्कारं शुभं प्रभुम् || वामे करविन्यस्तं नीलोत्पलं शुभम् | दक्षिणेन करे ह्युक्त शुचिस्थाने सदाशुभे || सनमस्कारं सदा बुद्धं ईषच्छीलासबालिशम् | तं ध्यात्वा मुनिपुत्रे वै सदा मन्त्री पुनः पुनः || तत्रस्थो ध्यानजो धीमां आतुरायां तु पश्यति | सर्वे ते व्याधिनिर्मुक्ता दृष्टमात्रेण मन्त्रिणा || अधश्च पश्यत्पातालं सर्वे भूमिगता धना | वशिता सर्वमन्त्रज्ञः नित्योच्चाटनमन्त्रिणाम् || यदूर्ध्वं समपश्येत् सिद्धां व्योम्नानुगामिनाम् | सर्वं वशयिता लोके सिद्धद्रव्याणि सर्वतः || अथोत्तरां दिशां पश्येद् यक्षाध्यक्षांश्च सर्वदा | कूष्माण्डा वित्तदाश्चैव वित्तेशश्च महर्द्धिका || ईशानो भूतपतिश्चैव * * * * * * * (?) | औषध्यो हेमजाः सर्वे रुद्रश्चैव सहोमया || किन्नरा मरुगन्धर्वा ऋषयो गरुडस्तथा | सर्वसत्त्वाश्रया ये च तथोत्तरा विदिशे || विदिक्षु चैव सर्वत्र तथा स्थावरजङ्गमाः | सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने || एवं पश्चिमतो ज्ञेयं वरुण महर्द्धिकः | महानागैः सदा सर्वं दृष्ट्वा यान्ति सम्मूर्च्छिता || एवं वैवस्वतां लोकां यमश्चैव महर्द्धिकः | सर्वे ये राक्षसा दुष्टा घोररूपा महर्द्धिका || १९९, प्. ४४९) ससुता भृत्यवर्गैश्च परप्राणहराः खगाः | पिशिताश्चनरूपाश्च भीमरूपानुगाः सदा || व्यन्तरा कश्मलाश्चैव प्रेताप्रेतमहर्द्धिका | पिशाचा भूतक्रव्यादा व्यालश्चैव महर्द्धिकाः || अनेकाकाररूपास्तु अनेकाकारयोनिजाः | रूपा मनोजवाश्चैव सत्त्वा हिण्डन्ति मेदिनीम् || दारुणा रुधिरगन्धेन समन्ताद् योजनं शतम् | सहस्रं पुनरायान्ति सप्तसप्तेऽनुगे सदा || मानुषाणां विहेठन्तां पर्यटन्ति महीतले | आहारार्त्थिनः केचित् केचित् क्रीडानुगामिनः || सर्वे स्युर्वशमायान्ति दृष्टमात्रेण जापिने | एवं पूर्वयां तथा दिक्षु पूर्वाध्यक्षादिशानुगः || सवितुः सर्वनक्षत्रा सज्योतिग्रहचन्द्रमा | महोत्पादोपग्रहां सत्त्वे विराजाश्चैव दिशां पतिः || ससुतो सपरिवारो वै शस्त्री वा चापि सर्वतः | सर्वे ते वशमायान्ति ध्यानेनावर्जिते जिता || विदिक्षुश्चैव सर्वत्र सर्वं सर्वासु दिक्षुषु | सुरश्रेष्ठा सुरश्चैव स्त्रीपुंसादये भुवि || सर्वसत्त्वा तथा लोके मानुषा अमानुषोद्भवा | सर्वे ते वशमायान्ति ये सत्त्वा त्रिषु स्थावरा || ये तु धातुजा मुख्या तथा मध्यमकन्यसाः | सर्वे ते वशमायान्ति अदृश्यो दृश्याश्च ध्यायिने || त्रिविधं ध्यानजं कर्म ज्येष्ठमध्यमकन्यसम् | ज्येष्ठे उत्तमां बोधिं प्राप्य ध्यायी निवर्त्तते || अनुत्तरं च पदं शान्तं प्रत्येकं मार्गखड्गिणाम् | कन्यसा श्रावकी बोधिः प्राप्यते परनिश्रिता || २००, प्. ४५०) प्रतीत्योत्पत्तिकधर्माणां हेतुसम्भूतलक्षणम् | तेषां निरोधधर्माणां एवं वादी नरोत्तमः || साक्षात्क्रियेन मर्हत्त्वं चतुरो पटलसम्भवाम् | हेत्वाभासविदं ज्ञानं शून्यता दुःखसम्भवम् || नैरात्म्यधर्मतो निष्ठं अत्यन्तं भूतकोटिजम् | निरोधमार्गवद् ज्ञेयनर्हत्वं चापि कन्यसम् || आलयोद्घातनो वत्त्मापर्छेदो वदनात्मताम् | पिपासा प्रतिपच्छोषावर्त्मोपछेदोऽथ देहिनाम् || कामनद्यां सहतृष्णां शोकशल्योऽथ देहिनाम् | रुध्यन्ते सर्वतो ध्याने मार्गेऽस्मिं ध्यानजे हिते || त्रिप्रकारं तथा कर्म अनेकाकारचिह्नितम् | त्रिधा चैव समुख्याणाम् त्रिविधा बोधिकीर्तिता || कन्यसं श्रावके बोधिः प्रत्येकार्हखड्गिणाम् | मध्यमे च सदा लोके निर्दिष्टा जिनवरैः पुरा || उत्तमं तु सदा बोधिं सम्यक् सम्बुद्धतां गतिम् | एवमाद्या प्रयोगेन त्रिधा कर्मक्रियाक्रमम् || शतधा भिद्यते तत्र सहस्रोऽथ मसङ्ख्यकम् | व्रीह्यङ्कुरवद् ज्ञेयं पुनः क्षेत्राङ्कुरवत् सदा || ततोऽङ्कुराङ्कुरवन्नित्यं सन्तत्या सम्प्रकीर्तिताम् | बीजोषधवत् कर्म शुक्लधर्मसमन्वितः || सत्त्वविज्ञानसन्तत्या पुनस्तोयतरद् भवत् | प्रवर्तते ध्यानजा धर्मा पुनध्यीयीत बुद्धिमाम् || यथा ध्यानगता योगी शुद्धिं पश्येत सर्वतः | त्रिविधं त्रिप्रकारं तु अनेकाकारसम्भवाम् || सिद्धिं मन्त्रयुक्तिं च समाधिं चैव कीर्तितम् | धारण्या बोधिसत्त्वानां त्रिविधैव समोदिता || २०१, प्. ४५१) अनेकाकारवरोपेता मन्त्राश्चैव सुपूजिता | लौकिका लोकमुख्याश्च तथा लोकोत्तरा सदा || सौगतीवर्त्ममास्थाय ध्यानं ध्यानपरम्परा | सिध्यन्ते सर्वमन्त्रा वै सर्वसत्त्वार्त्थदर्शनाम् || प्राप्नुवस्तं जनाः सर्वे ध्यायतां सर्वतो हिताम् | यशः कीर्तियथायुष्यं सर्वव्याधिप्रणाशनम् || मार्गतत्त्वार्थदं ज्ञानं जीवितं चापि सुपुष्कलम् | प्राप्नुवध्वं नराः श्रेष्ठाः नित्यं ध्याने समाहिताः || एष योगः समासेन निर्दिष्टो मुनिवरैः पुरा | अधुना च मयोक्तेदं विधियोगं समाहितम् || मयाप्यनुत्तरां बोधिं सम्प्राप्ते मेऽमृते पदम् | एभिरेव समायोगैः मन्त्रैश्चापि सुपूजिताः || ध्यानकर्मगतैः दिव्यैः शुभैश्चापि समाधिभिः | प्राप्यमनुत्तरं ज्ञानं बुद्धत्वं भगवानाह || अपरं तु प्रवक्ष्यामि तन्मे निगदतः शृणु | क्रीडार्थं सर्वमन्त्राणां क्रीडाशतकर्मजम् || ध्यानजेनैव प्रयोगेण शृणु मञ्जुरवो जनाः | सदा हिताहितं ज्ञेयं मन्त्रिणां च विकुर्वणम् || ध्यानजेनैव योगेन कुर्याद् वालिशबुद्धिनाम् | आदौ तावत् सदा ध्यायेन्महानागोच्छ्रयं जले || महोदधिः समन्ताद् वै शैलराजविभूषितम् | रत्नशृङ्गं महोच्चं वै चतुरन्तमयं शुभम् || तत्रासीनं महात्मानं बुद्धं त्रैलोक्यविश्रुतम् | सुनेत्रं धर्मभूयिष्ठं अमिताभं च जिनोत्तमम् || जिनपुत्रं सदा श्वेतं लोकेशं च यशस्विनम् | पद्मकेतुं महासत्त्वं महाकरुणजोद्भवम् || २०२, प्. ४५२) सुनेत्रे मुनिवरे स्थाने कुमारं बालरूपिणम् | सदा मञ्जुरवं विन्द्याद् विचित्रो भूतिलक्षणम् || इन्दीवरकरं वामे दक्षिणे सुगतानभम् | जले योऽत्र महानागो अनन्तो नाम नामतः || सर्वश्वेतस्तथा नित्यं सप्तशीर्षजैः स्फटैः | तं ध्यात्वा चिन्तयेज्जापी विचित्रालङ्कारभूषितम् || सुगतात् सम्प्रतीच्छन्तं तन्मुखं चापि चिन्तयेत् | एवं नन्दोपनन्दौ च नागराजौ महर्द्धिकौ || तत्प्रमाणोच्छ्रितौ वृद्ध्या द्विगुणं चापि सर्वतः | अनन्तकर्कोटकस्तुल्यैः पद्मश्चापि महर्द्धिकः || कुलिकः शङ्खपालश्च कपिलश्चापि वर्णतः | महापद्मोऽथ नागेन्द्रः पद्माभश्च लते सदा || वासुकिस्तक्षकश्चैव ईषित्किञ्जल्कवर्णतः | पद्माभौ सर्वतो ज्ञेयौ विचित्राकारभूषणौ || शङ्खश्चैव महानागो शुक्लाभो वर्णतः शुभौ | शङ्खपालो मणिर्नागः श्वेताभो ईषि वर्णतः | सागरश्च महानागः मुचिलिन्दश्चैव विश्रुतः || कृष्णनागोऽथ सर्वत्र कृष्णवर्णाः प्रकीर्तिताः | सर्वे तुल्यप्रमाणास्तु नन्दोपनन्दोऽथ सुर्च्छ्रितौ || एलपत्रोऽथ नागेन्द्रो भोगवां लोकविश्रुतः | सागरो ह्युरगाध्यक्षः अचिन्त्याद्भुतचेष्टितः || करोति विविधां कर्मां शुक्लांश्चैव निबोधताम् | मृतकं विषसुप्तां वा सागरे नैव कारयेत् || वस्त्रेनावृत कृत्वा वै ध्यानयोगेन धीमता | आकृत्य सागरे स्थाने शीघ्रमुत्तिष्ठते मृतः || विषसुप्तस्य सदा *(?)गो पादेनाक्रम्य चालयेत् | २०३, प्. ४५३) तं न्यसेत् सागरे स्थाने निर्विषो भवति तत्क्षणात् | एवं ज्वरपिशाचांश्च क्रव्यादां व्यन्तरां शुभाम् || रक्षसां प्रेतकूष्माण्डां पिशाचोरगमातराम् | ग्रहश्चैव सदा लोके परप्राणहरां नराम् || * * * * * * * * (?) विचित्रा श्रममाश्रिता | मानुषिं तनुमाश्रित्य तिष्ठन्ते भुवि मानुषाम् || गृह्णन्ते बालिनां सत्त्वां तेषां ध्यानेनानेन चिन्तयेत् | सागरस्य तु नागेन्द्रा चिन्त्यादग्रतोत्थितम् || ध्यायीत मातरं सत्त्वं क्षिप्रं मुञ्चति वालिसम् | एवं दष्टमदष्टानां कीटलूतोत्थितां नृणाम् || दद्रुकिटिमकुष्ठानां पामाकण्डूविचर्चिकाम् | अन्यां चोत्थितां चैव नित्यं भगन्दररोहिताम् || प्लीहमेदोदरां चैव तथा पद्मं सुपद्मकम् | यक्षाणां सपद्मकं चैव तथा पद्मोत्तरं कृशम् || ज्वररोगगतां सर्वां वाध्यन्तां नृजबालिसाम् | सर्वां सागरे स्थाने सन्यसेत् पन्नगोत्तमे || विविधायासदुःखानां सर्वव्याधिगदर्त्तिनाम् | सन्यसेत् सागरे स्थाने ध्यानचिन्त्याहितेन वै || क्षिप्रं मोचयते नागः सुगताज्ञां प्रतीच्छकः | एवञ्चमुरगैः सर्वैः सर्वकर्मकरैः शिवैः || उरगाध्यक्षैस्तदा सर्वं व्याप्तमम्भोदतिर्यगम् | समन्तात् सर्वतो श्रेष्ठा उरगाध्यक्षा महर्द्धिकाः || समयज्ञा मञ्जुघोषस्य आज्ञे दीक्षणतत्पराः | दैवयक्षाश्रिता नित्यं मानुषाणां शुभोदयाः || व्यतिमिश्रैस्तु कर्मज्ञैर्व्यतिमिश्रफलोदया | काले वर्षधरा नित्यं धार्मिकां वृत्तिमाश्रिताम् || २०४, प्. ४५४) समन्तात् तोयधाराभिः * * * * * * * * (?) | सस्यौषध्ये तथा व्रीह्यां निष्पन्ने फलति हैतुकम् || मेघरूपेण माश्लिष्टा पर्यटन्ति महीतले | महर्द्धिका महेशाख्या कल्पस्था महोदया || तेषां भोगवती नाम पुरी अम्भोदमाश्रिता | यदा धर्मपरा मर्त्त्या जम्बूद्वीपेषु सर्वतः || ततो तिष्ठन्ते महानागाः परिवाराश्च तेषु वै | तदा देवासुरे युद्धे अनुभूय जयैषिणः || जम्बूवृक्षगता तस्थुः जम्बूद्वीपं च मध्यतः | पुनः पुनर्नरां भेजे सर्वत्राप्रतिगोचराः || सर्वशुक्लगतां कर्मां तेषु नागेषु योजयेत् | कुर्वन्ति समये भ्रष्टा ये नागा जलमाश्रिता || कीटवोपद्रुतां सर्वां विषां स्थावरजङ्गमाम् | मुमुचुः सर्वतो नागा आसुरो पक्षमाश्रिताः || प्रमाथी झलुझलुश्चैव कपर्दी चापि महोदधिः | भीमो भीषणश्चैव दुर्मुखो बहुमुखस्तथा || एते चान्ये महानागा अतिदर्पाभिमानिनः | कृष्णकर्मे स्थिता नित्यं व्यतिमिश्रेण वा परे || मेह्शाख्या भीमरूपाश्च विषोग्रथिजनाजने | अधर्मिष्ठा यदा मर्त्त्या जम्बूद्वीपनिवासिनः || तदा महाभयं कुर्युर्विषमूर्च्छातिदारुणम् | छर्दिर्भ्रमिश्च जायेत महामार्योपद्रवां वहूम् || दुष्टशरीसृपां लोके विसृजन्त्यहितोदया | एवं ते च महानागा बहुप्रकारोपद्रवाशुभा || अनावृष्टि अनावृष्टिं विसृजन्त्यहिते रता | तेषां च दर्पनाशाय इदं ध्यानं समारभेत् || मञ्जुघोषं महाधीरं बोधिसत्त्वं महर्द्धिकम् | २०५, प्. ४५५) वामोत्पलकरं सव्यं दक्षिणेन वरप्रदम् | भिन्नगोरोचनाभासं हेमकुङ्कुमविद्विषम् || गरुडं पक्षिराजानं आरूढं सुगतात्मजम् | ध्यायीत मस्तके तेषां दंष्ट्रिणां सर्वविषोत्कटाम् || ततस्ते भिन्नहृदयाः त्रस्तोद्विग्नमानसाः | पुनर्निवर्त्त्य गच्छन्ते प्रविशन्ते च रुपालयम् || उत्पातां बहुविधां दृष्ट्वा अशुभांश्चैव सशब्दकाम् | एवं ध्यायीत मन्त्रज्ञ मञ्जुघोषं समाहितः || बहुप्रकारा मन्त्रज्ञ नागदंष्ट्रां प्रकल्पयेत् | अनेकाकाररूपास्तु अण्डजांश्च प्रदंशिनाम् || वक्ष्ये सम्यग्बुद्ध्या शास्त्रदृष्टेन कर्मणा | तद्गोत्रजश्च उरगा वै दशन्ते भुवि मानुषाम् || तेषां विधिदृष्टेन शास्त्रेणैव गरुत्मना | कुर्यात् सर्वाणि कर्माणि पक्षिराजेन देहिनाम् || कृष्णशुक्लादयो नागा ये नागा भुवि मण्डले | विचरन्ति महीं कृत्स्नां सूर्यरूपेण देहिनाम् || साध्यासाध्ये ततो ज्ञात्वा विषं च चतुरो हिताम् | पित्तश्लेष्मगतं चैव वायुव्यतिविमिश्रिताम् || श्लेष्मणा वारुणेत्याहुः शुक्लवर्णोऽथ मण्डलः | पित्तमज्ञेयजं नाम तृकोणाकारसम्भवाम् || अग्निवर्णं सदा रक्तमीषद् बाहुभपिङ्गलम् | कुलस्थमिव बन्धान्तं चतुरश्रं व्यतिमिश्रितम् || माहेन्द्रमिति तं ज्ञेयं कृष्णवर्णं महोन्नतम् | श्लेष्माणां च गजेत्याहुः पित्तजं द्वेषसम्भवम् || मोहं वायुजं ज्ञेयं व्यतिमिश्रं कृष्णवर्णितम् | तदेव सात्त्विकं विन्द्याच्छेलष्मणं शुक्लवर्णितम् || २०६, प्. ४५६) राजतं पैत्तिकं ज्ञेयं पीतरक्तावभासितम् | तामसं वातिकं ज्ञेयं व्यतिमिश्रहितोत्वताम् || व्यन्तरेष्वपि सर्वेषु कीटविस्फोटकादिषु | सरीसृपेषु च सर्वत्र व्यतिमिश्रं लिङमीक्षयेत् || कृष्णाभं तत्रमुद्यन्तं मञ्जुघोषं सुचिन्तयेत् | गरुत्मस्थं सुखासीनं बालरूपं सुखोदयम् || चिन्तयेद् व्यन्तरैर्दुष्टं मानुषेषादसन्धिषु | ततोऽर्द्धं चिन्तयेद् दिव्यं कुमारं बालरूपिणम् || विश्वरूपं महात्मानं गरुत्मत्तोपरिस्थितम् | तदासीनं महाभागं शरत्काण्डाकारविद्विषम् || ऊसभ्यां चिन्तयेद् धीमान् नाभिस्यादध्योमगम् | पीताभं चिन्तयेद् ध्यायी उरःस्थाने सुसुप्तिगम् || मञ्जुघोसं महावीर्यं पक्षिराजाग्रवाहनम् | शिरःस्थाने तथाचिन्त्यः ध्यायीत गरुडध्वजम् || शुक्लाभं वैनतेयस्थं बहिस्थं चाथ चिन्तयेत् | सात्त्विके विषमूर्च्छा तु श्लेष्मं वमन्ति सर्वतः || लाला च स्रुवतेऽजस्रं निमज्जते च मुहुर्मुहुः | तं विद्यात् सात्त्विकं दष्टं शुक्लपक्षाहितो भवेत् || भ्रमते कम्पते चैव स्तब्धे क्षोभे सर्वेश्वरः | विषे च पित्तजे मूर्च्छा दाघो जायति दारुणम् || राजसे दंष्ट्रिणे दष्ट्रो एतद् भवति चेष्टितम् | तामसे तमसं मोहः मूर्च्छा निद्रा च जायते || व्यतिमिश्रैर्व्यतिमिश्रं तु चेष्टा भवति दारुणम् | सत्त्वे भवति शुक्लाभः दंष्ट्रे भवति मानुषे || राजसी पीतवज्ज्ञेयः छविवर्णाश्च किञ्चन | कृष्णवर्णाथ मोहात्मा छविवर्णाथ जायते || २०७, प्. ४५७) व्यतिमिश्रे धूम्रवर्णस्तु आपाण्डुश्चापि क्वचित्तथा | सात्त्विको राजसश्चैव शुक्लपक्षाहिजोद्भवा || तामसो मिश्रिणश्चैव अहिजा कृष्णवर्णिनाम् | तत्कुलाकुलिनो ह्येते उरगाध्यक्षेश्वरो सु वे || आसुरं पक्षमाश्लिष्टा विचरन्ति महीतले | दंशतेषां मानुषां लोके अधर्मिष्ठा नागजातयः || क्रूराः क्रूरतरा लोके आहारार्थपरा सदा | केचिद् विहेठनार्थाय दंष्ट्रिणो प्राणहरा परे || विषनिर्नाशनार्थाय सर्वदंष्ट्रोपजीविनाम् | इदं ध्यानवरं मुख्यं यथालिङ्गानुवर्निनम् || सन्न्यसेत् प्राणिनां चिन्त्या क्षिप्रं मुञ्चति तद्विषम् | सर्वदा सर्वकालं तु सर्वव्याधिषु योजयेत् || सर्वोपद्रवां हन्ति ध्यानेष्वेव प्रतिष्ठिता | यथा नागा तथा सत्त्वा राक्षसा ग्रहमातरा || परप्राणहराश्चैव दुष्टचित्ताथ मानुषाः | सर्वव्याधिमता लोके लिङ्गेष्वेव तु योजयेत् || ध्यानं ध्येयं तथा मुक्तिं कर्मं चापि सदा न्यसेत् | कुमाररूपं माङ्गल्यं पवित्रमघनाशनम् || मञ्जुघोसं महावीरं जिनपुत्रं महर्द्धिकम् | सगरुत्मन्ते सुखासीनं उदयन्ते रविमण्डले || ध्यायीत सर्वतो मुख्यं मन्त्रनाथेश्वरं विभुम् | सर्वत्र चिन्तितो ध्यानसर्वव्याधिप्रनाशनः || सर्वकर्माणि कुर्वीत सर्वसत्त्वेषु सर्वदा | सर्वं स्तम्भयते ह्येष सर्वं शोभयते शुभम् || सर्वमन्त्राश्च लोकानां अस्मिन् ध्याने निबोधिता | सिद्धिं गच्छन्ति ते क्षिप्रं परकल्पेऽपीहोदिता || २०८, प्. ४५८) ये च ताथागता मन्त्रा वज्राब्जकुलयोरपि | * * * * * * * * (?) शक्रेन्द्रब्रह्मरुद्रयोः || आदित्यवसवेन्द्राणां नक्षत्रग्रहज्योतिषाम् | गरुडोरगयक्षाणां ऋषिमुख्या सपूतनाम् || सर्वमन्त्राश्च सिद्ध्यन्ते अस्मिं कल्पे तु ध्यायिने | परतन्त्रविधानेऽपि स्वतन्त्रेणाभ्यन्तरेण वा || कुर्यात् कर्मसिद्धिं च क्षिप्रं ध्यानगतेन वै | आदित्यमण्डले ध्यात्वा उदयन्ते विश्वरूपिणम् || कुमारं बालिशाकारं शिशुभूषणभूषितम् | आरूढमण्डले दीप्तं गरुत्मन्तेऽथ वैनते || मीदृशाकारमव्यक्तं मूर्जे चापि सुचिन्तिते | दृष्ट्वा परबलस्तम्भं जायते च मनीषितम् || सर्वे च दष्टाः स्तभ्यन्ते नृत्यन्ते च परस्परम् | हसन्ते आतुराः सर्वे ग्रहाविष्टाश्च देहिनाम् || ज्वरार्ता मूर्च्छिता ये च उत्तिष्ठन्ते द्रुतं ततः | क्रन्दन्ते विविधा आर्ता भीमनादं करोति वै || ग्रहमातरकूष्माण्डैः गृहीतानां भुवि मानुषाम् | एभिर्लिङ्गैस्तदा मन्त्री लक्षयेदेतां समाहितः || इच्छया मोचयेत् क्षिप्रं विषसङ्क्रमणं तु वै | क्रीडापयति भूतानां तदा योगी रिरिंसया || आदित्यमण्डले नाडी प्रयोक्तव्या विषमूर्च्छिते | रविनाडीप्रयोगेण सर्वप्राणि च चालयेत् || निर्विषो भवते सुप्तः विषस्थावरजङ्गमः | ततोत्तिष्ठते क्षिप्रं विषसुप्तो न संशयः || अन्यश्च वर्द्धते क्षिप्रं विषार्त्तो भुवि भूतले | पुनरन्यो पुनश्चापि अन्यादन्यतरोऽपि वा || २०९, प्. ४५९) एवम्प्रकारैः सर्वत्र शतशोऽथ सहस्रः | यावन्नाडीप्रयोगेण तावद् भूतानि पाचयेत् || वस्त्रकुद्यस्तथा कुम्भे अस्मतोयहुताशने | क्षणेन चालयेन्नाडीं तत्रस्थं विषमाविषे || सर्वे ह्यातुराः स्वस्थास्तत्क्षणादेव भूतले | एवमाद्यप्रयोगेण कुर्यात् कर्म शताष्टकम् || असङ्ख्यं च विधिं कुर्यात् परमन्त्रासृतेन वा | एष प्रयोगः समासेन ध्यानो ह्युक्तोऽथ जापिनाम् || प्रयोक्तव्यः कल्पनिखिलः परतन्त्रो गरुत्मनः | मतं सङ्कल्पजं प्रोक्तं शैवं चापि विशेषतः || सर्वे च लौकिका मन्त्रा प्रयोक्तव्या ध्यानविस्तरे | इह मञ्जुरवे कल्पे ध्यानेनैव विशेषतः || सर्वतन्त्रप्रयोगैश्च मन्त्रैश्चापि सुपूजिते | मतयो येऽपि कल्पार्थाः प्रयोक्तव्या इह ते सदा || योगेऽस्मिन् ध्यानये दिव्ये कल्पराजोदिते हह | ध्यानेन सर्वे नियोक्तव्या युक्तिहेतुनिरञ्जने || सूक्ष्मश्चित्तविषये मन्त्रसिद्धिनिबन्धने | मुनिपुत्रोदिते शुद्धे सर्वबुद्धार्थमोदिते || जापिनो ध्यायते नित्यं सर्वसिद्धिसुपुष्कला || इति बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यम्ञ्जुश्रियमूलकल्पाद् अष्टत्रिंशतिमः महाकल्पराजपटलविसराद् द्वितीय सर्वलोकतत्त्वार्थतारक्रीडाविधिसाधनोपयिकसर्वकर्मध्यानपटलनिदेशः परिवर्तः समाप्तः | २१०, प्. ४६०) अथ एकचत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुन्रपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! सर्वबुद्धानुमोदिते त्वदीयमहाकल्पराजमहाविसरे महामन्त्रचर्यानुवर्तके सर्वसमयानुप्रविष्टे महामूलकल्पप्रविष्टास्पदभूते पञ्चमसर्वभूतरुतज्ञानाभिज्ञानं सर्वभूतरुतज्ञानाचिन्त्यगोचरं एष ते पक्षिराट् गरुत्मा स्वमन्त्रचर्यानुवर्तनरुतज्ञानाभिज्ञानां सर्वमन्त्राणां सर्वमन्त्राणां सर्वकल्पानां स्वसमयमनुप्रविष्टसर्वलौकिकानाम् एष एव ते भाषिष्यति सर्वतिर्यग्योनिगतानां सर्वपक्षिराजगरुत्मनां सर्वमन्त्रकल्पगोचररुतज्ञानं च चरितं चेति || अथ खलु तस्मात् पर्षन्मण्डलाद् वैनतेयो गरुत्मा बोधिसत्त्वाधिष्ठानेनानेकैर्गरुडशतसहस्रैः परिवृतः उत्थायासनात् पर्षन्मण्डलं प्रदक्षिणीकृत्य येन मञ्जुश्रीः तेनोपसङ्क्रम्य महाबोधिसत्त्वस्य पादौ कृताञ्जलिपुटः मञ्जुश्रियमेतदवोचत् - अहं महाबोधिसत्त्व ! अस्मिं महाकल्पराजे सत्त्वानामर्थाय हिताय सुखाय कर्मान्तरशतं सरहस्यं भाषिष्ये | तत् साधु महाबोधिसत्त्व ! अनुमोदतु | अथ मञ्जुश्रीर्वैनतेयमेतदवोचत् - भाष भाष महासत्त्व ! सत्त्वानुकम्पया | अथ वैनतेयो बुद्धाधिष्ठानेन स्वकीये आसने निषद्य प्रहृष्टमनसि कर्मोत्तरशतं सरहस्यं भाषति स्म | नमः समन्तबुद्धानामप्रतिहतशासनानाम् | तद्यथा - ओम् शकुन ! महाशकुन ! विततपक्ष ! सर्वपन्नगनाशक ! खख खाहि खाहि ! समयमनुस्मर | हुम् तिष्ठ बोधिसत्त्वो ज्ञापयति स्वाहा | कर्मोत्तरशतं भाषते स्म | नागाकर्षणं नागदमनं नागनिग्रहणं दष्टमदष्टावेशनं वाचया सर्पमावाहानं सर्पनिग्रहकरणं विषक्रीडनं सर्वविषक्रामणं वाचा मनसा बुद्ध्या वा पोषधिको त्रिरात्रोषितः शुक्लद्वादश्यां २११, प्. ४६१) नदीतीरे शुचौ देशे पञ्चरङ्गिकसूत्रेणाष्टहस्तं मण्डलकं कृत्वा अष्टपद्मप्रतिष्ठितं तत्र मध्ये भगवां धर्मं देशयमानः लिखेत् | तस्य दक्षिणेनार्यमञ्जुश्रियं कृताञ्जलिपुटो भगवतो मुखमवलोकयमानं लिखेत् | भगवतो बुद्धस्य वामे नारायणं चतुर्भुजं लिखेत् सर्वप्रहरणहस्तम् | तत्समीपे ग्रुडं विकृतरूपम् | तदनन्तरं विनताभरणं च लिखेत् | आर्यमञ्जुश्रियस्य पृष्ठतः आर्याक्षयमतिं सुधनं सुभूतिं च लिखेत् कृताञ्जलिपुटा | एवमभ्यन्तरमण्डले लेख्य पूर्वद्वारे बाह्यतः शुल्कभस्मना वज्रं समालिखेत् दक्षिणेन कृष्णवर्णिकया खड्गम् उत्तरेण पीतवर्णिकया गदं लिखेत् | पश्चिमेन रक्तवर्णं पाशं समालिखेत् ||\/ एवं बाह्यमण्डलेभ्यः मूलमन्त्रेण सर्वदेवाह्वाननं कृत्वा सर्वपुष्पैः सर्वगन्धैरभ्यर्च्य गुगुलुधूपं त्रिमधुरेण च बलिं दत्त्वा तेषामग्रतः खदिरसमिद्भिरग्निमुपसमाधाय सर्वसत्त्वेभ्यः कारुण्यचितमुपस्थाप्य नागासनोपविष्टः सर्पकण्टकानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् || ततः सिद्धिनिमित्तं सर्पा आगच्छन्ति | अर्घ्यो देयः | एवं सिद्धिर्भवति | स्वमन्त्रमावर्त्य वदेत् - मम सिद्धिं विधाय गच्छत | ततो गच्छन्ति || ततो विसर्ज्य मूलमन्त्रेणैव समभ्युक्षयेत् | ततः कर्मं समारभेत् | सर्वं च बलिद्रव्यमप्सु क्षिपेत् | पश्चाद् वाचामात्रेण सर्वविषकर्मणि करोति || विद्वेषणं कर्तुकामः सर्पास्थीनि विषाक्तामेकविंशत्याहुतिं जुहुयात् | विद्वेषो भवति || उत्सादयितुकामः सर्पनिर्मोकखण्डानामेकविंशत्याहुतिं जुहुयादुत्सद्यति | काकपक्षाणामेकविंशत्याहुतिं जुहुयात् सद्यः काकवद् भ्रमति | स्त्रीपुरुषवशीकरणे सर्षपाणां घृताक्तानामेकविंशत्याहुतिं जुहुयाद् वश्या भवन्ति | राजानं राजमात्रं वशीकरणे परमान्नस्य घृताक्तस्य एकविंशत्याहुति जुहुयाद् वशो भवति | लोष्टकमभिमन्त्र्य अग्नौ प्रक्षिपेत् न तपति | तृणेन मोक्षः | उक्तेन मत्स्या न बध्यन्ति | चेतनमचेतनं वा सत्त्वं छोटिकया आकर्षयति | २१२, प्. ४६२) सर्वव्याधिने उदकाभिषेचनेन स्वस्थो भवति | दण्डमभिमन्त्र्य द्वारमाहरेत् अपावृतं भवति | तमेव दण्डं नीलपटप्रावृतं गृह्य सङ्ग्रामे गच्छेत् परसैन्यं दर्शनाद् भिद्यति | स्वशाटके ग्रन्थिबन्धनेन सर्वमन्त्राः स्तम्भिता भवन्ति | मुक्ते मोक्षः | सर्पवदनं भस्मना पूरयेत् | यस्य नामं गृह्य करोति स मूको भवति | गण्डविषं सकृज्जप्तेन उदकेन हनेत् | गण्डं सङ्कुचति | पतति च परविद्या | अनेन बध्नीत | तथैव मोक्षयति | इष्टकमभिमन्त्र्य मावर्त्त्य जपेत् | परबद्धग्रन्थिं स्तोभयति | एवं वर्षापयितुकामः पूर्वोक्तं मण्डलकं लेख्य पूजां कृत्वा अग्निमुपसमाधाय वरुणसमिधानामष्टसहस्रं जुहुयात् आढकं वर्षति | एवं यावद्दशाढकं वर्षति | पिप्पलामभिमन्त्र्य हस्तेन गृह्य यावद्दिशं क्षिपति तत्र अशनं सङ्क्रामति | अग्निदाहेष्येष एव विधिः | उदकमवतरणमेवं कर्तव्यम् | नागानुत्सारयति | मृन्मयं सर्पं कृत्वा यमिच्छति तं दशापयति | अङ्गारसर्पस्य एष एव विधिः | पुनरपि मोक्षयति | सर्षपान् सप्तजप्तान् चतुर्दिशं क्षिपेत् | सर्पा आगच्छन्ति | मण्डलबन्धः कार्यः | पानीयेनाभ्युक्ष्य विसर्जयेत् | उदकेन मोक्षणं लेष्टुना नागाकार्षणं पांसु परिजप्य उदके क्षिपेत् निर्विष भवन्ति | धनुं गृह्य अलोहाश्चत्वारः शराः चतुर्दिशं क्षेप्तव्या | सर्पं शरचलितं गृह्य आगच्छन्ति | स च नागो वक्तव्यः | विषं प्रतिपिबेति | पिबति दष्टकोत्तिष्ठति | अथ सर्पाणि शल्लयितुं पानीये पानीयेनाभ्युक्ष्य तस्य तस्य शराः पतन्ति | सर्पश्चाक्षतो भवति | वल्मीकमृत्तिकया चत्त्वारो नकुला कर्तव्या | पानीयमभिमन्त्र्याभ्युक्षयेद् गत्वा सर्पापहाया गच्छन्ति | आगता वक्तव्याः - विषं प्रतिपिबस्वेति | पिबन्ति मृतक उत्तिष्ठति | अङ्गारमभिमन्त्र्य रेखां कृत्वा अर्कलतया ताडयेत् ततः सर्पो वध्यैराकृष्यमाणो आगच्छति | विषं प्रतिपिबेति पिबति | दष्टको निर्विषो भवति | ध्वजं छत्रं वाभिमन्त्रयेत् | यावन्तो मृतकाः विषपीतकाश्च सर्वे निरीक्ष्य निर्विषा भवन्ति वादित्रमभिमन्त्र्य वादयेत् | श्रुत्वा निर्विषा भवन्ति | पांसुना पञ्चरङ्गिकेण मण्डलमालिख्य तालशब्दं दातव्यम् | ततो नागाः सर्पाश्चतुर्दिशमागच्छन्ति | ते मण्डलं प्रविशन्ति | न भेतव्यम् | शिखाबन्धमात्मरक्षां च कारयेत् | २१३, प्. ४६३) अक्षिण्यभिमन्त्र्य क्रुद्धौ निरीक्ष्य वामाङ्गुष्ठं निपीडयेत् | तत्क्षणादेव पतति | सर्व इव रूपेण कुरुते | मुक्ते मोक्षः | एवं वाचया दष्टमदष्टं वा वेशयति मोक्षयति | विष्णुनिर्माल्यमभिमन्त्र्य यत्र रथ्यायां गृहे वा क्षिपति तत्क्षणादेव सर्पो मानुषं दशति | पानीयेनाभ्युक्षिता निर्विषा भवन्ति | हस्तोत्क्षेपेण षण्मासिकमुपस्तोभग् | आत्मान अभिमन्त्र्य सर्पैर्यथेष्टं दंशापयेत् | विषोऽस्य न क्रमते | कटककेयूरकुण्डलैरात्मान रलङ्करोति | पांसुमभिमन्त्र्य कर्णे जपेत् | उदकेनापि व्यजनेनापि मनसा सिद्धिर्मन्त्रमावर्त्य भूमौ पांसुं दद्यात् | मृतक उत्तिष्ठति | महामांस घृतेन सह धूपः पुष्टिकरणम् | मानुषास्थिचूर्णं काकोलूकपक्षाणि च धूपः मारणम् | मदनं तुषबीजानि उत्साधनो धूपः | सर्षपराजिकाधूपं ज्वरकरणं कोद्रवबिडालविष्ठं विद्वेषणं कपालचूर्णमधूकचूर्णं चैअकतः कृत्वा मधुना सह धूपः उत्सादने | मोरङ्गी एरण्डनालं उत्सादने धूपः | गोपित्तं मानुषास्थि च घृतेन शत्रोर्मारणे धूपः | मत्स्याण्डं प्रसन्ना च कर्पासास्थिसमन्वितम् | देशान्तरगतस्य धूपः शीघ्रमानयति नरम् || विदलानि मसूराणां मांसं कुक्कुटाण्डस्य तु | एष प्रविशतस्य धूपो देयः अकार्षणमतः परम् || भल्लातकस्य बीजानि तिलतैलेन योजयेत् | एषाकर्षणधूपः दद्यादाकर्षणस्य | घृतगुग्गुलुं दद्यात् | धूपो रोगनाशनम् | तिलसर्षपैर्धूपं दत्वा तान्येव जुहुयात् | सप्तरात्रं त्रिसन्ध्यं यस्य नाम्ना वशः | लवणं राजिकाहुतिमष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्तरात्रम् | महापुरुषवशीकरणम् | कपालचूर्णं सहस्राभिमन्त्रितं कृत्वा यमिच्छति तं चूर्णेन संस्पृश्य वशमानयति | श्मशानभस्मसहितेन यं चूर्णयति तं ज्वरेण गृह्णापयति मोक्षयति | नकुलरोमाणि सर्षपाणि च सर्पनिर्मोकं यस्य नाम्ना धूपो दहति स सर्वलोकविद्विष्टो भवति | तिलैर्वशीकरणं अर्थोत्पादनानि च कुरुते | तिलतण्डुलैर्घृताक्तैर्नारी वशमानयति | यवतिलमण्डूकवसां नागस्थाने त्रिरात्रं जुहुयात् | देवां वर्षापयति | २१४, प्. ४६४) मृण्मयं गरुडं कृत्वा करसम्पुटेन गृह्य अंसमात्रमुदकमवतीर्य अर्द्धरात्रं जपेत् यस्य नाम्ना स वशो भवति | श्मशाने तण्डुनां प्रकीर्य देवहृदयं स्थाप्य प्रहरणं जपेत् वृत्तिं कल्पयति सपरिवारस्य | नकुलमूषकरोमाणि कर्पासास्थिधूपः सर्वभूतवशङ्करः | विषं भल्लातकं मधुना सहधूपः वशीकरणम् | कुक्कुटाण्डकपालानि कटुतैलेन सह धूपं वशीकरणम् | पलाशं सुरसबीजानि मदनपुष्पाणि धूपो वशीकरणे | शतपुष्पा देवदारुं पुरीषं मण्डूकं चटकस्य धूपो वश्यार्थः | यवास्तिला दूर्वा च गोमूत्रेण धूपो वशीकरणे | हरितालं काकजिह्वा च शोणितेन धूपः मूकीकरणे | मानुषरोमाणि गोमांसेनैकतस्तैलेन संयुक्तो धूपो रोगकरणे | काकपक्षोलूकपक्षाणि च निम्बतैलेन उच्चाटने | गुग्गुलुघृतं सीधुसहितं धूपोऽयं सर्वसत्त्वप्रियङ्करः | पत्रकं त्वचं तुरुष्के धूपं सर्वसत्त्वानुबन्धनकरम् | आज्ञाकरो भवति | तुरुष्कं चन्दनं कर्पूरेण सह अञ्जनं राजवशीकरणम् | पूजाबलिविधानं कृत्वा विष्णुप्रतिमाया अग्रतः उपरिष्टान्महामांसाहुतीनष्टौ हुत्वाष्टसहस्रं जपेत् त्रिरात्रम् द्रव्यं यमिच्छति | श्मशानभस्मना प्रतिकृतिं कृत्वा महामांसधूपं दत्त्वा कुशविण्डकोपविष्टः अष्टसहस्रं जपेत् रात्रौ श्मशाने यमिच्छति तमानयति | आज्ञां करोति | उच्चाटने कर्पासतुषां जुहुयात् काकपक्षैः क्षणादुच्चाटनो भवति | श्मशान उदुम्बरसमिधाभिरग्निं प्रज्वाल्य कपालोपविष्टः सर्पकञ्चुकं जुहुयात् | अन्नमक्षयं भवति | श्मशानास्थिचूर्णं सर्षपसहितमष्टसहस्रं जुहुयात् यस्य नाम्ना स योजनशतादागच्छति | सर्वकामेषु कर्तव्यः | देवो श्वेतचन्दनेन विततपक्ष सर्वनागाभरणं तीक्ष्णघोरं विकृताननं विकृतनखं पद्मोपविष्टं अधोदत्तदृष्टिं निम्नतरं काष्ठे कुट्ये भित्तौ वा पोषधिकेन कर्मकारेण कारापयेत् | वितस्तिमात्रं कृत्वा तस्याग्रतः सर्वकर्माणि कुर्यात् | पलाशे पुष्टिकामेन बैल्वं वश्यार्थहेतुना उदुम्बरं च पुत्रकामाय गोकामः शिरीषमयं मधुकं वा द्रव्यकामः कारयेद् विधिवत् | सूकरमांसेन फलकामम् | अश्वमांसेनापत्यं भवति | कृष्णसारमांसेन श्रियार्थी पृथुतमानुकीर्तिकामो वा स्त्रीकामः पृथिवीकामो वा व्याघ्रमांसं २१५, प्. ४६५) व्यवहारदिविजयार्थी महामांसम् वस्त्रार्थी हस्तिबला राजवशिकरणे अतिबला राजामात्यवशीकरणे अश्वगन्धां जुहुयात् | उत्सादे हस्तिरोमाणि पिचुमर्दमभिचारे तु एते काष्ठा प्रोक्ताः || पटकरणं भवति | धातुसौवर्ण पौष्टिके प्रक्तिः | रजतादीं कीर्तिवृद्धये | काकपक्षहोमेनोत्सादयति | गृध्रपक्षैर्मारयति | कौशिकपक्षैर्विद्वेषयति | मयूरपक्षैर्विद्वेषयति | मयूरपक्षैर्धनानि दद्यात् | तित्तिरिपक्षैः स्त्रीं मगुलिपक्षैः पुत्रां काकपक्षैः सुवर्णम् टिट्टिभिपक्षैर्मोहनम् | श्वमांसेनोत्सादयति महिषमांसेनाकर्षयति आभिचारुके महामांसेन शान्तिके मृगरोमाणि कन्यार्थी उलूकरोमाणि देशघातेच्छा गलरोमाणि विद्वेषणे मानुषरोमाणि आभिचारुके मानुष्यरोमाणि शत्रुनाशने सर्वेष्वेव तेषु त्रिसन्ध्यं सप्ताहिको होमः | स्मरणमात्रेणाहं सर्वविषकर्माणि करोति | सततजपेन सर्वकर्माणि करोमि | यो मम भगवं अस्मिं कल्पराजे मन्त्रं साधयमानः त्रिसन्ध्यमुदीरयिष्यति तस्याहं सर्वविषोपद्रवचिकित्सां करिष्यामि | पृष्ठतोऽनुबद्धो भविष्यामि || अथ तस्मिन् समये स्वरूपमुद्रां भावयति स्म | अङ्गुष्ठौ परस्परवेष्टितौ कृत्वा शेषाङ्गुल्यो पक्षवत् संस्थिता स्याद् | गरुडरूपमेव मम प्रोक्तं पिनाकिना मुद्रा || अस्य सन्दर्शनान्नागा विद्रवन्ति भयार्दिता | अधोमुखास्तु अङ्गुल्यः मन्त्रेणानेन मन्त्रवित् || ओं जः || नागदमनीति विख्याता नागानां दर्पनाशनी | पद्मकोशप्रतीकाशौ अङ्गुल्यः पार्श्वतः स्थितौ || अङ्गुष्ठौ मध्यतः स्थाप्य निष्पीड्याङ्गुल्यं तु यत्नतः | नागदमनीति विख्याता दिव्या दिव्येषु कर्मसु || अनामिका तर्जनी चैव मध्यमेन सुसंस्थितम् | अङ्गुष्ठौ वक्त्रसंस्थानं शेषा पार्श्वतः स्थिता || गरुडनादेति विख्याता सर्वनागानुत्रासिनी | यानि च मयोक्तानि सर्वमन्त्रेषु साधने || २१६, प्. ४६६) लौकिके गारुडे शास्त्रे * * * * * * * * (?) | सर्वे तेऽनेनैव कर्तव्या सर्वसत्त्वानुकम्पया || किञ्चित्कार्या अशेषास्तु मूलकल्पार्थसाधका | अस्मिं कल्पवरे नित्यं सर्वसत्त्वानुवर्णिते || प्रसिद्धाः सर्वकर्मार्थाः सर्वसत्त्वार्थपुष्कलाः | ते वै मन्त्रमुख्ये तु प्रयोक्तव्याः कर्मविस्तरे || इह कल्पवरे मूले प्रतिष्ठा क्ष्मातलेन ते | समुषत्सर्वभूतानामिह मन्त्रासृतैर्गुणैः || विस्तरेज्ञः सर्वतो दृष्ट्या सर्वसत्त्वानुकम्पने | प्रसिद्धं सिद्धिकामानां हेतुयुक्तिसमाश्रिताम् || कुर्युः सर्वतः सिद्धिः सर्वमन्त्रेषु देहिनाम् | सर्वसत्त्वाश्च सान्निध्यं कल्पेषु मनसेप्सितम् || इतिहासपुरावृत्तं वर्तमानमनागतम् | कथयन्त्येष संयोगान्मन्त्रमुद्रसमीरणात् || आकृष्टा एष भूतानां मन्त्रोऽयमपराजितः | ईशानः सर्वभूतानां रुद्रोऽयं सुरपूजितः || तुम्बको त्र्यक्षराज्ञेयो कल्पस्थोऽथ महीतले | हिमाद्रिनिलयो नित्यं उमापतिमहेश्वरः || तृशूली खड्गधृग् ज्ञेयः पिनाकी वृषभध्वजः | गणाध्यक्षः शूलिनश्चैव महेशाख्योऽथ महर्द्धिकः || अक्षरोऽक्षरमित्याहुः कपर्दी तु गदायुधः | एष मन्त्रो महार्थस्तु सर्वभूतार्थकम्पकः || कुर्यात् सर्वाणि कर्माणि सर्वकर्मेषु साधनम् | एष देवो महात्मा वै महादेवेति कीर्त्यते || प्रसिद्धः सर्वकर्मार्थे फलहेतुसदाप्रदे | तस्य मन्त्रं प्रवक्ष्यामि शृणुध्वं भूतकांक्षिणः || २१७, प्. ४६७) ओं स्थः नमः सर्वबुद्धानामप्रतिहतशासनानाम् | त्रैलोक्यगुरूणामचिन्त्याद्भुतरूपिणाम् || शिवोद्भवोद्भव भुवनत्रयपूजिताय हूं हूं फट् फट् | एष मन्त्रो महामन्त्रः सर्वशत्रुभयप्रदः || आयुषत् सर्वभूतानां कर्म शान्तिकपौष्टिके | सर्वेष्वेव हि कर्मेषु प्रयोक्तव्यो मनसोद्भवै || सर्वभूतरुतज्ञानं अभिज्ञज्ञानचेष्टितम् | अभिज्ञवशिता चैवं सर्वशास्त्रज्ञतां समम् || प्राप्नुयात् पुष्कलां चार्थां फलहेतुसमुद्भवाम् | यावन्त्यो लौकिका मन्त्रा सर्वाश्च सुपुष्कला || तां सर्वां प्राप्नुयान्मन्त्री सिद्धमन्त्रस्तु बुद्धिमां | यावन्तो लौकिका मन्त्रा शैवाश्चापि सुपूजिता || मन्त्रा गरुत्मने चापि सिद्धिहोमफलोन्मुखम् | सर्वलौकिमन्त्रास्तु इन्द्ररुद्रोद्भवोद्भवा || ते स्युर्मन्त्रराट् सर्वे निबद्धा विधिहेतुतः | याम्याग्निवायुतोयानां कुबेरो मातरो दया || सङ्ख्या द्वादशका ह्येषा ब्रह्मेशानपूरकाः | सवितुः शक्रदेवानां पितामहसुपूजका || कामधात्वेश्वरा ख्याता ये मन्त्रामरचारिणाम् | सर्वे ते वशमायान्ति मन्त्रे नामीरिताधिप || * * * (?) स्वयाम्यदग्निनां दिवौकसजलौकसाम् | दिङ्मन्दिराश्रया ये च विदिक्षु श्चापि चारिणः || तदोर्ध्वं नभस्तले चापि अधः पातालधामकाः | पथोश्रयसमापन्ना फणिनो ये महर्द्धिका || हिमाद्रिकुक्षिसंविष्टा विन्ध्यकुक्षौ समाश्रिता | महाधातुवरे चित्रे महाशैलेऽथ विश्रुते || २१८, प्. ४६८) नानादेवगणाकीर्णे सिद्धचारणसेविते | अप्सरोगणसङ्गीते सुमेरो रविरिवोज्ज्वले || यत्रस्था येऽत्र नागा वै ये तु भूतगणाश्रया | विचित्ररूपिणो ये वा ततः स्था ये समागता || सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता | ये च दिव्यगणा मन्त्रा सर्वभूतभयप्रदा || सर्वे ते वशमायान्ति मन्त्रेणानेन योजिता | गिरिगह्वरदुर्गेषु विचित्रैः कन्दरोदरैः || मन्दिरैर्हेमसङ्काशैर्निवसन्ति महीतले | सर्वभूतगणाध्यक्षा विविधा हारिणो जनाः || * * * * * * * * (?) निवासेष्वभिकीर्तितैः | दिव्यभूतगणाध्यक्षा विचित्राश्चैव रूपिणः || सर्वभूतगणाश्चैव विचरन्ति महीतले | विविधाकारमुख्यास्तु विचित्रा रूपगताश्रया || विविधाकारविचारस्थौ विविधाम्बरभूषणा | ते सर्वे मन्त्रमुख्येन पथेवारपश्यता || अनेता सर्वमन्त्राणां लौकिकानां महर्द्धिकाम् | सर्वभूतवशं कर्ता प्रभ्रमन्तेश्वरो वरः || सर्वमन्त्रेश्वरां मुख्यां यमरुद्रेन्द्रवासवाम् | मन्त्रनाथोऽथ मुख्यस्तु सर्वलौकिकमग्रजी || बिभर्ति सर्वतो मन्त्रां कल्पांश्चैव सुपुष्कलाम् | एष मन्त्रेश्वरो देव अधिपतिः सर्वमन्त्रराट् || सर्वविघ्नेश्वरो मन्त्री स्मर्तव्यः सर्वजापिभिः | उग्रमुग्रेऽथ मन्त्राणां प्रभुरेव प्रगीयते || सर्वस्मिं शैवतन्त्रे वै सर्वलौकिकचेष्टितैः | चरितं चापि भूतानां रुतं चापि जपेत् सदा || २१९, प्. ४६९) मन्त्रिभिः सर्वकालं वै प्रयोक्तव्यः सिद्धिकांक्षिभिः | वैनतेयस्तदा पक्षी प्रणम्य जिनवरात्मजाम् || मञ्जुश्रियं तथा नित्यं सर्वां बुद्धसुतान् तथा | उवाच मधुरां वाणीं पक्षिराट् स महाबलः || भाष भाष महासत्त्व ! गम्भीरार्थसुनिश्चित ! | धर्मनैरात्म्यतत्त्वस्य अग्रधर्मप्रतिष्ठित ! || मयोक्तं कल्पविस्तारं मूल्यमन्त्रार्थगोचरम् | अभिसंक्षेपतो ज्ञेयं सर्वमन्त्रेष्वराधिकम् || लौकिकेष्वेव मन्त्रेषु प्रयोज्यः सर्वसाधने | नाभ्यन्तरपदं मन्त्रं मयोक्तं यं प्रशस्यते || जिनपुत्रैस्तु महावीरैः सर्वश्रावकखड्गिभिः | नान्योत्कृष्टतमं मन्त्रं मयि बुद्धिः प्रयुज्यते || ईषिस्मितमुखो धीर मञ्जुघोषमथाब्रवीत् | अथाह मधुरं वाक्यं शब्दार्थास्पदभूषणम् || एष ते सुवर्णमाख्यातः धर्मस्वामी नरोत्तमः | विसृक्षुः सर्वमन्त्राणां धर्मनैरात्म्यदेशकः || जगद्गुरुर्माअवीरो बुद्ध आदित्यबान्धवः | प्रणेता सर्वमन्त्राणामग्रमन्त्रेश्वरो वरः || प्रभुरेकमनार्थो धर्मधात्वीश्वरो गुरुः | सर्वसत्त्वानुकम्पार्थ अस्माकं च सुखोदयः || धर्मकोटिगतो निष्ठो भूतकोटिमनालयः | एष ते सर्वमन्त्राणां कथयन्त्याशु महाद्युतिः || बोधिसत्त्वपिटकावतंसकान् महायानवैपुल्यसूताद् आर्यमञ्जुश्रियमूलकल्पाद् एकूनचत्वारिंशतिमो गरुडपटलपरिवर्तः | २२०, प्. ४७०) अथ द्विचत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामान्त्रये स्म | अस्ति मञ्जुश्रीः ! त्वदीयसर्वसाधनोपयि कमण्डलविधाने सर्वमन्त्रतन्त्रेषु मुद्रापटलसमयरहस्यम् यैः सर्वसन्त्रासमयं नातिक्रमन्ति समयसञ्चोदितमनुप्रविष्टा भवन्ति सर्वलौकिकलोकोत्तरमण्डलेषु सामान्यसाधनोपयिकसर्वमन्त्रतन्त्रेषु सर्वे सुदह्येते परमरहस्यतमा परमसौभाग्यतमा परमाश्चर्याद्भुततमाः | यैर्विना न शक्यन्ते सर्वमन्त्रा आराधयितुं साधयितुम् | पूर्वं सर्वतथागतैर्भाषितवन्तः | एतर्हि अहं च भाषिष्ये सर्वसत्त्वानामर्थाय हिताय सुखाय लोकनुकम्पायै महतो जनकायस्यार्थाय सर्वमन्त्रजापिनां महामन्त्रको शनित्यौत्सुक्यधर्मधात्वचिन्त्यमहायाननैरात्म्यधर्ममेघमनुप्रवेशनता- यैकतमं च तत् भाषिष्येऽहम् || शृणु मञ्जुरव ! सर्वगुह्यमुद्रासमोदिताम् | यथा तथा स्वयं वाच्यं पुरा गीतमृषिसत्तमैः || कृत्स्नमुद्रागणं ह्यग्रं गुह्यमन्त्रार्थिनां सदा | सर्वकालेषु योज्येदं सर्वकर्मेषु मण्डले || अथ मञ्जुरवः श्रीमां विहसन् पङ्कजेक्षणः | निरीक्ष सुगतं श्रेष्ठं सर्वधर्मीश्वरं प्रभुम् || कृताञ्जलिपुटो वीरः जिनपुत्रो महर्द्धिकः | उवाच मधुरां वाणीं दिव्यशब्दार्थभूषिताम् || साधु साधु महाप्राज्ञ ! धर्मचक्रानुवर्तकम् | धर्मतत्त्वार्थमन्त्रत्वं यस्त्वं भाषयसे विभोः || एवमुक्त्वा तु सुगतं शाक्यसिंहं नरोत्तमम् | अथ मञ्जुरवः श्रीमां तूष्णीं तस्थुस्तदन्तरे || इत्याह भगवां बुद्धो धर्मधात्त्वेश्वरस्तदा | शृणोथ भूतगणाः ! सर्वे ! देवसङ्घा ! महर्द्धिका ! || २२१, प्. ४७१) मण्डले भुवि मर्त्यानां दरिद्रा वाथ दुःखिताम् | आलिखन्तानां भुवि मुद्राणां सान्निध्यं वो भविष्यथ || ये च वै सर्वबुद्धानां प्रत्येकार्हथखड्गिणाम् | श्रावकानां तु ये मुद्राः कथिता मुनिवरैः || सर्वलौकिकमुद्रास्तु जिनाब्जकुलवज्रिण | सर्वमुद्रास्तु सर्वत्र सर्वकर्मेषु योजिता || तानहमभिसंक्षेपाद् वक्ष्येऽहं सर्वमन्त्रिणाम् | यत् पूर्वं कथितं मन्त्रं सर्वं मण्डले च कर्मसु || स्थानं होमो जपः कर्म तं तथैव प्रयोजयेत् | मण्डले आदितो लेख्य मुद्रोऽयं बुद्धनिर्मितः || सितं छत्रोऽथ बुद्धानां समन्तज्वालोऽथ भूषणम् | पञ्चरङ्गिकचूर्णैस्तु समन्तान्मणिराजितम् || विचित्ररङ्गोज्ज्वलं श्रेष्ठं इन्द्रायुधसमप्रभम् | एष मुद्रो महामुद्रो बुद्धानां मूर्द्धजो वरः || तस्य दक्षिणतः पात्रं समन्ताज्ज्योतिमालिनम् | तदनन्तरे खखवरकः दंष्ट्रा जीबरजो पर || श्रीवत्सस्वस्तिकश्चक्रकरकं चापि वर्णितम् | पुस्तको ध्वजमित्थाहुः पताकं च तदन्तरे || घण्टा पश्चिमजो मुद्रः कथितं लोकपुङ्गवैः | छत्रे वामतः पद्मं मणिमुद्रो तदन्तरे || तदन्तरे वज्रमित्याहुस्त्रिसूच्याकारसम्भवम् | उत्पलं तु गतामुद्रः सलिलः सलिलाश्रितः || तोयश्च तदन्त्ये वै तोयधाराभिनिःश्रितः | तदन्ते कुण्डलौ ज्ञेयौ भूषालौ शोभनौ तथा || तदन्तेऽथ महाशैलः चतुरत्नोऽथ उज्ज्वलः | तदन्ते महोदधिर्लेख्यः विचित्रो रङ्गोज्ज्वलः || २२२, प्. ४७२) तदन्तेऽथ महावृक्षः सफलो दलभूषितः | एष वृक्षो महामुद्रो वामपार्श्व जान्तजाम् || सितातपत्रोऽथ बुद्धानां मुद्रोह्युक्तो वरोग्रजः | मन्त्रेऽथ खड्गिनां ज्ञेयः प्रत्येकजिनयो वरः || चीवरं मुद्रवरो ह्युक्तः सर्वश्रावकसम्भवः | आर्याणामर्हतां लोके दंष्ट्रा चैव प्रगीयते || तत्फलोदधिगतां लोके श्रीवत्सो मुद्रमिष्यते | खखरकश्च महामुद्रः पत्येकजिनजोऽपरः || धर्मचक्रोऽथ मुद्रो वै सर्वदृष्टिविदालकः | कथितं धर्ममुद्रं तु कारकाक्षेपजः स्मृतः || प्रज्ञापारमितां लोके जिनधातुर्मुद्रोऽथ पुस्तकः | ध्वजपताका महामुद्रौ विघुष्टौ लोकपूजितौ || सर्वाकृष्टौ महावीर्यौ सर्वमुष्णीषसम्भवौ | घण्टापश्चिमो मुद्रः प्रत्येकार्हमूर्धजः || बुद्धमुद्रे तु वामे वै पद्मो लोकेशसम्भवः | मुनिमुद्रस्तथा ज्ञेयः समन्तज्योतिलाभिने || वज्रं वज्रिणेमुद्रा बोधिसत्त्वस्य धीमतः | उत्पलं मञ्जुघोषस्य कुण्डलः क्षितिगर्भिण्ये || महातोयतो मुद्रः कथितो गगनालये | महाशैलोऽथ मुद्रेयं सर्वदृष्टिविदालिने || महोदधि तथा मुद्र सुगतात्मज ! सागरे | महावृक्षस्तथा मुद्र उद्घुष्टो लोकविश्रुतः || सर्वांश्च जिनपुत्रांस्तु मुद्रोऽयं त्रिभवालये | घण्टासमीपजे स्थाने आलिखेज्जिनवर्णितम् || मुद्रं सर्वमुद्राणां चतुरश्राकारसम्भवम् | विचित्रं रङ्गजोपेतं चारुवर्णं विराजकम् || २२३, प्. ४७३) * * * * * * * * (?) समन्तान्मणिविभूषितम् | ज्वालामालिनं दीप्तं पञ्चरङ्गोज्ज्वलं शुभम् || पिण्डिकाकारमुद्यन्तं इन्दुमर्कनिभं शुभम् | * * * * * * * * (?) विराजन्तं महाद्युतिम् || एष मुद्रो महावीर्यः सर्वमन्त्रालयः शुभः | त्रिविधानां तु मन्त्राणां ज्येष्ठमध्यमकन्यसाम् || स्थानोऽयं मुद्रमुख्योक्तः सर्वकर्मार्थसाधकः | एतदभ्यन्तरं लेख्यो महामुद्रागर्भमण्डले || यो यस्य मण्डले मन्त्रः संयोक्ता लोकविश्रुते | तदेव मध्ये आलेख्यं छत्रस्येव महीतले || तन्मध्ये मण्डले चापि रूपकं मुद्रमेव वा | वरदा रूपका लेख्या मञ्जुघोषोदयस्तथा || सर्वे वै मन्त्रनाथास्तु सर्वमन्त्रार्थवा सदा | न चेद् भुवि मुद्राणामालिखेद् विधिचेष्टिताम् || तन्न्यस्तौ पूर्णकुम्भस्तु विजयेत्याहुर्मनीषिणः | बहिःस्था मण्डले चापि मुद्रामालिखेद् व्रती || यथोक्तैः पूर्वनिर्दिष्टैर्द्वितीये मण्डले जपी | स्थानेष्वेव सर्वत्र दिग्विदिशश्चापि सर्वतः || आलिखेत् सर्वदेवानामृषियक्षगरुत्मनाम् | मुद्रामालिखेद् धीमां पिशाचोरगराक्षसाम् || परतीर्थ्येमतां सिद्धां किन्नरा कटपूतनाम् | क्रव्यादव्यन्तरांश्चैव सकूष्माण्डं दूषको नारकोत्सहाम् || सर्वसत्त्वां भृवांश्चैव रूपारूप्यकामजाम् | द्वितीये मण्डले नित्यं आरूप्यं सुरजोद्भवम् || आलिखेन्मुद्रनित्याग्रं त्रिकोणाकारसम्भवम् | पूर्वायां दिशि मासृत्य रेखमाश्लिष्टमुज्ज्वल || २२४, प्. ४७४) एतत् सुरमुख्यानामारूप्यानां महर्द्धिकाम् | मुद्रा समाधिजेत्याहुरादिबुद्धैस्तु वर्णितम् || ततोत्तरे तु तथा रेखे ब्रह्मणः पद्मजोद्भव | रूपावचरमित्याहुर्मन्त्रं त्रिभुवनालये || तदेव दक्षिणा रेखा गर्भमण्डलतो बहिः | दक्षिणं दिशमाशृत्य मुद्रेः कामजो वरः || निर्दिष्टो मुनिमुख्यैस्तु कामधात्वेश्वरे परे | मुद्रोऽयं निर्मितो लोके सर्वदेवसमन्दिरे || रुद्रेन्द्रवसुमुख्यानां विष्णुतीर्थ्यां दिगम्बराम् | अर्कवासवमौषध्यां विवश्वयमचिह्निताम् || लोकपालां बहिस्तां तां यथामन्दिरदिक्षु ताम् | तथाचालिखेत् सर्वांस्तथा मुद्रांस्तु योजयेत् || यो यस्य वाहनः ख्यातः प्रहरणावेषधारिणम् | तं तथैव तथा मुद्रो निर्दिष्टो लोकपूजितैः || एष मुद्रगणो ह्युक्तः सर्वलोकोत्तरः शुभः | लौकिकामथ सर्वत्र सर्वकर्मेषु साधकः || निर्दिष्टा मुद्रमुख्याश्च सर्वमुद्रोऽथ मन्त्रिणाम् | आलेख्य तु भुवि मर्त्त्यैस्तु जापिभिः सिद्धिकामदैः || बोधितत्त्वलिप्सुरिति || बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात् चत्वारिंशतिमः महाकल्पराजविसरात् सर्वकर्मसाधनोपयिकः परिसमाप्त इति | २२५, प्. ४७५) अथ त्रिचत्वारिंशः पटलविसरः | अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | अस्ति मञ्जुश्रीः ! त्वदीये मण्डलविधाने सर्वकर्मेषु सर्वतन्त्रमन्त्रेषु आह्वानन विसर्जन जप नियम होम साधन रक्षाविधानादिषु सर्वकर्मेषु महामुद्रं एक एव महावीरमसङ्ख्येयेषु सबुद्धकोटिभाषितं चाभ्यनुमोदितं च कतमं च तत् || शृणुस्व मञ्जुरव ! श्रीमां ! गम्भीरार्थसुतत्वधीः ! | यं बध्वा जापिनः सर्वे || महामुद्रां महापुण्यां महामङ्गलसम्मतम् | महाब्रह्मसमं पुण्यं पवित्रं पापनाशनम् || महाक्षेमङ्गमं श्रेष्ठं निर्वाणपदमच्युतम् | शिवं शान्तं तथा ज्येष्ठं शीतीभूतं परायणम् || सर्वमुद्रेश्वरं ख्यातं सर्वमुद्रेषु मूर्धजम् | सर्वतन्त्रेश्वरं नातं ख्यातं त्रिभवालये || ऊर्जितं च त्रिधा दिव्यं भौमदिव्या येष्वपि | साक्षाद् बुद्धमिव चिह्नं सर्वसत्त्वाश्रयं विभुम् || प्रपुष्टत्रिभवे नित्यं सर्वमुद्रैस्तु मुद्रराट् | रक्षार्थं जापिनां नित्यं सर्वकर्मेषु मन्त्रिणाम् || रक्षोघ्नमगदं ख्यातं मङ्गल्यमघनाशनम् | उत्कृष्टं सर्वकर्मेषु दुष्टसत्त्वनिवारणम् || दुर्दान्तदमको लोके महामुद्रोऽयं प्रणीयते | सर्वमन्त्रेषु युक्तो वै त्रिजन्मगतमन्त्रिणाम् || हन्युर्विघ्नान् स सर्वत्र सर्वकर्मेषु मन्त्रिणाम् | त्रिधा योनिगतां मन्त्रामावाहयति तत्क्षणात् || पुनर्नयति तां लोकं पुनर्नाशयते हि ताम् | पातयत्येव सर्वत्र कृत्स्नां चैव महीतले || २२६, प्. ४७६) पुनः कीलयते मुद्रां बन्धनोरुन्धनादिभिः क्रियैः | पीडनोत्सादनो मुद्रः शोषणो विध्वंसनस्तथा || पुनर्जीवादनः ख्यातो मन्त्रिणां त्रिभुवनालये | शान्तिकेषु च कर्मेषु महामुद्रोऽयं प्रयुज्यते || शोभोऽथ सर्वमन्त्राणां शुद्धो निर्मलपापहा | सर्वार्थसाधनो लोके प्रसिद्धः सर्वमग्रतः || लौकिकानां च मन्त्राणामग्र्या लोकोत्तरास्तथा | श्रेष्ठाः सर्वकर्मार्थे तथा शान्तिकपौष्टिके || नित्यं क्षेमङ्गमो मुद्रः प्रयुक्तः सर्वमन्त्रिभिः | नित्योऽयमपराजितो ह्युक्तः ग्रः सर्वमन्त्रैस्तु योजितः || परम्परास्थो भूतकोटिस्थः धर्मधात्वेश्वरो निजौ | अनक्षरोऽभिलाप्यश्च अक्षरो नित्यमक्षरो || धर्मनैरात्मभूतस्थः अभूतो भूतमुद्भवः | विरजस्को नेञ्ज्यश्च निष्ठो शून्यः स्वभावतः || अकनिष्टस्तथा ज्येष्ठः शुभो निर्वाणगामिनः | पन्थानोऽनुत्तरां बोधो प्रत्येकार्ह सम्भवो || धर्ममेघस्तथा शान्तः निःसृता सैन्यवारिजः | तत्त्वार्थपरमार्थज्ञ उभयार्थार्थपूरकः || महामुद्रो महौजस्कः सर्वबुद्धैः समुद्रितो | महार्थो महावीर्य एकवीरो महर्द्धिकः || * * * * * * * * (?) सर्वकर्मार्थसाधकः | अनेकाकारवरोपेत अनेकाकारसम्भवम् || सर्वज्ञपदविदं ज्ञेयमशेषो शेषनैष्ठिकम् | ज्ञानं ज्ञेयं महोच्छेयं विघुष्टं मुनिवराजितम् || सर्वभूतसुराभ्यर्च्य प्रत्येकार्हथ पूजितम् | महामुद्रोत्तमं धर्मं अच्युतं पदमुत्तमम् || आदौ तावच्छुचौ देशे एकवृक्षे महानगे | महोदधितटे रम्ये मेध्यस्थण्डिल्यमाश्रिते || २२७, प्. ४७७) सरित् कूपे पुलिने वा देवमन्दिरशोभने | मारारेर्भवने चापि विहारावसथ मन्दिरे || विजने सिक्तसंसृष्टे पुष्पप्रकरभूषिते | सुगन्धगन्धोदकासिक्ते सुधूपे धूपधूपिते || प्राङ्मुखः उदङ्मुखो वापि शान्तिकपौष्टिकयोश्चापि | दक्षिणे रौद्रकर्मार्थे तं जिनैर्वर्जितं सदा || श्रीसौभाग्यवश्यार्थमाजश्चाहेतुतः सदा | पश्चान्मुखं तु बध्नीयान्महामुद्रवरं परम् || उच्चदृष्टि यदा बुद्धे उत्तिष्ठं देहसिद्धये | अधः पातालं गच्छेदसुरेश्वरतां व्रती || शुचिदेहसमाचारः शुचिमन्त्रसमन्त्रवित् | तदा मुद्रवरं युञ्ज्य स्नातोपस्पृश्यत जप्तधीः || उभौ च हस्तौ प्रक्षाल्यौ मृद्गोमयसुगन्धिनम् | शुचितोय सदा शुद्धे कृमिजन्तुविवर्जिते || नवारिस्रुते शुचे शौचे उभे हस्तेऽथ पूजिते | सयोज्येथ मुष्टिस्थौ सम्पुटाकारचेष्टितौ || ईषिच्छुषिरौ समन्तात् षडङ्गुलौ उच्छ्रितौ | उभयाङ्गुष्ठमध्यस्थौ कन्यष्ठाङ्गुलिनामितौ || कृत्वाथ हृदयोद्देशे शुक्लवस्त्रावगुण्ठिते | दर्शयेत् सर्वकर्मेषु साधने * * * * * (?) || सर्वभूते वै क्षिप्रं कृष्टमात्रेण ईप्सितम् | एष मञ्जुरवो मुद्रः सर्वकर्मार्थसाधक इति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् एकचत्वारिंशत्तमः पटलविसरद् द्वितीयः सर्वकर्मोत्तमसाधनोपयिकः महामुद्रपटलविसरः परिसमाप्त इति || २२८, प्. ४७८) अथ चतुश्चत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य सर्वतथागतधर्मवरोत्वचिन्त्यगुणव्यूहालङ्कारभूतकोटिनिष्ठासङ्ख्येयजिन- मुद्रामुद्रितं सर्वसत्त्वचिह्नभूतं मुद्रापटलपरमगुह्यतमं सर्वलौकिकलोकोत्तरश्रेयसमन्त्रतन्त्रकल्पविकल्पितं सर्वसत्त्वैः परमार्थदर्शनपथप्रवृत्तिभूतं सर्वमन्त्रसर्वसंज्ञासाधारणभूतमिहैव जन्मनि सर्वसत्त्वानां सर्वाशापारिपूरकं सर्वबुद्धबोधिसत्त्वानामाराधनपरसुखहेतुकबोधिसम्भारपरिपूरणनिमित्तम् आह्वाननविसर्जनगन्धपुष्पधूपसर्वमाल्योपहाराविद्याविद्यावेशनदर्शन- सर्वकार्यार्थसाधनसर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगयक्ष- राक्षसपिशाचकूष्माण्डरौद्रसौम्यभावदमकाध्यक्षभूताधिपति- सर्वकार्यसन्दर्शनज्वलनाकाशगमनान्तर्द्धानवशीकरणबोधिसम्भार- निमित्ताश्चर्याद्भूतं सर्वमन्त्रतन्त्रार्त्थानुनीतं सर्वविद्याराजनमस्कृतं सर्वविद्यासाधकं सर्वबुद्धमात्रामन्त्रितं यथेप्सितार्त्थसत्त्वमनोरथापरिपूरकं सर्वासां सर्वमन्त्राणां दृष्टधार्मिकहेतुनिष्पादकं संक्षेपतो यथा यथा युज्यते यथा यथा साध्यते तथा तथा साधयते | एषा मञ्जुश्रीः ! परमार्त्थपटलसर्वबुद्धानां परमार्त्थगुह्यतमं भाषिष्ये | पूर्वं भाषितवां सर्वबुद्धैः भाषिष्यन्तेऽनागता बुद्धा भगवन्तः | एतर्ह्यहं भाषिष्ये तच्छ्रूयतां महासत्त्व ! भाषिष्ये | तच्छ्रूयतां महासत्त्व ! भाषिष्ये | साधु च सुष्ठु च मनसि कुरु मञ्जुरव ! मनोज्ञप्रतिभानवां वक्ष्येऽहं वक्ष्येऽहमिति || शाक्यसिंह नरश्रेष्ठो सम्बुद्धो ऋषिसत्तमः | सत्त्वमर्त्थमभिज्ञाय परमार्त्थार्त्थदर्शनम् || गुह्यमात्रार्त्थमुद्रा वै भाषसे मुनिपुङ्गव ! | शुद्धावासपुरे रम्ये शुद्धसत्त्वसमाश्रिते || महापर्षद्वरे श्रेष्टे वीतरागालये तदा | भाषिते कल्पराजे तु मञ्जुभागीततत्त्विते || २२९, प्. ४७९) बुद्धपुत्रैस्तदामात्यैः परमार्त्थविदैर्विदैः | शाक्यसिंहस्तदा आह शृणुध्वं पर्षत् कथे || बुद्धपुत्रस्तथा ज्येष्ठ महायानाग्रधर्मिणः | नाम्ना समन्तभद्रो वै इत्युवाच गिरां वराम् || बालरूपी महारूपी कुमारस्त्वं वर्ण्यसे जिनैः | शाक्यस्य कुलजो दक्षः श्रीमां बुद्धो निरीक्ष्यते || त्वं हि विश्वमहाप्राज्ञो लोकानुग्रहकाम्यया | त्वदीयं कल्पविसरं मुद्रामुद्रितं त्विदम् || अध्येषय महावीर ! बुद्धपुत्र ! महर्द्धिक | सारभूतं कल्पस्यास्य महर्द्धिकम् || एवमुक्तस्तु वीरेण बुद्धपुत्रेण धीमता | मञ्जुमां त्वरितो जात बालक्रीडाभिनिर्मित || प्रणम्य सुगतं नाथं जगदेकान्तचक्षुषम् | उवाच मधुरां वाणीं करुणार्द्रम्रेडितेन तु || कथयेयु भगवां बुद्धः प्रज्ञाबलतत्त्ववित् | कथं तु सर्वमन्त्रा वै सिद्ध्यन्ति जपिनां ध्रुवम् || कथं वै ह्यविकल्पेन अमोघान् गच्छन्ति प्राणिनाम् | सिद्ध्येयुः क्षिप्तजप्ताभिः सर्वार्त्थेषु न योजिता || आ भवाग्राच्च संसारादा वीच्यान्ताश्च नारकाः | एतेष्वाश्रिता ये च प्राणिनोर्धत्रिधातुका || आहूयन्ते निगृह्यन्ते आवेश्यन्ते च पश्यताम् | सर्वकर्मार्त्थयुक्ते च तुष्टिपुष्ट्यर्थकारणैः || दशभूम्याश्रिता ये च सौगते वर्त्मनि स्थिता | बोधिसत्त्वा विबुद्धाश्च प्रत्येकां वा बोधिमाश्रिताः || वीतराग महात्मन आहूयन्ते सुपूजिता | समयैर्मन्त्रिभिर्युक्ता इमैर्मुद्रैः समुद्रिता || २३०, प्. ४८०) कथयन्ति यथाभूतं स्वतन्त्रा चापि दर्शिनम् | पूर्ववृत्तमवृत्तं वा वर्तमाने च योगिनः || स्वर्गलोककथाचिन्त्या परदेहाश्रितापि वा | अनागतं च यथातत्थ्यं निदर्शनं चापि वर्णितम् || कथयन्ति यथान्यायं मन्त्रमुद्रसमीरिता | सिद्धिं चापि तथा क्षिप्रं दद्यान्मुद्रैश्च पूजिताः || मन्त्रिज्ञैः मन्त्रिभिर्युक्तः बलिहोमसुपूजिताः | कुर्यात् क्षिप्रतरं सिद्धिं बुद्धा बुद्धसुतास्तथा || अर्हन्तोऽपि महात्मानः खड्गिणः सिद्धिदा सदा | लौकिका ये च मन्त्रा वै तथा लोकोत्तरा परे || ये च सिद्धास्तथा यक्षा गन्धर्वा मथ किन्नरा | असुरा सुरा सदा सत्त्वा सर्वसत्त्वा त्रिधा स्थिता || अपर्यन्तेषु दिक्ष्वेषु लोकधात्वन्तरेषु च | गतिपञ्चसु ये सत्वा युक्तायुक्ताश्च सर्वदा || सिद्धिं गच्छेयु तत् क्षिप्रं इमैर्मुद्रैः सुमुद्रिता | एष विख्यातः सुगतैर्मन्त्रज्ञैस्तु मुनिभिः विमलम् || विटकं विधिवद् ज्ञेयं विसरं पटलोत्तमम् | सर्वबुद्धैस्तथा लोके श्रेयसार्थमुदाहृता || मुद्रा पञ्चशिखेत्याहुः सर्वबुद्धैः प्रकाशिता | श्रेयसार्थं हि भूतानां मञ्जुघोषस्य धीमते || सर्वतः शिरजा ज्ञेया मूर्ध्नजास्तु तथागताम् | सा तु सर्वार्थदा ज्ञेया धर्मकोशप्रपूरणी || पूरणार्थं तु मन्त्राणां मुद्राणां च महर्द्धिकम् | सर्वेषां लोकोत्तरां श्रेष्ठां लौकिकानां च सर्वदा || मञ्जुघोषस्य तन्त्रे तु अग्रा ह्यग्रतमा मता | प्रभावतः सर्वकर्माणि क्षिप्रं कुर्यार्थनामतः || २३१, प्. ४८१) शुचिर्भूत्वा शुचौ देशे बध्नीयान्मुद्रवरं प्रभुम् | आदौ हस्तौ थ कृत्वा वै सुषिराकारसम्पुटौ || आकोशविरलाङ्गुष्ठौ न्यस्ताङ्गुष्ठौ थ सूचितौ | पञ्चसूचिकविन्यस्तौ मुद्रा पञ्चशिखा भवेत् || शिरःस्थाने सदा न्यस्ता एकसूच्याथ अङ्गुलैः | मुद्रा एकचीरा तु मूर्ध्नि स्थानेषु योजिता || कन्यसाङ्गुलिविन्यस्ता सुश्लिष्टा मध्यमौ तथा | अङ्गुष्ठौ सूचितौ उभौ || त्रिसूच्याकारसमायोगात् तृशिखा मुद्रमुदाहृता | सर्वैरङ्गुलिभिर्युक्तैः आकोशा सुषिरसम्भवैः || शिरःस्थाने सदा न्यस्ता मुद्रा शिरवरा भवेत् | स एव उच्छ्रिताङ्गुल्यौ ईषित् सङ्कुचिताग्रकौ || महावीरा तु सा ज्ञेया महामुद्रा महर्द्धिका | एते पञ्च महामुद्रा पूर्वं जिनवरैस्तदा || निर्दिष्टा सर्वमुद्राणां कथयन्ति मनीषिणौ | ज्येष्ठा मुद्रमुख्यनां * * * * * * (?) मुद्रिताम् || लोकोत्तरां तु सर्वा वै लौकिकानां च सर्वतः | एता पञ्च महामुद्राः प्रयोगा सिद्धिहेतवः || सुसिद्धा सिद्धतमा ह्येता ज्येष्ठाश्च भाषिता | मञ्जुघोषस्य मूर्धजा प्रभावात्यद्भुतचेष्टिता || यावन्ति सौगता मुद्रा सर्वेषां सिद्धिहेतवः | मुद्रा मुद्रेति विख्याता श्रीमन्तं किसलयोद्भवम् || मञ्जुघोषस्य मूर्धजं महापुण्यतमं शिवम् | यं बध्वा महासत्त्वा नियतं बोधिमवाप्नुयात् || महामुख्यावतंसं तं श्राद्धम् अविकलेन्द्रियम् | सदा यज्ञं प्राज्ञयुक्तं च विधिवत् कर्ममाचरेत् || २३२, प्. ४८२) तादृशेन तु युक्तेन सत्त्वेनैव सुयोजिता | मुद्रेयं कुरुते ह्यर्थां यथेष्टां चापि पुष्कलाम् || उपदेशात्तु विद्वांसः मतिमन्तोऽर्थसाधकाः | आचार्यसम्मता लोके शिष्या ग्राह्यास्तु सर्वदा || विधिवत् कर्मदृष्टेन पुरुषेणेह भक्तितः | महायानगतैर्नित्यं मुद्रेयं सम्प्रयुज्यते || सर्वेषां तु मुद्राणां त्रिधा मन्त्रेषु योजिताम् | अग्रा ह्यग्रतमा लोके ते मुद्रा प्रभावतः || सिद्ध्यर्त्थं सिद्धिकामानां तथा मन्त्रैः सुयोजिताम् | क्षिप्रमर्थकरा ह्येते सर्वसौख्यफलप्रदाः || मञ्जुघोषः स्वयं तिष्ठेन्मुद्रैरेतैः समाहित | यस्मिं स्थाने तु वश्चैताः स्वयं मञ्जुरवः सदा || रक्षा ह्यग्रां प्रकल्पीत जिनपुत्रो महर्द्धिकः | बालरूपी महात्मा वै विश्वरूपी महर्द्धिकः || बहुरूपी च सत्त्वानां मुद्रारूपी थ देहिनाम् | बालिशानां तु सत्त्वानां संसारार्णवचारिणाम् || तेषामर्थकरः क्षिप्रं मुद्रारूपेण तिष्ठते | मञ्जुघोषस्य शिरजाः सर्वमूर्ध्नि प्रतिष्ठिता || सर्वार्थसम्पदा ह्येते जप्तमात्रैस्तु योजिता | मूलमन्त्रेण संयुक्ता हृदयस्यानुगतेन वा || सर्वे सौगतिभिश्च मन्त्रैभिश्च सुयोजिता | ये तु अब्जकुले मन्त्रा वज्रिणे चापि कपर्दिने || सर्वैश्च लौकिकैश्चापि मुद्रैर्युक्तार्थफलप्रदा | एते पञ्च महामुद्रा मन्त्रयुक्तार्थफलप्रदा || विकल्प्या मन्त्रगतां त्यज्य मुद्रैर्वाथ फलप्रदा | महारक्षा महापुण्या बद्धमात्रेण देहिनाम् || २३३, प्. ४८३) स्मरितैह्येभिर्महामुद्रैर्महारक्षा विदीयते | कः पुनर्जप्तमात्रैस्तु मन्त्रमुद्रासमाश्रितैः || यावद् वा जापिनः सर्वे नियतं बोधिमाप्नुयात् | अपरे तु महामुद्राः शूलपट्टिशसम्भवाः || महाशूलोऽथ मुद्राणां घोरदारुणमुच्यते | क्रोधराजेन मुख्येन यमान्तेनेह योजिता || करोति विविधां कर्मां दारुणां प्राणरोधिनाम् | महाभयप्रदां मुद्रां विपस्यस्यापि महात्मने || दुष्टसत्त्वां विनाशाय सृष्टास्तृभवालये | तैरेव योजिता मन्त्रा विविधां मुद्रमाशृता || तेषां विनाशनायैव सृष्टा जिनवरैः सदा | मन्त्रचर्यार्त्थयुक्तायाः शासनार्थाय कल्पिता || विहिता लोकनाथैस्तु मुद्रा तन्त्रार्त्थदर्शना | दुष्टसत्त्वप्रयुक्तानां गरकिल्विषरोगदाम् || तेषां निर्नाशनार्थैव उक्तां सर्वार्थकर्मिकाम् | यमशासननाशाय मृत्युपाशाय मोक्षणाः || नित्यं प्राणहरा मुद्रा प्रयुक्ता मन्त्रयोजिता | यमदूतहरा पुण्या मृत्युर्नाशनी स्मृता || यमशासननीतानामानेता प्राणदा स्मृता | सर्वरोगविनाशार्थं यमस्यापि भयप्रदा || मुनिमुख्यैस्तथा युक्ता प्राणसन्धारणी हिता | शासनेऽस्मिन् प्रसन्नानां हिता रक्षा विधीयते || सफला नाशनी दुष्टां गीता मञ्जुरवे हिता | सर्वार्थप्रापणी देवी महामुद्रा प्रगीयते || महाप्रहरणे त्वाहुः अपरा मुद्रपरावरा | तथैव हस्तौ संन्यस्य तर्जन्यौ पाशसम्भवौ || २३४, प्. ४८४) कन्यसौ सूचयेन्नित्यं मुष्टियोगेन योजितौ | हस्तौ सम्पुटितौ नित्यौ अङ्गुष्ठाबुच्छ्रितावुभौ || एष मुद्रा महापुण्या महाशूले समागता | विविधा लोकनाथैस्तु विचित्रप्रहरणोद्भवा || यो यस्य चिन्तयेज्जापी शत्रोः प्रहरणानि वै | तेनैव च्छिन्दयेद् गात्रं चित्तोत्पादाच्च तद् भवेत् || नियतं नाशयेच्छत्रुं मुद्रा मन्त्राश्च योजिता | निहन्याच्छत्रुगणां सर्वामन्त्राश्चापि महर्द्धिकाम् || यमदूतगणां विघ्नां ग्रहांश्चापि समातराम् | पूतनास्कन्दरुद्रश्च प्रेतांश्चापि महर्द्धिकाम् || जप्ता वैवस्वतां लोकां कृत्स्नां चैव सवासवाम् | यमान्तकक्रोधराजेन नान्यं मन्त्रं प्रयोजयेत् || मुद्रैरेतैः प्रयुञ्जीत महाशूलसमैस्तदा | सद्यं वैवस्वतं हन्यात् कः पुनर्भुवि मानुषाम् || सर्वप्रहरणी मुद्रां सर्वदुष्टां विनाशिनीम् | विहिता लोकमुख्यैस्तु सम्बुद्धैर्द्विपदोत्तमैः || तथैव हस्तौ संन्यस्य मध्यमां शृत्य कारयेत् | तथैव हस्तौ कृत्वेह मुष्टियोगेन कारयेत् || अङ्गुष्ठाग्रौ तु पीडितौ | सुषिरावाङ्गुलिसंयुक्तौ मध्याङ्गुल्यसमुच्छ्रितौ || सूचिकाग्रौ तथा नित्यौ तर्जन्याङ्गुलिमाश्रितौ | एषा मुद्रा वरा घोरा शूलेत्याहुर्मुनिवराः || महाशूला भवेत् साधुः तर्जन्याकुञ्चितावुभौ | विसृतैः पट्टिशा ज्ञेया महामुद्रवरा परा || तदेव सङ्कुचाग्रौ तु अङ्गुल्यास्त्रिभिरुच्छ्रिता | एष सा त्रिशूलमुद्रेति प्रवदन्ति मनीषिणः || २३५, प्. ४८५) विचित्रप्रहरणा ज्ञेया अङ्गुष्ठावुभयोच्छ्रितौ | महाशूलसमा ह्येते महावीर्या भयानकाः || पापसत्त्वविनाशाय तन्त्रेऽस्मिं मञ्जुरवे वरे | दुर्दान्तदमिता ह्येता महामुद्राद्भुतचेष्टिता || रौद्रप्राणहरा ते विकृताकारसम्भवा | महाघोरतमा रौद्रा महाक्रूरतमाहिता || महाघोरवरा ज्येष्ठा बहुरूपिण्यः प्रकाशिता | सर्वत्र जापिनो बुद्धा जराव्याधिविवर्जिता || विचरन्ति इमां लोकां संसिद्धा जापिनः सदा | विहिता मृत्युनाशाय सम्बुद्धैर्मुनिपुङ्गवैः || जराव्याधिविनाशिन्यः मृत्युनाशाय संसृजेत् | योजिता मन्त्रिभिः क्षिप्रं कृतान्तस्यापि भयानका || सृजेत् प्रभुवरः श्रीमां शुद्धावासपुरे वरे | मुनिसत्तमजे मुद्रा शाक्यसिंए नरोत्तमे || न बुद्धा मन्त्र भाषन्ते न मुद्रा क्रूरकर्मिणाम् | सत्त्वकारणवात्सल्यात् सर्वज्ञार्थप्रपूरणा || ऋद्धिविक्रीडनार्त्था वा बोधिसम्भारकारणा | उपायसत्त्ववैनेया महायानाग्रनियोजना || महासंसारपूरणा | अधिमुक्ति वसां सत्त्वां मन्त्रमुद्रामुदाहृताम् || आकाश चेति या बुद्धा न बुद्धा वाचाय कल्पिता | निःप्रपञ्चार्थयुक्तानां कुतः सङ्कल्पगोचरम् || धर्मधातुसमा निष्ठा भूतकोटिसमा च या | मन्त्रयुक्तानां निष्ठा मुद्रा समुद्रिता || कथयन्ति भवाङ्गानां मुक्त्यर्थं हेतवां सदा | सर्वज्ञमुद्रमाख्याता सर्वज्ञानार्थप्रपूरणा || २३६, प्. ४८६) युक्तियुक्तार्थपूजार्थं मुद्रामुद्रमुदाहृता | बुद्धैश्च बुद्धपुत्रैश्च अचिन्त्याचिन्त्यगोचरैः || सर्वज्ञदर्शिनो मुद्रा उष्णीषाद्याः प्रभाविताः | अवलोकितमुद्रा तु वज्रपाणे थ लौकिकाः || कथिताः कथयिष्यन्ति श्रेयसार्थं हि देहिनाम् | यावद् बुद्धसुतैर्मुद्रा मुनिश्रेष्ठैश्च भाषिताः || सर्वार्थपूरणा मुद्रा प्रभावाचिन्तचिन्तिता | विकल्पार्थं हि भूतानां त्रिधा मन्त्रास्तु भाषिता || एक एव भवेन्मन्त्रः यो बुद्धैस्तु भाषितः | सौगतार्थं तु मन्त्राणां मन्त्रो ह्येकः प्रगीयते || उष्णीषाधिपतिः श्रीमां एकवर्णौथ वि सदा | चक्रवर्ती भवेन्नित्यं तकारो रेफसंयुत || ऊकारसहितो नित्यं युक्तोऽथ प्रगीयते | स भवेच्चक्रिणः श्रीमां बुद्धानां मूर्द्धजो वरः || भापरं मन्त्रमित्याहुर्बुद्धषुत्रस्य धीमतः | प्रभावात् तत्समो ज्ञेयः मकारोऽन्त्यार्त्थ गीयते || मञ्जुघोषस्य विख्यातः हृदयोऽयं बुद्धमूर्ध्नजः | प्रभावातिशयो ज्ञेयः महापुण्य महर्द्धिकः || सर्वार्थपूरणो मन्त्रः * * * * * * * * (?) | मुद्रा पञ्चशिखोपेतौ उभयार्थार्थपूरणौ || मुद्रा पञ्चशिखा वापि मकारे चापि योजितौ | परमार्थं बोधयेच्चार्थं इहैवार्थं तु भोगदौ || अपरं मन्त्रमित्याहुः * * * * * * * * (?) | जकारं रेफसंयुक्तं अवोष्मार्थपूजितम् || एष मन्त्रवरो ह्यग्रः अब्जकेतोऽथ मूर्ध्नजः | मुद्रे पद्मवरे युक्तो आर्या पुष्ट्यार्थजन्मिनाम् || २३७, प्. ४८७) जापिनां कर्मसिद्धिं तु कुर्यात् सर्वार्थसम्पदाम् | अपरं वज्रिणे मन्त्रां ह्रङ्कारं बाहुमूर्धजम् || एष मन्त्रवरो ह्यग्रः चण्डोऽथ गीयते | प्रयुक्तो वज्रालये मुद्रे कुर्यात् प्रायार्थकर्मिणाम् || दुर्दान्तदमको घोरो मन्त्रोऽयं नाशहेतवः | उक्तार्थं शासनार्थं च यथोक्तं विधिमाचरेत् || न कुर्यात् पापकर्माणि सत्त्वनिग्रहमादरात् | न योजयेन्मन्त्रवरं नित्यं सौम्यसत्त्वेषु नित्यश || नापराध्येऽल्पदोषेण सत्त्वनाशयतोत्सृजेत् | न कुर्यादादरान्मोहादल्पदोषेषु जन्तुषु || शासने दुष्टचित्तानां अप्रसन्नां प्रसदनाम् | विनयार्थं तु सत्त्वानां दमनार्थं पिशिताशिनाम् || निग्रहार्थं तु दुष्टानां सौम्यसत्त्वप्रसादनाम् | उक्तो मन्त्रवरो ह्यग्रः न कुर्यात् प्राणान्तिकं कदा || सर्वलौकिकमन्त्राणां वज्रिणे च महर्द्धिकाम् | अग्रो मन्त्रवरो ह्युक्तः सर्वलौकिकदेवताम् || अपरो मन्त्रवरो ह्येष सर्वलौकिकदेवताम् | मन्त्राणां मूर्ध्नजो ज्ञेयः शिव एकाक्षरो ह्यतः || ईश्वरः सर्वलोकानां मन्त्राणां तु लौकिकां प्रभुः | परमेश्वरमित्याहुः स्वकारो ता विदुर्बुधाः || सर्वमन्त्रास्तु गीयन्ते यावन्त्यो लौकिकाः स्मृताः | सर्वे ते यत्र वै मन्त्रे निबद्धा सर्वत्र पूजिता || विहिता मुनिवरै ह्येता मुद्रा सर्वत्र योजिता | मता शिवतमा श्रेष्ठा लौकिकाग्रा समाहिता || ईश्वराद्यान्तर्भूता वै विपश्यग्रहमातराम् | कटपुतनयक्षाद्यां राक्षसां पिशिताशिनाम् || २३८, प्. ४८८) गरुडध्वजविष्णोश्च ब्रह्मणश्चापि कीर्तिता | मुद्रा ह्येताः समादिष्टा दुर्दान्तदमने हिता || प्रशस्ता मङ्गला ह्येता मुद्रा ह्युक्ता मनीषिभिः | वश्यावेषणभूतानां आकृष्टा हेतवोहिताम् || विविक्ते तु सदा देशे शुक्लपुष्पैः सुशोभिते | सुमृष्टे सिद्धगन्धैस्तु श्वेतचन्दनकुङ्कुमैः || जातीकुसुममालाभिः अभ्यर्च्य सुगतं प्रभुम् | शाक्यसिंहं महापुण्यं सर्वमन्त्रेश्वरं विभुम् || सर्वज्ञं सर्वदा भक्त्या प्रणिपत्य तथागतम् | मन्त्रनाथं च लोकेशं वज्रिणं चापि शक्तितः || मञ्जुश्रियं महात्मानं धर्मधात्वेश्वरं गुरुम् | सर्वं बुद्धसुतां बुद्धां अनुपूर्व्या समाहितः || कुशविण्डे पल्लवे चैव सक्षीरे सार्द्रे सुशोभने | उपविष्टः प्राङ्मुखः शुचिः * * * * * * * * * * (?) || उदङ्मुखः शान्तिकर्मे तु पश्चादाह्वानने न मुखे | न कुर्युः सर्वकर्माणि यथादैवतमन्दिराम् || प्रवृत्तः सर्वभूतेषु दयावां मुद्रकर्मणि | सर्वत्र योजिता मुद्रा कुर्यात् सर्वसाधनम् || पूर्वाभिमुखे पौष्टिकं कर्म मन्त्राणामानयने ध्रुवम् | पश्चान्मुखे तु कुर्वीत वश्यार्थं सर्वभौतिकम् || उदङ्मुखे शान्तिकं विन्द्यात् सर्वव्याधिप्रणाशने | दक्षिणे पापकर्मं तु न कुर्यात् प्राणान्तिकं सदा || ऊर्ध्वं विघ्ननाशं तु उत्तिष्ठोत्तमसिद्धिदः | असुरपुरे कर्म पातालाधिपते तदा || अधोमुखश्च कुर्वीत सर्वत्राप्रतिपूजिता | विदिक्षु च सर्वत्र यथा यथा च समासृता || २३९, प्. ४८९) तेषु तेषु च कुर्वीत सिध्यन्ते सर्वदेहिनाम् | कुर्यात् सर्वत्र मुद्राणां विधिहोमसमा जपी || तत्रस्थां सिद्धिमायान्ति तन्मुखाश्चापि मुद्रिता | विधिः श्रेष्ठः कथ्यतां तां निबोधताम् || शुचिर्वस्त्रशुचिर्भूत्वा सुखशौचसमाहितः | इमां मुद्रां प्रयुञ्जीत सर्वार्थां च सुसमाधिकाम् || हस्तावुद्धृत्य गन्धैश्च श्वेतचन्दनकुङ्कुमैः | सुधूपैः प्राण्यङ्गरहितैः कर्पूरागरुचन्दनैः || युक्तिकुङ्कुममुख्यैश्च कुर्याद्धूमवरं विदा | निवेद्य विविधा कर्मां आचरेद् विधिवत् सदा || आचरेत् पूर्वनिर्दिष्टं कर्मं सर्वत्र कल्पभाषितम् | प्राङ्मुखोऽथ ततो भूत्वा उभौ हस्तौ सुसम्पुटौ || मिश्रीकृतां ततोऽन्योन्यां अङ्गुल्या वेणितः स्थितौ | मध्यमौ कन्यसौ ज्यष्ठौ अनामिकाग्रौ च योजितौ || अङ्गुष्ठौ निश्चलौ ज्ञेयौ समौ चापि प्रतिष्ठितौ | शिरस्थाने तदा कुर्या ललाटदेशे तु भक्तितः || नमस्कारं तथा मन्त्रं षड्वर्णोथ योजिताम् | ओं वाक्येद नमः | वाक्यं स्वाहाकारवर्जितम् || हुङ्कारापगतं श्रेष्ठं फट्कारापगतं सदा | पवित्रं मङ्गलं ज्येष्ठं हृदयं तु सदा जपेत् || एष मञ्जुवर ! श्रेष्ठ बालरूपिसुरूपिणे | पश्चान्मे विश्वरूपे तु हृदयोऽयं प्रकीर्त्यते || षडेते षडक्षरा ज्ञेया मन्त्रा श्रेष्ठा हृदयोत्तमा | तेषामग्रतरा ह्येषा प्रवृत्तः सर्वकर्मसु || इदं मुद्रोत्तमं मन्त्रं कुर्यात् सर्वकर्मसु | मूर्ध्नि स्थाने ततो दत्त्वा ललाटोद्देशे तु युक्तितः || २४०, प्. ४९०) मध्यमाङ्गुल्यं तु चालेद् वश्यार्थं सार्वभौतिकम् | अङ्गुष्ठाग्रवुभौ नाम्यौ आकृष्टार्थं च देवताम् || तैरेव विसृतौ नित्यं विसर्ज्यं मन्त्रदेवताम् | मध्यज्येष्ठौ तथा श्रावकांश्च मुनिवरम् || तर्जन्यौ कुञ्चितौ नित्यौ बोधिसत्त्वां कुलिशोद्भवाम् | दशभूम्येश्वरा ये च आह्वयन्ते न संशयम् || कन्यसाङ्गुलिसंयुक्ता आकुञ्च्यात् सराह्वये | यक्षराक्षसप्रेतांश्च कूश्माण्डा कप्तपूतनाम् || दैत्यदानवसङ्घांश्च यक्षिण्याश्च धनदप्रिया | मातृवत् कुरुते ह्येतां मुद्रेयं सम्प्रपूजिता || अर्थानर्थां तथा नित्यमिष्टानिष्टां फलप्रदाम् | महामुद्रेति विख्याता गीयते तृभवालये || एष मुद्रमहामुद्रा बद्धा मूर्धसु पण्डितः | अधृष्यः सर्वभूतानां भवते नात्र संशयः || दूराद् दूरं नमस्यन्ति सर्वविघ्नविनायका | महाब्रह्मसमं पुण्यं नियतं बोधिमवाप्नुयादिति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूतात् आर्यमञ्जुश्रियमूलकल्पात् द्विचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति | २४१, प्. ४९१) अथ पञ्चचत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | सर्वां च शुद्धावासभवनसन्निपतितां देवगणानामन्त्रयते स्म | शृण्वन्तु भवन्तो देवसङ्घाः ! मञ्जुश्रियस्य कुमारभूतस्य महाऋद्धिविकुर्वणप्रातिहार्यविक्रीडितचेष्टितबालरूपस्वरूपनिदर्शनयथा-शयत् वसन्तोषणमहायानाग्रधर्मप्रापणं सत्त्वपाकसंयोजनमुद्रामन्त्रप्रभावतत्रसत्त्वयोजनमभिप्रायसम्पूरणार्थ. म् मुद्रापटलं परमगुह्यतमं सर्वमन्त्रतन्त्रकल्पेषु बीजभूतं सारभूतं परमरहस्यं महागुह्यतमं परमोत्तरतन्त्रेषु सर्वलौकिकलोकोत्तरेषु अप्रकाश्यं परमगोप्यं नाशिष्याणां च देयम् अश्राद्धानामनुत्पादितबोधिचित्तानां मत्सरिणामन्यतीर्थायतनभक्त्यानां महायानाग्रधर्मविद्वेषिणां सर्वमन्त्रतन्त्रेषु अगौरवजातानाम् | एतेषां प्रकाश्य अन्येषां प्रकाश्यमिति समयज्ञानां बुद्धशासने प्रतिपन्नानां सुरूपसुवेषश्राद्धमविकलचित्तसन्धानमहोत्साहा सर्वमन्त्रेषु च सगौरव सर्वबुद्धबोधिसत्त्वेषु प्रत्येकबुद्धार्यश्रावक सर्वदेव सब्रह्मचारी सप्रतीसादरजातेषु सत्त्वेषु महासन्नाहसन्नद्धेषु सकलसत्त्वधात्वोत्तारणाभ्युद्यमोद्यतेषु महाकारुणिकेषु क्षान्तिसौरभ्यसुवचस्केषु सत्त्वेष्वेतेषां देयमन्येषामदेयमित्याह च || एक मुद्रागणः श्रेष्ठः प्रयुक्तो मन्त्रयोजितः | करोति कर्म विविधा मनेष्टा मनुयोजिता || जापिभिः सर्वकालं तु प्रयोक्तव्यः सिद्धिमिच्छता | नाम्ना त्रैलोक्यविख्यातः बुद्धैः अजितः सदा || स्त्रीसम्पत्करो ह्येष प्रतितः सर्वजन्तुभिः | श्रीवत्सो नाम मुद्रोऽयं प्रमुखोऽष्टशते भुवि || मुद्राणामष्टशतं ज्ञेयं मञ्जुघोष ! शृणोहि मे | पुरा जिनवरैर्गीतं बुद्धपुत्रैश्च धारितम् || अहं वक्ष्ये प्रत्यहं वर्त्तमानमनागतम् | अर्थार्थं समनुमोद्ये रक्ष्येऽहं भुवनत्रये || २४२, प्. ४९२) मञ्जुघोषस्तथा हृष्टः उवाच वदतां वरम् | देशयन्तु महात्मानो बुद्धाः सर्वत्र पूजिताः || यं श्रुत्वा पुरुषाः प्राज्ञाः नियतं बोधिमाश्रये | सर्वेषां तु प्रवृत्तानां जपहोमव्रते स्थिताम् || ध्रुवं मन्त्रास्तु सिद्ध्येयुरिमैर्मुद्रैस्तु मुद्रिताः | अध्येष्येऽहं महावीरं शाक्यसिंहं नरोत्तमम् || अस्माकं सत्त्वमर्थाय धर्मकोशार्थपूरणम् | महायानाग्रधर्मार्थं मन्त्रचर्यार्थसाधक || दुर्दान्तदमकं पुण्यं पवित्रं पापनाशनम् | देशयन्तु महावीरा पटलं मुद्रसम्भवम् || पूरणार्थं तु मुद्राणां सूचनार्थं तु देवताम् | अनुकम्पार्थं तु जापिनाम् * * * * * * * * (?) || एवमुक्त्वा तु मञ्जुश्रीः कुमारो बालरूपिणः | निरीक्ष्य सुगतश्रेष्ठं सुखो मञ्जुरवस्तदा || उवाच मधुरां वाणीं मुनिश्रेष्ठो विनायक | कलविङ्करुतः श्रीमां मेघदुन्दुभिनिःस्वनः || ब्रह्मस्वरेण वचसा वाचो मभ्याचचक्ष सः | शृणोथ भूतगणाः सर्वे कल्पार्थं मन्त्रदेवताम् || समयं सर्वदैवानां मुख्यं मुद्राश्च दैवतम् | समतिक्रान्तबुद्धैस्तु प्रत्येकार्हतसाधकैः || कः पुनरन्यसत्त्वैस्तु विद्यादैवतलौकिकैः | एष मुद्रागणज्येष्ठः सर्वमुद्रेषु कत्थ्यते || यं तथा जापिनः सर्वे नियतं सिद्ध्यन्ति देवता | आदौ किसलयं नाम्ना द्वितीयं भवति मेखला || तृतीयं सुमेखला चैव चतुर्थी सुमनसोद्भवा | पञ्चमी सङ्कलेत्याहुः षष्ठी रेखा प्रघुष्यते || २४३, प्. ४९३) सुवर्णा सप्तमी ज्ञेया माला भवति चाष्टमी | नवमी अङ्कुशी ख्याता दशमी सप्तदशच्छदा || एकादशी भवेत् कुन्ता सुकुन्ता द्वादशी भवेत् | कर्दमी त्रयोदशी चात्र पटही पञ्चदशी भवेत् || षोडशी तु भवेद् यष्टिः मुष्टिः सप्तदशी विदुः | अष्टादश समाख्याता वज्रमाला प्रगीयते || हेममालोनविंशा तु पद्ममाला थ विंशति | नागी नागमुखी चैव तृतीया भवति महामुखी || वक्त्रा च वक्त्रसहिता छत्री भवति लोहिता | लोहिता चाष्टविंशा तु नीललोहितिका सिनी || ज्योत्स्ना जनि तामसी द्वात्रिंशा कथिता भुवि | तारा सुतारा तारावर्ता सुमुद्रजापि || घोररूपिणी विख्याता रात्री भयदा सदा | महाप्रभावेति विख्याता या मुद्रा भुवि लोचना || सप्तत्रिंशतिमुद्रास्तु सङ्ख्या ह्येषा प्रगीयते | श्वेता पण्डरा चैव एवला मामकी च या || महाभयहरी देवी भ्रुकुटी तु प्रगीयते | अजिता अपराजिता ख्याता जया विजया पराजिता || साधकी साधनी चैव तारा श्वेतेति गीयते | घटकर्परमित्याहुः सुगती गतिशोधिका || पद्मी पद्मसुता चैव वज्री वज्रमनोद्भवा | स्त्रीसङ्ख्या गणो मुद्रैः पुरुषाणां तु प्रगीयते || भद्रं मुद्रपीठं तु आसनं शयनं भुवि | स्वयम्भूशम्भुचक्रश्च कुलिशो मुसलस्तथा || स्वस्तिको लिङ्गमुद्रश्च पक्षिराड् गरुत्मनः | मुद्रो मरुडध्वजो ज्ञेयः विष्णुरुद्रसवासवः || २४४, प्. ४९४) ब्रह्मा पद्मोद्भवः श्रीमां श्रीसम्पुट एव च | तथ्यं यमलमुद्रं च मयूरासनमेव तु || विदितं सर्वदिग् धीमां कार्त्तिकेयार्थदः सदा | कुमारस्यानुचरो ज्ञेयः मञ्जुघोषस्य || तस्य मुद्रं महावीर्यं ता ताः शक्तिधरः सदा | मयूरासनमुद्रं तु तस्यैवैतत् प्रयुज्यते || अनेन बद्ध्वा मन्त्रेण कार्त्तिकेयस्य युक्तितः | यावन्तो लौकिका मुद्रा शैवाश्चैव सवासवाः || सर्वे भवन्ति बद्ध्वा वै वश्यार्थं हि प्रयुज्यते | एष मुद्रा करो ह्यर्थां पुष्कलां साधु चेष्टिताम् || प्रसन्नो बुद्धपुत्रस्य मञ्जुघोषस्य धीमतः | बुद्धशासनमवतीर्णो बालरूपी महर्द्धिकः || कार्त्तिकेयोऽथ विख्यातः मन्त्रमुख्येऽथ लौकिके | सर्वेषां च प्रयोक्तव्यो बालिशानां विशेषतः || ग्रहमातरकूष्माण्डैः गृहीता कटपूतनैः | दैत्यदानवयक्षैश्च पिशाचोरगराक्षसैः || क्रव्यादैर्मानुषैश्चापि नित्यं चापि विमोक्षकः | रौद्रसत्त्वेऽथ दुष्टेभिः पिशिताशनव्यन्तरैः || मुद्रितेभिश्च मनुजैर्मुद्रोऽयं सम्प्रमोक्षकः | सर्वसत्त्वार्थयुक्तश्च प्रयुक्तः सुखदः सदा || संक्षेपेण तु उक्तोऽयं विस्तरश्चैव संज्ञकम् | अपरं मुद्रं प्रवक्ष्यामि यं बद्ध्वा सुखी भवेत् || जापिनः सर्वकर्मेषु प्रयुक्तस्याप्यमोघवाम् | नाम्ना बुद्धासनो नाम महामुद्रा प्रकत्थ्यते || विस्तरः सर्वतन्त्रेषु पठ्यते तां निबोधत | यं बद्ध्वा जापिनः सर्वे नियतं बोधिपरायणाः || २४५, प्. ४९५) कः पुनः सिद्धिकामानां भोगालिप्सपरायणम् | पूर्वव चौक्षसमाचारः स्थित्वा च प्राङ्मुखः शुचिः || उभौ हस्तौ समौ कृत्वा अञ्जल्याकारमाशृतौ | कुर्याद् विकासितौ चाग्रे उभावङ्गुष्ठनामितौ || मध्यमाङ्गुलिमाश्लिष्टौ कुण्डलाकारचिह्नितौ | पर्यङ्केनोपविष्टे तु नाभिदेशे तदा न्यसेत् || एष मुद्रावरः श्रेष्ठः सर्वकर्मेषु योजितः | उत्तमेषु च उत्तिष्ठे नाधमे मध्यमेऽपि वा || क्षिप्रमर्थकरो ह्येष सिद्धः सर्वत्र युज्यते | महापुण्यो पवित्रोऽयं मङ्गल्यमघनाशनः || सर्वपापहरः पुण्यः मुद्रोऽयं सिद्धिहेतवः | द्वितीयमपरं मुद्रा महामुद्रा प्रकत्थ्यते || नाम्ना शत्रुञ्जयी नाम सर्वविघ्नविनाशिनी | यं बद्ध्वा शत्रवः सर्वां वशं कुर्यान्न संशयः || सर्वेच्छोषमायान्ति गच्छन्ते वाथ दासताम् | रागो द्वेषश्च मोहश्च स्वपक्षः सगणैः सह || लोभमात्सर्यमानश्च विचिकित्सा कथंकथा | प्रमाद्यो माया कौसीद्यं साध्येष्या कुमार्गता || मित्थ्यादृष्टिदशे माने दन्ते स्तम्भे च लुब्धता | दशा कुशलपथा कर्मा सर्वे ते शत्रवः स्मृताः || एष शत्रुगणः प्रोक्तो बुद्धैर्बुद्धसुतैस्तथा | एष मार्गेष्ववस्थाभिः प्राणिनो य च माशृता || बुद्धशासनहन्तारः तेषां मुद्रा प्रयुज्यते | इयं मुद्रा महामुद्रा गीतं बुद्धैः पुरा सदा || प्रयोक्तव्या प्राणिनां ह्येषा दमनार्त्थं पापनाशनी | तथैव पुरतः स्थित्वा उभौ पाणिसमाश्रये || २४६, प्. ४९६) समाश्लिष्टौ थ तौ कृत्वा अञ्जल्याकारमाशृतौ | अङ्गुष्ठयुगले क्षिप्रं तर्जन्यौ संन्यसेदुभौ || कुण्डलाकारसंश्लिष्टौ तृतीये पर्वमाश्रयेत् | एषा अर्थकरी मुद्रा द्वितीया कथिता जिनैः || शत्रूणां नाशयेत् क्षिप्रं हृदयांसि प्रदोषिणाम् | तृतीयं मुद्रं प्रवक्ष्यामि मञ्जुघोष ! शृणोहि ताम् || नाम्ना शल्यहरी दिव्या सर्वशल्यविनाशिनी | सर्वत्र योजिता मुद्रा सर्वव्याधिचिकित्सकी || विषशस्त्रकृतां दोषा. जलपावकसम्भवाम् | अनिलोद्भवदोषांश्च दुष्टसत्त्वगरप्रदाम् || क्रव्यादां मानुषांश्चापि सविषां स्थावरजङ्गयाम् | यच्च देहगतां शल्यां नारीणां प्रसवात्मिनाम् || संसाराभिरतां चान्यां प्राणिनां दोषपीडिताम् | सर्वनेतास्तथा शल्याः विशल्यकरणी ह्ययम् || एष मुद्रा महामुद्रा स्मरिता सर्वजन्तुभिः | विशल्या सुखिता क्षिप्रं भवते नात्र संशयः || नाममात्रेण ते मर्त्या मन्त्रस्यास्य प्रभावतः | सर्वव्यादिविनिर्मुक्ता विचरन्ते महीतले || पूर्ववच्चौक्षसमाचारा शुचिर्वस्त्रशुची तदा | बध्नीयान्मुद्रवरं श्रेष्ठं तृतीयं पापनाशनम् || उभौ हस्तौ समायोज्य विपरीताकारसम्भवाम् | समौ व्यक्तौ अञ्जल्याकारौ हृदयस्थाने तु तं न्यसेत् || एष मुद्रा महामुद्रा सर्वानर्त्थनिवारणी | यं बद्ध्वा जापिनः सर्वे नियतं बोधिपरायणाः || चतुर्थीं तु महामुद्रां महायक्षीं तमादिशेत् | महाप्रभावा विज्ञेया सर्वमन्त्रेषु जापिनाम् || २४७, प्. ४९७) अत्र यक्षगणाः सर्वे यक्षिण्यश्च महर्द्धिकाः | मन्त्रदेवतसर्वेषु उत्तमाधममध्यमाः || सर्वसत्त्वैस्तु सम्पूज्या मुद्रेयं सम्प्रगीयते | आदौ बद्ध्वा जपेन्मन्त्रं होमसाधनकर्मसु || सर्वत्र योजिता पुण्या सर्वमन्त्राणि साधयेत् | वर्जप्राणिस्तथा मान्त्रः सर्वमुद्रेश्वरी ह्ययम् || पठिता लोकनाथैस्तु पुरा ज्यैष्ठैर्ह्यतीतकैः | तथैव शुचिनो भूत्वा स्थित्वा उदङ्मुखस्तदा || बध्नीयान्मुद्रवरे श्रेष्ठेः सर्वकर्मेषु जापिनः | दमनार्थं सर्वभूतानाम् * ** * * * * * (?) || यथायं कुरुते क्षिप्रं यः सत्त्वाचेष्टितं भुवि | उभौ हस्तौ तदा न्यस्य सम्पुटाकारवेष्टितौ || कुर्यात् त्रिसूचिकाकारं अङ्गुष्ठौ कन्यसमध्यमौ | अन्योन्यसंश्लिष्टौ चतुर्भिश्चाप्यथ नामितौ || कुर्यान्मुद्रवरं ह्युक्तं शिरःस्थाने तु संस्थितम् | यं दृष्ट्वा सर्वभूता वै विद्रवन्ति न संशयः || पञ्चमी तु महामुद्रा शृणु त्वं मञ्जुरवः सदा | नाम्ना त्रिसमया चैव महापुण्यतमा शिवा || दुर्दान्तदमनी नित्यं सर्वसत्त्वार्त्थसाधनी | घोररूपी महेशाक्षा कालरात्रिसमप्रभा || कृतान्तरूपिणी भीमा यमस्यापि भयानिका | चण्डा च चण्डरूपीति दुःप्रेक्षा दुःसहा सदा || रुद्रवासवयक्षेषां राक्षसग्रहमातराम् | देवाननुसरांश्चैव मन्त्रमुख्यां महर्द्धिकाम् || सर्वसत्त्वा तथा नित्यं दुर्दान्तदमकी हिता | अकालमृत्युविनाशाय मृत्युनाशाय वै हिता || २४८, प्. ४९८) सृष्टा सर्वबुद्धैस्तु कृतान्तस्यापि भयावहा | यं बद्ध्वा पुरुषा नित्यं समयज्ञा भवन्ति ह || ये च मन्त्राश्रिता नित्यं तेऽपि मुक्ता जपे रता | तेषां सिद्ध्यन्ति मन्त्रा वै अयत्नेनैव देहिनाम् || अजापिनोऽपि भवेज्जापी अशुचिः शुचिनो भवेत् | संयुक्तः क्रोधराजेन यमान्तेनेह मुद्रया || सर्वकर्मकरा ह्येषा संयुक्ता तत्त्वदर्शिभिः | सर्वविघ्नविनाशार्थं सर्वव्याधिचिकित्सना || सर्वसत्त्वार्थसम्भारा खर्वदुष्टनिवारणा | सर्वासां पूरणार्थाय विहिता मुनिवरैः पुरा || एष मुद्रा हिता लोके समयभ्रंशाच्च पूरणी | बद्ध्वा तु मुद्रवरं श्रेष्ठं समयज्ञस्तत्क्षणाद् भवेत् || सर्वेषां चैव मन्त्राणां लौकिकानां च ततोत्तमात् | प्रविष्टो मण्डलो ज्ञेयः मुद्रा मन्त्रेण ईरितः || तथैव शुचिनो भूत्वा पूर्ववत् सर्वकर्मसु | त्रिसूच्याकार तथा वज्रं अङ्गुलीभिः समाचरेत् || ज्येष्ठमध्यम-अङ्गुल्यौ अङ्गुष्ठैश्च सता न्यसेत् | मूर्ध्नि स्थाने ततः कृत्वा अपसव्येन भ्रामयेत् || एष मुद्रवरा श्रेष्ठा प्रयुक्तः सर्वकर्मसु | एता पञ्च महामुद्रा लोकनाथैस्तु भाषिता || नियतं पुरुषवरा बद्ध्वा सम्बोध्यग्रं स्पृशन्ति ह | सर्वासां पूरयत्येते जापिनां मनसोद्भवाम् || सर्वतथ्यं यथाभूतं दर्शयन्ति यथेप्सितम् | अपरे मुद्रवरा श्रेष्ठा पञ्च चैव प्रकाशिता || शिरः वक्त्रोऽथ गात्रं च उत्पलं कवचं तथा | एते मुद्रवरा दिया मञ्जुघोषस्य धीमतः || २४९, प्. ४९९) पुरा लोकवरैर्मुख्यैः कथिता तत्त्वदर्शिभिः | अहं च मञ्जुरवं वक्ष्ये कत्थ्यमानं निवोध्यताम् || शृणुष्वैकमना नित्यं मुद्रा मुद्रवरोत्तमाम् | पूर्ववच्चौक्षसमाचारः स्थित्वा धातुवराग्रतः || बध्नीयात् करपुटे नित्यं मुद्रां पञ्चार्थसंज्ञिकाम् | उभे करपुटाग्रे तु कड्मलाकारकारिते || दद्युः शिरवरे नित्यं शिरमुद्रेति संज्ञितम् | यथैवोत्पलमुद्रा तु न्यस्तः दुरवरे सदा || सा च सर्वतः क्षिप्ता गात्रमुद्रा विधीयते | स चैव कुतो ज्ञेया वक्त्रमुद्रा तु सा भवेत् || तथैव हस्तौ संन्यस्य नाभिस्थाने तु संन्यसेत् | ईषि तर्जन्याङ्गुल्यनाभिमात्मनः संस्पृशेत् || सा भवेत् कवचमुद्रा तु आत्मरक्षा तु सा भवेत् | सर्वत्र योजिता ह्येते सफला सर्वार्थसाधिका || एते मुद्रा महामुद्रा मङ्गल्या मघनाशना | जापिभिः सर्वकालं तु प्रयोक्तव्याः सफला हिताः || महावीर्या महापुण्या सर्वानर्थनिवारिका | यं बद्ध्वा पुरुषा नित्यं नियतं बोधिपरायणाः || अपरे पञ्च महामुद्रा लोकनाथस्य तापिनः | मुनिने शाक्यसिंहाय तथा रत्नशिखे गुरौ || सुपुष्पाय सुकेशाय तथा सुमनसोरवे | सङ्कुसुमाय च बुद्धाय तथा पद्मोत्तरे वरे || सम्पूर्णाय सुनेत्राय शुद्धा चैव जगद्गुरोः | पितामहाय चैव मुक्ताय जगद्वराम्बरमुक्तये || एतेषानां च बुद्धानामन्येषां च महात्मनाम् | अतीतानागता सत्त्वां वर्तमानां स्वयम्भुवाम् || २५०, प्. ५००) सर्वेषानां च बुद्धानां मूर्ध्नि सम्भूतिलक्षणा | महाप्रभावा महामुद्रा समन्ताज्ज्वालमालिनः || उष्णीषा इति विख्याता तृधातुसमालये | चक्रवर्त्ती महापुण्यो मङ्गल्यो मघनाशना || सर्वेषां च विद्यानां विद्याराजः स्मृतः प्रभुः | एकाक्षरसंयुक्तः मन्त्रो सुगतमूर्धजः || मुद्रो तस्य विदो ज्ञेयो प्रभुरेकाक्षरस्य तु | चक्रवर्त्ती जिनकुले जात मुद्रः परमेश्वरः || उभौ हस्तौ समाश्लिष्य सम्पुटाकारचिह्नितौ | मुष्टियोगेन बद्ध्वा वै मध्याङ्गुल्यौ सुसूचितौ || ईषित् सङ्कोच्यवत्कृत्वा कुण्डालाकारदर्शितौ | एष सर्वत्रगे मुद्रा सर्वमन्त्रेश्वरो विदो || मूर्धानं देवतं कृत्वा सुषिराकारकुड्मलम् | ईषिन्नामिततर्जन्यौ कन्यसं तु सुपूजितौ || एष मुद्रवरः श्रेष्ठः तेजोराशे तु कथ्यते | तदेव सम्पुटं चाग्र्या छत्राकारसंज्ञकम् || विकास्याङ्गुली सर्वां सितातपत्रेति संज्ञितम् | जयोष्णीषं हितं देवं हि मध्याङ्गुल्यौ सुसूचितौ || तदेव विसारितौ चाग्रे पाणिभिः सर्वतो गतैः | उष्णीषसङ्कभवा ज्ञेया सर्वत्रार्थदर्शिभिः || मुनिमूर्धजसम्भूता मुद्रा अग्रा प्रगीयते | पञ्चमा तु भवेत् सा तु सर्वमुष्णीषसम्भवा || अनेन वै सर्वबुद्धानां यावन्तमुष्णीषमूर्धजाम् | सर्वे ते च समायान्ति सर्वकर्मेषु योजिता || सर्वे मुनिवरैर्मुद्रा ये गीता भुवनत्रये | सर्वेषां तु मुद्राणां मुद्रेयं परमेश्वरी || २५१, प्. ५०१) अनेनावाहयेन्मन्त्रां अनेनैव विसर्जयेत् | अनेन सर्वकर्माणि कुर्यात् सर्वत्र जापिनः || एते पञ्च महामुद्रा पुरा गीता मुनिवरैः | सर्वकमार्थयुक्ता वै सर्वमुष्णीषसाधिका || यावन्तो मुनिवरैः गीता उष्णीषा भुवनत्रये | सर्वेषां तु सर्वत्र इमे पञ्चार्थपूरणा || सर्वमुष्णीषतो ज्ञेया मुद्रा वै च असङ्ख्यका | तेषां पञ्च वरा प्रोक्ता सर्वमुष्णीषसाधनी || अवलोकितमुद्रस्य पञ्च वैते सुमुद्रकाः | प्रकृष्टा पद्मकुले श्रेष्ठा मुद्रे ते भुवि मण्डले || उष्णीषं च शिरोवक्त्रपद्ममुद्रा च कथ्यते | महाकरुणजा देवी तारा भवति पञ्चमी || पूर्व चौक्षसमाचारः धौतवस्त्र सुजप्तधीः | पाणिना शिरसा मृश्य ऊर्ध्वहस्तो भवेन्नरः || वामपाणितले लेख्यां मुष्टियोगेन वेष्टयेत् | एष उष्णीषमुद्रोऽयं अवलोकितमूर्धजाम् || तदेव शिरवरे दत्त्वा शिरमुद्रा प्रगीयते | तदेव सङ्कुचौ चापि नाभिदेशे प्रतिष्ठितौ || विकास्य अङ्गुली सर्वां पद्ममुद्रेति सा विदोः | उपरिष्टादेव वक्त्रान्ते हस्तौ तौ न समाशृते || अन्योन्यमिश्रितौ हस्तौ विरलाङ्गुलिमाश्रितौ | तदेव वक्त्रमुद्रा तु पद्मकेतोऽथ गीयते || या तु पद्मध्वजे मुद्रा नागलोके प्रकथ्यते | स भवेन्मुष्टियोगेन उभौ हस्तौ समाश्रितौ || उभौ तर्जन्यतां चोर्ध्वौ सूचीभूतौ सुचिह्नितौ | अङ्गुष्ठपीडितौ श्रेष्ठौ तारामुद्रेति कथ्यते || २५२, प्. ५०२) एषा मुद्रवरा श्रेष्ठा करुणा पद्मध्वजे विदोः | इत्येवं पञ्च महामुद्रा कथिता पद्मालये सदा || बोधिसत्त्वस्य मुख्ये ता लोकीशस्य महात्मने | अत्र पद्मकुले भवन्ति बन्धं सर्वकर्मसु || मन्त्रनाथेश्वरो ये च विद्या देवतलौकिका | सर्वे ते अत्र वै मुद्रे मुद्रा यान्ति सुमुद्रिता || ये च यक्षेश्वरा गीता वज्रपाणिमहर्द्धिका | महामन्त्रार्त्थरौद्राश्च क्रोधप्राणहरा तथा || ये चान्ये लौकिका मुख्या मन्त्रयुक्ताश्च देवता | सर्वे ते च समायान्ति मुद्रैरेतैः सुमुद्रिता || एते मुद्रा महामुद्रा पवित्रा पापनाशना | यं बद्ध्वा जापिनः सर्वे क्षिप्रमायान्ति क्षिप्रतः || मुक्ता ताथागती मुद्रा अन्येषां परमेश्वरी | अवलोकितनाथस्य सर्वव्याधिचिकित्सने || मुद्रै तो पञ्च महाभोगा विचरन्ति महीतले | स्त्रीरूपधारिणो भूत्वा सर्वसत्त्वार्थयोजिता || यं बद्ध्वा पुरुषा प्राज्ञ ! नियतं बोधिपरायणा | अपरा पञ्च महामुद्रा वज्रपाणि महर्द्धिका || य एष वज्रेश्वरः श्रीमां सर्वमन्त्रेश्वरः प्रभुः | दशभूम्यपतिः श्रीमां सर्वानर्थनिवारकः || महाभयप्रदो चण्डः दुष्टसत्त्वनिवारणः | दुर्दान्तदमको धीमां दक्षः सत्त्वार्थसिद्धिषु || यक्षरूपेण सत्त्वानां आत्मना चेष्टिते भुवि | सत्त्वार्थक्रियायुक्तः धर्मार्थमवतारयेत् || बोधिसम्भारमर्थाय विचेरुर्यक्षरूपिणः | ये ते सत्त्वा हिता लोके यक्षिण्या सह मोहिता || २५३, प्. ५०३) तेषां सिद्धिर्न भवेन्मन्त्रां वाचा दुश्चरितेरिताम् | बोधिसत्त्वो महापुण्यः बहुरूपी महर्द्धिकः || प्रदोष्य चित्तं मन्त्रेशे कुतः सिद्ध्यन्ति मानवाः | मुद्रैता पञ्च वरा प्रोक्ता बुद्धैश्चापि महर्द्धिका || वज्रपाणिर्महापुण्या तां च क्षिप्र सुयोजयेत् | तथैव हस्तावुद्वर्त्य श्वेतचन्दनकुङ्कुमैः || तथैव सम्पुटाकारौ कुड्मलाकारवेष्टितौ | शिरःस्थाने तथा न्यस्तौ चापि सुस्थितौ || सा तु वज्रशिरा ज्ञेया महामुद्रा हिता विदोः | यक्षसेनापतेर्मुद्रा द्वितीया भवति मूर्धजा || उष्णीषमुद्रा हिता लोके उष्णीषं यक्षपतेर्हितम् | तदेव वज्रं शिरामुद्रा ऊर्ध्वमञ्जलिस्थापिताम् || एष मुद्रा महामुद्रा उष्णीषेति प्रगीयते | तृतीया वज्रोद्भवा नाम ललाटस्थाने तु सा भवेत् || संन्यस्ताञ्जलिसम्पूर्णा ध्रुवौ मध्येष्वनामिकौ | एषा वज्रोद्भवा नाम वज्रपाणेऽर्थसाधिका || चतुर्थी तु मुहामुद्रा वज्रवक्त्रेति गीयते | उत्तानौ हस्ततलौ न्यस्य वेणिकाकारसम्भवौ || वक्षःस्थाने तथा न्यस्य मध्याङ्गुल्यां सुसूचितौ | एषा मुद्रा महामुद्रा वरा यक्षवरे हिता || सर्ववज्रालया च सा * * * * * * * * (?) | पञ्च मात्रा महामुद्रा वज्रपाणि महर्द्धिका || तथैव हस्तौ संन्यस्य नाभिस्थाने तु कारयेत् | तर्जन्यां कुञ्चितौ कृत्वा अङ्गुष्ठाग्रे तु नामयेत् || तृतीये पर्वमाश्लिष्य कन्यसौ च सुसंस्थितौ | बद्ध्वो च वेणिकाकारां शेषैरङ्गुलिभिस्तदा || २५४, प्. ५०४) एषा वज्रालया नाम महामुद्रा प्रगीयते | अत्रैव सर्वमुद्रा तु लौकिका ये च वज्रिणे || शैवाः शक्रकाश्चापि रिषीणां च महर्द्धिका हिता | सा वरा मतङ्गिनो ह्यग्रा मुद्रा प्रोक्ता महात्मभिः || यक्षराक्षप्रेतैश्च कूष्माण्डैः कटपूतनैः | ये तु मुद्रा वरा प्रोक्ता विष्ण्वीन्द्रैश्च वनाह्वयैः || ईशानमातरैर्लोकग्रहैश्चापि * * * * * * * * * (?) | भास्करेन्दुविवस्वाक्षैर्वसवश्चापि सुपूजितैः रक्षात्मकैः || सृष्टा मुद्रवरा ये तु सर्वभूतगणैः सदा | सर्वे चैव समायान्ति मुद्रेऽस्मिं वज्रमालये || प्रथिता मुद्रवरा ह्यग्रा कुलेऽस्मिं वज्रमाह्वये | मुक्ता तथागतीं मुद्रां अवलोकीशस्यापि महात्मनः || मुद्रा ह्येके तु मुक्ता वै अन्येषां प्रभुरिष्यते | एषा मुद्रा महामुद्रा यक्षसेनापतेर्विदोः || यं बद्ध्वा पुरुषा नियतं सर्वे बोधिपरायणाः | एषा मुद्रा वरः श्रेष्ठः परमाहुस्तथागताः || हत्येता पञ्च महामुद्रा वज्रपाणे यशस्विनः | जापिभिः सर्वकालं तु स्मर्तव्या च महाभये || आशु नश्यन्ति भूता वै क्रव्यादा पिशिताशिना | यक्षराक्षसप्रेतांसि कूष्माण्डाः कटपूतना || देवगन्धर्वमनुजाः किन्नराश्च ससिद्धकाः | ग्रहमुख्यवरा गरुडा मातराश्च महर्द्धिकाः || येऽपि ते लोकमुख्याश्च ब्रह्माविष्णुमहेश्वराः | सर्वसत्त्वाश्च वै लोके येषु सर्वत्र माशृताः || सर्वे ते दृष्टमात्रं वै विद्रवन्ति न संशयः | एते मुद्रा जिनैह्यासी वज्रधृते प्रभोः || २५५, प्. ५०५) मन्त्रनाथस्य यक्षेशे लोकीशस्यापि महात्मने | तस्माच्च जापिभिः सर्वैः नियतं सिद्धिलिप्सुभिः || स्मर्तव्या जपकाले तु सर्वमन्त्रेषु सिद्धिदा | योऽसौ किसलयेत्याहुः मुद्रामादौ प्रगीतवाम् || तथैव हस्तौ संन्यस्य उरःस्थाने न्यसेद् बुधः | तामादौ वेणिकां कृत्वा अङ्गुलीभिः समन्ततः || सा विद्या किसलये मुद्रा लौकिकां मन्त्रदेवताम् | तामादौ योजयेत् क्षिप्रं क्षुद्रकर्मेषु धीमताम् || ज्वररोगगता सर्वान् नाशयेन्नात्र संशयः | सैव सुमनसा ज्ञेया कन्यसाङ्गुलिनामितौ || पटही तु भवेत् सा तु मध्यमाङ्गुलिनामितौ | कन्दर्पी च भवेत् सा च उभौ अङ्गुष्ठमुच्छ्रितौ || घटखर्परिका ज्ञेया अनामिकाग्रसुनामितौ | तथैव कुङ्मलं कृत्वा हस्ताग्रौ च सुभूषितौ || उत्पलाकारचिह्नं तु मुद्रमुत्पलमुच्यते | विकासितोभयौ हस्तौ अङ्गुलीभिः समन्ततः || एषा वै पद्ममुद्रा तु भवे ज्योत्स्ना सनामितौ | तथैव योजितां सर्वां अङ्गुल्याग्राग्रकारिता || एषा सुपर्णिने मुद्रा सुपर्णीति प्रगीयते | तदेव लम्पुटाकारं विपर्यस्ताकारचेष्टितम् || सा भवेद् यमलमुद्रा तु गरुत्मस्यापि महात्मने | तथैव हस्तौ संन्यस्य मुष्टियोगेन योजितौ || उभयाङ्गुष्ठमध्यस्थौ लिङ्गमुद्रेति गीयते | उत्थिताङ्गुष्ठमध्यस्थौ तदेवं शङ्खमिष्यते || तदेव हस्तौ विस्रज्य जया भवति विश्रुता | विजया भवते मुद्रा कन्यसाङ्गुलिवेष्टितौ || २५६, प्. ५०६) अनामिकाभिः समायुक्ता अजिता भवति पूरणी | विसृज्य हस्तौ संयुक्तौ वामहस्तेन मीलयेत् || अङ्गुष्ठाग्रमधो नाम्य मुष्टिं बद्ध्वेह पण्डितः | एषापराजिता ज्ञेया मुद्रेयं च सुपूजिता || चतुःकुमार्यो विधि ज्ञेया भगिन्येषु प्रकीर्तिता | तुम्बुरुस्त्वेष विख्यातः ज्येष्ठभ्राता प्रकल्प्यते || नौयानसमाश्रिता ह्येते अम्भोधेस्तु निवासिनः | विचरन्ति इमं स्थाने महापुण्यमहर्द्धिकाः || वश्यार्थं सर्वभूतानां सृष्ट्वा ब्रह्मविदो विदे | सर्वत्र पूजिता ह्येता गुह्यमन्त्रैस्तु योजिता || अमोघा सिद्धिमेतांसि सर्वकर्मेषु योजिता | क्षिप्रमर्थकराः सिद्धा मङ्गल्या मघनाशनाः || शुचिना शुचिकर्मेषु साधनीया तथोत्तमैः | ऊत्तं ज्वलनं शान्तं खचरं कायि सिद्धये || मध्यं समध्यकर्मेषु अशौचं कश्मलादिषु | ये चापि पापकर्मा वै नित्योच्छिष्टाश्च देहिनाम् || तेषां सिद्ध्यन्त्ययत्नेन क्षुद्रकर्माणि वै सदा | तथैव हस्तौ संयम्य नाभिदेशे समानयेत् || मह्यमाङ्गुल्यतः सूच्या वेणिकाकार वेष्टयेत् | सुमेखला च सा मुद्रा उद्वेष्टा भवति मेखला || तमेव मधतलौ न्यस्तौ मुद्रा भवति सम्पुटा | सैवमुच्छ्रिता ग्रीवे श्रीसम्पुटमुच्यते || नाभिस्थाने तदा न्यस्य अपसव्येन भ्रामयेत् | रजनी मुद्रवरा ह्येषा दुष्टसत्त्वनिवारणी || दक्षिणे करमुद्यम्य मुष्टियोगेन माश्रयेत् | मुद्रा मुष्टिरेत्याहुः सर्वमन्त्राणि चूर्णनी || २५७, प्. ५०७) सैवाङ्गुलिमुत्सृज्य उभौ हस्तौ प्रयोजिता | मुष्टिमुद्रा वरेत्याहुः पिशिताशननाशनी || सा तु सङ्कुचिता ज्ञेया अङ्गुल्याग्रौ सुकुञ्चितौ | मुद्रा सुकुन्ता विज्ञेया कुन्ता चैव प्रसारितैः || तारा सुतारा विधिज्ञेया एकरूपौ उभौ भवेत् | उत्पलाकारसंन्यस्ता तर्जनीभिः सुसंहता || एकसूचिकमित्येव सम्पुटाकारवेष्टितौ | तदेव प्रसारिता हस्तौ तारा भवति घुष्यते || तदेव हस्तौ संन्यस्य अञ्जल्याकारकारितौ | तर्जन्या मिश्रितौ श्रेष्ठौ तृतीये पर्वणि स्थिते || अङ्गुष्ठौ चान्ते मुद्रा भवति लोचना | तदेवाङ्गुलिमुत्सृज्य तर्जन्यौ सम्प्रयोजितौ || तदेव विहिता मुद्रा मुद्रा मामक्या सम्प्रयोजिता | एवला मुद्रवरेत्याहु मध्यमाङ्गुल्यैः सुनामितैः || श्वेता याभ्रमुद्रा वै करैश्चात्र प्रसारितैः | पण्डरा तु भवेन्मुद्रा मुष्टिभिः सम्प्रपीडितैः || महाप्रभावा महापुण्या तर्जन्यावुच्छिरितावुभौ | तदेव हस्तौ सम्मिश्र सम्पुटाकारवेष्टितौ || तर्जनीभिः ततो कृत्वा नेत्राकारं तु पीडयेत् | भ्रुकुटी मुद्रवरा ख्याता महाभयहरी सदा || इत्येते चाष्ट मुद्रा वै कथिता जिनवरैः पुरा | महाप्रभावा महापुण्या महेशाख्या महर्द्धिका || सर्वमुद्रेषु सर्वत्र मन्त्रैश्चापि विशेषतः | सर्वत्र पूजिता ह्येते स्मर्तव्यार्थफलप्रदा || महारक्षा पवित्राश्च मङ्गल्यमघनाशनाः | सर्वत्र पूजिता बुद्धैः सर्वमन्त्रांश्च साधयेत् || २५८, प्. ५०८) तारा भृकुटी चैव श्वेता पण्डरवासिनी | मामकी लोचना चैव सुतारा तारवर्तिनी || इत्येते च महामुद्रा पठिता लोकतत्त्विभिः | एष रक्षाविधिः प्रोक्तः महारक्षेषु कथ्यते || महापापहरी ह्येता महामुद्रा स्वयम्भुवे | लोकीशस्य च वीरस्य महायक्षपतेस्तथा || एते मुद्रा महापुण्या नियता सिद्धिहेतवः | कथिता लोकमुख्यैश्च सम्बुद्धैश्च यशस्विभिः || तथैव हस्तौ संन्यस्य बेणिकाकारसम्भवौ | सम्पीडितौ विपर्यस्तौ *(?)द्रा भवति सङ्कुला || तथैव सूचिकाग्रं तु अङ्कुशस्याहु वर्णितः | तथैव करपुटोऽग्रं वै उन्ननाम्यो शिरःस्थितौ || विकास्य अङ्गुलीं सर्वां छत्रा भवति शोभना | संयम्य मुष्टिमाकारौ रात्री भवति देवता || तामसी विसृतैर्नित्यं मुद्रा भवति तत्त्वतः | तथैव अङ्गुलां वेष्टौ ऊर्ध्वमङ्गुष्ठनामितौ || विषनिनीशना सृष्टा रेखमुद्रा यशस्विभिः | मनसा नामितौ ज्ञेया महामानसमुद्रितैः || तथैव हस्तावुत्सृज्य एकहस्तेन मीलयेत् | तर्जन्यौ वेष्टयेन्मध्यां एषा सा गरुडध्वजा || उभौ हस्तौ समायुक्तौ वेणिमाशृत्य मध्यजौ | हंसमालेति मुद्रेयं नाम्ना सर्वत्र गीयते || तदेव विसृतौ हस्तौ तृसूच्याकारवेष्टितौ | सा भवेत् वज्रमुद्रा तु मुद्रा श्रेष्ठतमा हिता || प्रकृष्टा सर्वमुद्राणां वज्रपाणेः समाहिता | तदेव विसृताङ्गुल्यौ पद्ममाला तु सा भवेत् || २५९, प्. ५०९) ज्येष्ठा मुद्रवरा ख्याता पद्मकेतोः समा भवेत् | एषा मुद्रवरा दिव्या महापुण्या महोद्भवा || प्रयुक्ता सर्वकर्मेषु सिद्धिमायान्ति देहिनाम् | भुवि मण्डलविख्याता प्रसिद्धा सर्वकर्मसु || वक्त्रार्थवक्रिता ज्ञेया उभौ पाणितले समे | सन्यस्ताङ्गुलिमग्रे तु तर्जन्याङ्गुलिमुच्छ्रिता || मुद्रा वक्त्रमिति ज्ञेया अर्द्धवक्त्रा तु कन्यसैः | समौ मुष्टितलौ ज्ञेयौ अङ्गुष्ठोत्तमनामितौ || लोहितामुद्रमित्याहुः मध्यमानामितसुलोहिता | नीललोहितिका ज्ञेया मुद्रा रुद्रस्य मूर्ध्नजा || महाप्रभावा विख्याता या मुद्रा भुविमण्डले | सर्वविघ्नहरी देवी दुष्टसत्त्वनिवारणी || सा मुद्रा कथ्यते लोके शृणुध्वं भूतिकांक्षिणः | तथैव हस्तौ संयम्य मुष्टिमादौ प्रकल्पयेत् || विसृतौ मध्यमौ ज्ञेयौ ईषित् सङ्कुचिताथ सूचितौ | महामुद्रा इति ख्याता मुद्रा सा भयसूदनी || तथैव सूच्याग्रौ तौ हस्तौ सुव्यक्तमीलितौ | एषा विष्णुमिति ख्याता मुद्रा सर्वत्र पूजिता || ब्राह्मी तु भवे मुद्रा उभौ अङ्गुष्ठमिश्रितौ | तथैव कुड्मलाकारा मुद्रा वैन्द्रीति उच्यते || सा भवेन्माहेश्वरी मुद्रा उभौ कन्यसमुच्छ्रितौ | तदेव हस्तावुत्सृज्य नृत्ययोगेन माश्रयेत् || वामबाहुस्तदा नित्यं उभयाग्रं प्रकल्प्यते | दक्षिणं भुजमाश्लिष्य तर्जन्याकारवेष्टितम् || एषा वज्रधरा नित्यं वराहीति प्रकल्प्यते | तदेव विसृतौ बाहू नत्ययोगेन कल्पितौ || २६०, प्. ५१०) उभौ तर्जन्याकारतः क्षिप्रौ वज्रचामुण्डि मुच्यते | स एव विसृताकारौ उभौ पाणौ समाश्रुतौ || ऊर्ध्वमाशृत्य गता दृष्टिः घोरा चामुण्डि मुच्यते | कौमारी तु भवेन्मुद्रा कार्त्तिकेयस्य महामही || तदेव हस्तौ विन्यस्य सूच्याग्रं तु मीलयेत् | विसृतैरङ्गुलीभिश्च इयं मुद्रा सर्वमातरी || एषा सर्वमुद्राणां मातराणां तु महर्द्धिका | एतेन सर्वकर्मा वै बालिशानां तु कल्पयेतु || सूतिकानां च नारीणां गर्भस्थानं च देहिनाम् | रक्षमोक्षणमुद्रेषु प्रेतव्यन्तरकश्मलैः || मोक्षणार्थं तु कल्पीत ग्रहमातरनैरृताम् | हितार्थं प्राणिनां लोके मुद्रा भवति सुखावहा || श्रेयसः सर्वमन्त्राणां भूतानां प्रयुक्ता सुखदा हिता | क्षुद्रकर्मेषु सर्वत्र योजयेत् सर्वत्र जापिनः || एते मुद्रा सदा मन्त्रैरेतैरेव प्रयोजयेत् | तथैव हस्तौ संन्यस्य स्वकुण्डलाभोगवेष्टितौ || अङ्गुलीभिः समन्ताद् वै मुद्रा नागीति गीयते | तथैव मङ्गुलिमध्यस्थौ सूच्याग्रं तु मीलितौ || भवेन्नागमुखी मुद्रा प्रकृष्टा सर्वकर्मसु | या सा मुद्रवरा ज्ञेया माला लोके प्रकल्पते || तथैव हस्तौ संन्यस्य अङ्गुलीभिः समन्ततः | वेणिकाकार बद्ध्वा वै मुष्ट्याकारं तु कारयेत् || तथैव सम्पुटाकारौ अङ्गुष्ठौ मध्यनामितौ | सा भवेन्मालमुद्रा तु सर्वकर्मार्थसाधनी || तथैव मङ्गुलिभिर्नित्यं उच्छ्रितैः सप्तभिः सदा | सा तु सप्तच्छदा मुद्रा तृषु लोकेषु गीयते || २६१, प्. ५११) एते मुद्रवरा ह्यग्रा यथोक्तास्ते दर्शिता पुरा | एतेषानां तु मुद्राणां निर्दिष्टा पूर्वविस्तराम् || सर्वा येकतमा ज्ञेया विधिनिर्दिष्टदर्शिता | विस्तरार्थगता ह्येते विकल्पार्थाः सविस्तराः || स्मृताः सर्वे भवेन्मुद्रा सर्वमुद्रैस्तु मुद्रिता | मुद्रा चाष्टशता ज्ञेया उक्ता सर्वार्थसाधिका || एक एव भवेत् तेषां यथासङ्ख्यार्थपूरणी | नृत्ययोगेन स्थित्वा वै ऊर्ध्वं पश्येज्जापिनः || ललाट मङ्गुली न्यस्य तर्जन्या कन्यसान्विताम् | कृत्वा वै नेत्रयोगेन स्थितकोऽञ्जलिना न्यसेत् || सर्वत्रादर्शनी नाम मुद्रा चाष्टशतात्मिका | अनेन मन्त्रा सिध्यन्ते यथोक्ता सर्वज्ञदर्शिना || सर्वमुद्रास्तु अत्रैव प्रयोक्तव्या ह्यविकल्पतः | यथोक्तमुद्रागणा ह्येष उक्तोऽयं मन्त्रसमासत इति || आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् सर्वतथागताचिन्त्यधर्मधातुमुद्रामुद्रिता त्रिचत्वारिंशतिमः स्वचतुर्थो मुद्रापटलविसरः | २६२, प्. ५१२) अथ षट्चत्वारिंशः पटलविसरः | अथ खलु भगाअं शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृणु त्वं मञ्जुश्रीः ! पञ्चममुद्रापटलविसरं त्वदीयं सर्वतथागतधर्मकोशानुप्रविष्टं परमगुह्यतमं धर्मधात्वसंख्येयाचिन्त्यमुद्रामुद्रितं सर्वमन्त्रचर्यानुप्रविष्टं परमरहस्यतमं सर्वलोकोत्तरोत्कृष्टतमं सर्वलौकिकानुचरितां मोद्यतमं कतमं च तद् भाषिष्येऽहम् | पूर्वं तथागतैः भाषितवन्तः || अथ मञ्जुश्रीः क्मारभूतो बोधिसत्त्वो महासत्त्वः पुनरपि उत्थायासनाद् भगवतः चरणयोर्निपत्य भगवन्तमेतदवोचत् | तत् साधु भगवां देशयतु सर्वमन्त्रचर्यानुप्रविष्टां सर्वसत्त्वानामर्थाय अस्माकं चानुकम्पामुपादाय महाप्रणिधानमहानिर्हारमहाबोधिमण्डोपसङ्क्रमणचर्यापरिपूरणताय पञ्चमं महामुद्रापटलविसरं संक्षेपतः पञ्च चैव महामुद्राः | अपर्यन्ता च स्थितमुद्रां आह्वाननविसर्जनसर्वकर्मार्थसर्वमनोरथमाशापारिपूरणतायै सर्वमन्त्रतन्त्रमहामुद्रानुप्रवेशनतायै सर्वसत्त्वसन्तोषणमहासमयसर्वमुद्रानुप्रवेशनतायै यस्येदानीं कालं मन्यश्चेति || एवमुक्तस्तु भगवतो शाक्यसिंह नरोत्तम | मञ्जुप्रतिभो धीमां तूष्णीं तस्थौ तदान्तरे || इयं वसुमती कृत्स्ना षड्विकार. प्रकम्पिरे | सर्वभूतगणा त्रस्ता क्षुभितं चापि ऋषालयाः || तृधातुगतयः सत्त्वास्तत्क्षणादेव मागताः | दृष्ट्वा आगतां सत्त्वा वव्रे वाणी ऋषिसत्तमः || शाक्यकुलजो दक्षः मुद्रां देशे तु तत्क्षणात् | यं बद्ध्वा पुरुषा प्राज्ञा नियतं बोधिपरायणाः || सर्वमन्त्राश्च सिद्धेयु सौगता ये च लौलिका | पञ्च चैव महामुद्रा बद्धा मुनिवरैः पुरा || २६३, प्. ५१३) अधुना शाक्यमुद्देक्ष्यः बद्ध्वैता तृभवालये | स्वयमेव भगवां शास्तु हस्तोत्तानतां कृथा || वेणिकाकारमावेष्ट्य मध्यमाङ्गुलि नामयेत् | कन्यसौ संस्पर्शयेद् धीमां उभा अङ्गुष्ठ उच्छ्रये || अङ्कुञ्च्यमञ्जुल्याकारं दर्शयेन्मञ्जुरवेहिताम् | एषा मुद्रा महामुद्रा सर्वबुद्धानुवर्णिनी || सर्वथा साधिता देवी पूर्णेति च गीयते | तदेव हस्तौ भ्रामयित्वा तु नाभिदेशे तु संन्यसेत् || आशासम्पादिनी क्षिप्रं महापुण्या हिता हि सा | मनोरथेति समाख्याता दुर्दान्तदमनी सदा || तदेव हस्तौ संन्यस्य मुष्टियोगेन वेष्टयेत् | उरःस्थाने सदा न्यस्या तृतीया भवति सुनिर्मला || चतुर्थी तु भवेत् सा तु शिरःस्थाने सुमुद्रया | पञ्चमी तु भवे ज्येष्ठा मुक्ता सर्वगतां नु गुणान् || लोकधात्री तु सा ज्ञेया प्रसिद्धा सर्वकर्मसु | एष एव सदायोगः प्रयोक्तव्यः सर्वकर्मसु || आकृष्टावङ्गुलितर्जन्यौ आकृष्य वश्यता हिता | विक्षिप्तैर्विसर्जनं कुर्यात् मनसा मोक्ष एव तु || सर्वं दर्शयेत् क्षिप्रं सर्वकर्मार्थसाधयेदिति || आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् चतुःचत्वारिंशतिमः महामुद्रापटलविसरः परिसमाप्त इति | २६४, प्. ५१४) अथ सप्तचत्वारिंशः पटलविसरः | अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तं च महापर्षन्मण्डलं अनन्तव्यूहालङ्कारसर्वज्योतिप्रभास्वरविकुर्वाणानन्तगुह्यतमं सर्वगुह्यतमं सर्वमन्त्रानुचरितं नाम समाधिं समापद्यते | समन्तरसमापन्नस्य भगवतः ऊर्णाकोशाद् रश्मयो निश्चरन्ति स्म | सर्वतश्च समन्ता दशसु दिक्षु रित्यूर्ध्वमधस्तिर्यक् महतावभासेनावभास्य सर्वमन्त्रां सञ्चोद्य पुनरपि भगवतः ऊर्णाकोशान्तर्हिता | समनन्तरान्तर्हिते रश्मिभिः चतुर्दिक्षु च आधश्चोर्ध्वं चत्वारः कुमार्यो भ्रातृसहिता तस्मिन्नेव महापर्षन्मण्डले अधः सुमेरुपर्वतराजसमीपे बुद्धाधिष्ठानेनाधिष्ठितोऽभूत् | सन्निपतिता सन्निषण्णा महाबोधिसत्त्वकुमारभूतं रिद्ध्या विक्रीडनसन्दशर्नार्थं महामन्त्रचर्यानिर्हारार्थं सर्वलोकोत्तरलौकिकमन्त्रचर्याक्रीडासमनुप्रेवशवशमाकर्षसमाश्वासन- चर्यासमनुप्रवेशनार्थम् || अथ खलु भगवां शाक्यमुनिर्वज्रपाणिं बोधिसत्त्व महासत्त्वं तस्मिन्नेव पर्षदि सन्निपतितम् ईषिन्निरीक्ष्य सर्वं च बोधिसत्त्वगणम् || अथ सा सर्वावती पर्षदिह महापृथिवी च देवतागणपरिवृता महाभूतैकमन्त्रालयं ओषध्यो महाज्योतींषि नगां सञ्चाल्य प्रचलिता रणिता प्ररणिता क्षुभिता सम्प्रक्षुभिता दक्षिणा दिगुन्नमति उत्तरा दिगवन्नमति पश्चिमदिगुन्नमति पूर्वा दिगवनमति अन्तादवनमति मध्यादुन्नमति मध्यादवनमति अन्तादुन्नमति महतस्य चावभासस्य लोके प्रादुर्भावोऽभूत् || अन्यानि चाप्रभेयानि असङ्ख्येयानिश्चर्याद्भुतानि प्रातिहार्याणि सन्दृश्यन्ते स्म | ताश्च देवसङ्घा निःप्रपञ्चमहतालम्बनज्ञानशान्तिपदं नाम समाधिं समापद्यते स्म | यन्न शक्यं सर्वप्रत्येकबुद्धार्हत्त्वमहाबोधिसत्त्वैरपि ज्ञातुम् | कः पुनर्वादः समापद्येतुं अन्येषां सर्वलौकिकलोकोत्तराणां तीर्थायतनानां अभिभवनार्थं सर्वमन्त्रतन्त्रानुप्रवेशनार्थं सर्वविमोक्षधर्मपरिपूरणार्थं सर्वसत्त्वानां च शान्तिपदमनुप्रापणार्थं २६५, प्. ५१५) सर्वभूतमनुकम्पाभूतकोटितथताचिन्त्यबोधिमण्डवज्रासनमाक्रमणतिष्ठ- पदमनुप्रापणार्थं च भगवां शाक्यमुनिः ध्यायन्तः स्थितोऽभूत् || अथ खलु मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो वज्रपाणिं बोधिसत्त्वं महायक्षसेनापति आमन्त्रयते स्म - भाष भाष त्वं भो ! जिनपुत्र ! सर्वमन्त्रचर्यानुप्रवेशं सर्वलौकिकमन्त्राणां सारभूतं तमं परमरहस्यं सर्वभूतसत्त्वानां समयानुप्रवेशं यथाशयमनोरथसर्वपारिपूरकं अनुज्ञातस्त्वं भो ! जिनपुत्र ! सर्वबुद्धैर्भगवद्भिः अतीतानागतप्रत्युत्पन्नैस्तथागतमन्त्रकोशसर्वज्ञतापरिपूरणार्थं इह कल्पराजपटलविसरे सर्वविक्रीडालीलाचिन्त्याश्चर्याद्भुतविकुर्वणसन्दर्शनार्थं सर्वज्ञज्ञानमुद्भावनार्थम् || अथ खलु वज्रपाणिः बोधिसत्त्वो महासत्त्वः मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म | शृण्वन्तु भो ! धर्मधर सर्वतथागतानां समतानुरक्षणदक्षकथायास्यहं चतुःकुमारीणां भ्रातृसहितानां सरहस्यं पटविधानहोमजापकालक्रियानियमः प्रतिमाविधानमण्डलसमय- आह्वाननविसर्जनापूजनार्घदीपगन्धधूपमाल्यविलेपनचूर्णवस्त्रनिवेदन- ध्वजपताकघण्टामालप्रदीपस्रग्विधिसाधनसाध्योपायनियमक्रमः शान्तिकपौष्टिकाभिचारुक अन्तर्द्धानाकाशगमनपादप्रचारिकवशीकरणावेशनविद्वेषणोत्सादन-शोषण मोअनस्तम्भनमारण विविधसत्त्वाकारकरणपीडनतर्जनभर्त्सनबहुपदापदकरणक्रियो मार्गसन्दर्शनयथेस्टकर्मफलः बन्धनरोहणावन्ध्यकरणसर्वकर्ममन्त्रतन्त्रसाधनोपयिकेषु स्थानेषु नियोजनः सिद्धिपरिपूरणा | तच्छ्रूयतां भो ! जिनपुत्र ! || अथ वज्रपाणिः श्रीमां प्रणिपत्य सुगतं विभुम् | उवाच मधुरां वाणिं शब्दार्थभूषिताम् || अनर्थां कर्णसुखां चैव मधुरार्थसुकूजिताम् | बह्वार्थकरीमिष्टां सर्वमन्त्रास्पदकरी ब्रह्मस्वरनिनादिनीम् || कलविङ्करुताघोषा स्पष्टगम्भीरसंयमी | सूक्ष्मार्थतत्त्वावचोदनीम् * * * * * * * (?) || सर्वमन्त्रेश्वरीं श्चैव वाचं भाषेऽथ वज्रधृक् | शृणोथ भूतगणाः सर्वे देवसङ्घा महर्द्धिका || वक्ष्यमाणां तथा कल्प सविस्तरं सर्वकर्मिकम् | २६६, प्. ५१६) चतुर्मूर्तिर्महौजस्क चतुर्दिक्षु समागमम् | चतुर्वर्णसमायुक्तं चतुरक्षरभूषितम् || चतुर्मन्त्रसमोपेतं स पुमां पञ्चमाशृताम् | चतुर्थगतिमाहात्म्यं चतुर्भूतसमागमम् || सभ्रातृपञ्चमं ज्येष्ठं महाभूताकाशमुद्भवम् | सर्वत्राप्रतिहतं श्रेष्ठं सर्वमन्त्रार्थसाधनम् || सर्वकर्मकरं पूज्यं ज्येष्ठं मङ्गल्यमघनाशनम् | प्रवृत्तं सर्वभूतानां मन्त्ररूपेण श्रेयसाम् || चतुःकुमार्येति विख्याता कुमारा पञ्चमात्मका | वायवम्बुज्योतिषिं पृथिवीं खपञ्चमात्मकाम् || तेषां मन्त्ररूपिण्यां विपाको भवति देहिनाम् | पञ्चमो श्रेयसो मुख्यो भ्रातृरूपेण मन्त्रराट् || तेषां मन्त्रं प्रवक्ष्यामि अपराख्य शृणोथ मे | अथ ते सर्वभूता वै प्रहृष्टमनसा अभूत् || निषण्णा धर्मतां ज्ञात्वा सौम्यचित्ता समाहिता | श्रोतुकामा हि वै सर्वो निश्चलायतलोचना || अथ मञ्जुवरां श्रीमां ऊर्ध्वक्ष्य सुगतात्मजम् | वज्रपाणिं महायक्षं सर्वमन्त्रेश्वरालयम् || कृपावकृष्टहृदयो अपरोऽभूत् तदन्तरे | सर्वबुद्धा वै प्रत्येकार्हश्रावका * * * * (?) || बोधिसत्त्वा महासत्त्वा दशभूमिसमाशृता | सर्वसत्त्वा तथा लोके मुख्या अग्रतमाश्च ये || निषण्णा सर्वतः सर्व गतिपञ्चसुयोजिताः | जन्मिनो वरमुख्याश्च पराः परपूजिता || भवाग्रा ह्यावीचिपर्यन्तां अनन्तां धातुमाशृताम् | त्रिजन्माध्यक्षपर्यन्ता दशभूमाधिपा परा || २६७, प्. ५१७) श्रोतुकामा हि वै सर्वे निपेतुस्तं समागमम् | अथ वज्रधराध्यक्षो विदित्वा सर्वमागताम् || सत्त्वां बोधिसत्त्वांश्च सर्वमन्त्रेश्वरालयाम् | सुरज्येष्ठां तथा देवां दशभूम्येश्वराम् || सर्वसत्त्वां विदित्त्वैनां प्रसन्नां बुद्धशासने | मन्त्रं प्रत्याहरेद्धीमां मन्त्रनाथेश्वरस्तदा || नमः सर्वबुद्धानामप्रतिहतशासनानाम् अचिन्त्याद्भुतरूपिणाम् | ओं तुरु तुरु हुलु हुलु मा विलम्ब समयमनुस्मर मम कार्यं साधय हूं हूं फट् फट् स्वाहा || सर्वकर्मिकोऽयं मन्त्रः | हृदयोऽयं सर्वबुद्धबोधिसत्त्वानां सर्वलौकिकलोकोत्तराणां सर्वव्याधिराजाधिपतीनां च मूलमन्त्रोऽयम् अनेन सर्वकर्माणि कारये || सर्वद्रव्याणि साधयेत् सर्वकर्मकरो विभुः | अनेन तु सदा कर्म कुर्यात् क्षिप्रार्थसाधने || तत्र मन्त्रं प्रवक्ष्यामि देवसङ्घा शृणोथ मे | ओं देव स्वाहा | सार्त्थवाहायस्तुम्बुरेर्मन्त्रः | ओं जये स्वाहा | ओं अजिते स्वाहा | ओं अपराजिते स्वाहा | एते मूलमन्त्रा सभ्रातृसहितानां चतुर्भगिनीनां लोकपूजितानां हृदयानि भवन्ति | तासाम् ओं रूपिणि ओं विरूपिणि विश्वात्मने | एते हृदयोद्भवा मन्त्रास्तुम्बुरेर्हृदये मन्त्रा भवन्ति | ओं देवेशाय स्वाहा | उपहृदयानि भवन्ति | ओं वामानि पिशाचि ओं महाराक्षसि स्वाहा | ओं विकृतरूपिणि स्वाहा | ओं प्रकीर्णकेशी कृतान्तरूपिणि स्वाहा | ओं वज्ररूपिणि कृतान्तरात्रि भयानकि स्वाहा | तुम्बुरेः सार्थवाहस्योपहृदयं भवति | ओं चतुर्वक्त्रविभूषितमूर्तिं त्रिनेत्रा लम्बोदर बहुरूपि स्वाहा | ओं धु धु ज्वलय सर्वदिशां स्वाहा | सर्वेषां भगिनीनां भ्रातृसहितानां दिव्यस्तु मन्त्रोऽयम् | ओं हूं सर्वेषां शिखा | ओं ह्रीः जः सर्वेषां शिरः | ओं ध्यायिनि स्वाहा | सर्वेषां मन्त्रः | ओं दृक् सर्वेषां नेत्रः | ओं भगिनीनां भ्रातृसहितानां चन्दनकुङ्कुमानुलिप्तानां समया च रक्षितानां २६८, प्. ५१८) हिमवन्तससागरचारिणां दृढव्रतानां बुद्धधर्मसङ्घानुज्ञातानां श्रीः | ह्रीः | रीम् | व्रीः | भुजः | एष सर्वभगिनीनां सर्वभ्रातृसहितानां गात्रे महामन्त्रः | सर्वकर्मिकः प्रसिद्धः सर्वकर्मसु | परमगुह्यतमः | ओं आयाहि महादेव विश्वरूपिणे स्वाहा | ओं तुम्बुरे सार्थवाहस्याह्वाननमन्त्रा | ओं गच्छगच्छ महादेव विश्वात्मने स्वाहा | तुम्बुरेः सार्थवाहस्य विसर्जनमन्त्रा | ओं आयाहि देवि कुमारिके किं चिरायसिसमयमनुस्मर | मम कार्यं सम्पादय स्वाहा | जयायाह्वाननमन्त्रा | ओं आयाहि महाभोगिनि कार्यं मे साधय समयमनुस्मर स्वाहा | ओं महायोगान्धरि विस्तीर्णधनप्रिये स्वाहा | अजिताया आह्वाननमन्त्रा | ओं श्मशानवासिनि रूपपरिवर्तिनि देहानुचरे स्वाहा | अपराजिताया आह्वाननमन्त्रा पुनरेव सर्वमण्डलां लौकिकलोकोत्तरामालिखेत् | सर्वकर्मेषु च योजयेत् | परकल्पविधानेनापि ईप्सितमर्थं साधयेत् | अस्मिन्नेव कल्पविसरे मूलकल्पराजपटलसमतासम्मतश्चतुःकुमारिणां कुमारसहितानामादिमाख्यायते मन्त्रोऽयं बुद्धात्मजो यमिच्छति | सर्वकर्मिकमित्याहुः बुद्धपुत्रा महर्द्धिका | कुलाग्रा मन्त्रमुख्याश्च सर्वमन्त्रेश्वरो विभुः || करोति विविधां कर्मां विचित्रां साधुवर्णिताम् | प्रसह्यं चापि भूतानां चित्तं हरति तृजन्मिनाम् || गत्यर्थवश्यताहेतुनापत्यार्तसमुद्भवम् | प्रसह्यं कुरुते कर्म गतियोनिविनिर्गतः || चतुर्भगिन्येति विख्याता * * * * * * * (?) | सभ्रातृसहिता नित्यं महोदधिनिवासिनः || नौयानसमारूढा सभ्रातृसहपञ्चमा | कर्णधारोऽथ चित्तासां तुम्बुरुर्नाम संज्ञितः || विचरन्ति महीं कृत्स्नां सत्त्वानुग्रहतत्पराम् | विचित्ररूपधारिण्यो विचित्राबह्रणभूषिताः || विचित्रैव फलं सातां विचित्रोपकरणपूजिताम् | पर्यटन्ति महीं सर्वां सशैलसहसागराम् || २६९, प्. ५१९) तासां मन्त्रो महाज्येष्ठः तुम्बुरुर्नाम इष्यते | सार्थवाहस्य मन्त्रो वै त्र्यम्बकस्य जनाधिपे || चतुरक्षरसंयोगा ओङ्कारसप~जकः | प्रथमः सर्वमन्त्राणां चार्चनं कुर्यात् गन्धधूपदीपमाल्योपहार्विशेषैः बलिविधानं दत्वा जपं कुर्यात् | अनाकुलपदाक्षरैः | गुह्यप्रदेशे एषामन्यतमं श्रेष्ठं मन्त्रं गृहीत्वा त्रिःकालमष्टसहस्रं जपेत् | आगताया अर्घं दत्वा सर्वकर्माणि कारयेत् | अर्घमन्त्रं चात्र भवति | ओं प्रविगृह्णतु भगिन्यः सभ्रातृसहिता चार्घम् | समयमधितिष्ठन्तु स्वाहा | अर्घमन्त्रा सर्वेषां भ्रातृसहितानां सर्वोपचारमन्त्राणि भवन्ति | ओं ज्वल ज्वल महाहुताशार्चि महाद्युतीनां स्वाहा | सर्वेषां प्रदीपमन्त्रा | ओं धूं धूं | अरितवासिनि धूपशिखे सुरभिगन्धमनोहरे प्रतिगृह्णतु देव्यः भ्रातृसहिताः ध्यायन्तां स्वाहा | धूपमन्त्रः सर्वेषाम् | ओं कुसुमवासिनि कुसुमाढ्ये सुरभिमाले सुगन्धिमनोहरे वने कुसुमा जाताः सुकुमाराः सुगन्धिनः | तां निवेदितो भक्त्या प्रतिगृह्णध्वं मनोजवा स्वाहा | पुष्पमन्त्रा | अनेन पूजां कुर्वीत | ओं गन्धगन्धाधिवासे स्वाहा | गन्धमन्त्रा | ओं बलिते बलिनि स्वाहा | बलिमन्त्रा | ओं लालावति स्वाहा | निवेद्यमन्त्रा | ओं सू | वस्त्रमन्त्रा | ओं फट् | घण्टामन्त्रा | ओं स्वरव्यञ्जनमन्त्रा | ओं छादय छत्रमन्त्रा | ओं दोधूयते धूयते स्वाहा | चमरमन्त्रा | ओं केलिमहोकलिहृदयङ्गमे स्वाहा | सर्वद्रव्योपकरणाञ्जनरोचनादर्शप्रसाधनमन्त्रा | ओं समस्तव्यापिनि स्वाहा | सर्वदिग्बन्धवज्रप्राकारमन्त्रा | ओं मण्डलिने स्वाहा | इत्यूर्ध्वमधः बन्धमन्त्रा | सर्वतश्च समन्ताशेषबन्धं भवति | ओं नमः सर्वबुद्धानामप्रतिहतशासनानाम् | ओं हूं हः | सर्वकर्मिकोऽयं महाविद्याराजा शासनो नाम | वशिता सर्वभूतानां चतुःकुमारीणां सभ्रातृसहितानां पीडनो शोषणो रोधनो बन्धनः वशयिता निग्रहानुग्रहे रतः सर्वभूतग्रहमातर सर्वकर्मेषु अप्रतिहतशासनः गुह्ये प्रदेशे अववरके वा जप्यमानश्चतुर्भगिनीनां सभ्रातृसहितानां यं रोचते तं कारयति | याच्यमानस्तु यं वरं रोचते २७०, प्. ५२०) तं वरं याचयितव्या शीघ्रं वरमनुप्रयच्छति | एवं बन्धनताडनतर्जनतर्जनमारणादीनि कर्माणि कुर्वन्ति | अनेनैव विद्याराजेनोपतप्यमाना सह जप्यमाना सर्वकर्माणि कुर्वन्ति | आसां मन्त्राणि भवन्ति | विसर्जनाध्येषणादीनि कार्याणि कुर्वन्ति || ओं रूपिणि गच्छ गच्छ समयमनुस्मर स्वाहा | जयाया विसर्जनमन्त्रा | ओं वामने पिशाचि प्रकीर्णकेशि विश्वरूपिणि गच्छ गच्छ मम कार्यं साधय स्वाहा | विजयाया विसर्जनमन्त्रः | ओं लहु लहु रूपिणि गच्छ गच्छ समयमनुस्मर मम कार्यं समादाय स्वाहा | अजिताया विसर्जनमन्त्रा | ओं विश्वरूपिणि विकृते विकृतानने सर्वदुष्टनिवारणि गच्छ गच्छ ममार्थं साधय स्वाहा | अपराजिताया विसर्जनमन्त्रा एते विसर्जनाध्येषणमन्त्रा | यन्मनीषितं कार्यं | विचित्रकुसुमैरञ्जलिं पूरयित्वा याचयित्वा प्रसाद्य च देवीनामग्रतः सभ्रातृसहितानां क्षेप्तव्याः | ततस्ता मुक्ता भवन्ति | सभ्रातृसहिता सान्निध्यं च कल्पयन्ते | यथेष्टं च वरमनुप्रयच्छन्ति विचरन्ति यथासुखमिति | वाचा वक्तव्या प्रतिदिनं च कर्तव्यमेवमुपरुध्यमाना मोक्षणाच्च सान्निध्यं न परित्यजन्ति | सततक्रिया अन्यथा उपरुध्यमाना नावतिष्ठन्ते कर्तव्यम् || अथ ते भगिन्यः सभ्रातृसहिताः थरथरायमानाः पीड्यमानाश्च वेपथुरुपजातशङ्का बोधिसत्त्वानुभावेन चतुर्दिक्षु रागत्य एवं वाचमुदीरयन्ते - परित्रायस्व भगवं वज्रपाणि परित्रायस्व | पीडिताः स्म भगवं सुपीडिताः स्म | गतिरन्या न विद्यते | त्वमेव भगवं शरणम् | त्वमेव त्राणमिति || अत्रान्तरे विद्याराजेन शासने सुशासिता सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या सर्वसत्त्वाश्च सर्वगतिसङ्गृहीताश्च सुविनीताश्च सुशासिता महाविद्याराजेन वज्राधिपतिनानुभावेन ताः भगिन्यः भ्रातृसहिताः भीताः सुविनीता आर्तस्वरं क्रन्दमानाः अवतिष्ठन्ते || अथ खलु मञ्जुश्रीः बोधिसत्त्वो महासत्त्वः तां देवतां भ्रातृसहितानामन्त्रयते स्म | मा भैष्टत भगिन्यः मा भैष्टथ | बुद्धं शरणं गच्छध्वम् | २७१, प्. ५२१) द्विपदानामग्रं धर्मं शरणं गच्छध्वम् | विरागाणामग्रं सङ्घं शरणं गच्छध्वम् | गणानामग्र्यम् || अथ ता भगिन्यः सभ्रातृपञ्चमाः बुद्धं शरणं गच्छन्ति | एवं शरणं गच्छन्ति | सङ्घं शरणं गच्छन्ति स्म | ततस्ताः सुखसौमनस्याः परमेण सुखसौमनस्येन समन्वागता अभूवन् | मुक्तगाढबन्धनात्मानं सञ्जानते स्म | प्रीतीसुखसमर्पिताः लब्धप्रसादपरमसञ्जातहृष्टरोमकूपाः इदमुदानमुदानयन्ति स्म || अहो आश्चर्यमिदं प्राप्तो रत्नत्रयोद्भवे | सुखिताः स्म क्षणाल्लब्धात् सर्वदुर्गतिघहिताः || सुगतौ स्वर्गमोक्षौ च सदा बुद्धिनिवेशिता | ततस्तां तुष्टमनसो मञ्जुघोषं निरीक्ष च || प्रणिपत्य चरणौ मूर्ध्ना इदं वाचमुदीरयम् | त्रातस्त्वं सर्वदुःखेभ्यः गतिस्त्वं भो महाद्युतेः || यस्त्वं सर्वधर्माणां गभीरपदमक्षरा | त्वं देशयसे नाथ बन्धुभूत नमोऽस्तु ते || आज्ञापय महावीर मन्त्रनाथं जिनात्मजम् | किमानीताः स्म देवेन आज्ञां किं करवानि ह || एवमुक्तास्तु वीरो वै सर्वबुद्धात्मजो विभुः | उवाच मधुरां वाणीं देवताभिः स चोदितः || गच्छ त्वं शरणं भूयः वज्रपाणिजिनात्मजे | अवैवर्तिकसङ्घो वै बोधिसत्त्वाग्रजोद्भवेत् || तृरत्नमादौ कृत्वा वै वंशजं जिनवरात्मजम् | चित्तं च बोधो ईरध्वं मैत्रचित्ता भवोत्सुका || ततो वा सर्वतः कृत्वा जघ्नुः स्वस्थतास्पदम् | ततस्ता देवताः सर्वे प्रणिपत्य जिनात्मजम् || २७२, प्. ५२२) आज्ञां सम्पाद्य सर्वं वै येन वज्री तदोन्मुखा | नमस्कृत्वा तु तां क्षिप्रं वज्रपाणिं महाद्युतिम् || अभिष्टुत्य ततः सर्वे स्थिताः तन्मुखोद्भवाः | प्रसमीक्ष्य तदा कन्या सभ्रातृसहपञ्चमा || वज्रपाणिं च यक्षेशं निरीक्षमाणाः स्थिताः | अभूवं नित्यार्थमास्पदा देव्यः अनित्यार्थार्थभूषिताः || प्रणेममधुरां वाचामात्ममन्त्रार्त्थशोभनाम् | नमस्ते सर्वबुद्धानां बोधिसत्त्वां महर्द्धिकाम् || प्रत्येकार्हसङ्घं च असतांश्चैव योगिनाम् | आत्ममन्त्रार्थविस्तारं कथयामो महाद्युते || यथातत्त्वावबोधार्त्थं जनानां तु महीतले | सरहस्यं गुह्यमन्त्राणां त्वद्वक्षान्निसृतात्मनाम् || अनुरक्षार्थमन्त्राणां आस्पदार्थार्त्थभूषणाम् | एवमुक्ते तु मन्त्रेशः वज्रपाणिर्महाद्युतिः || ईषिस्मितमुखो भूत्वा विलोक्य विकसन्मुखः | पूजयामास तां कन्यां सभ्रातृसखीजनाम् || अनुज्ञातं मया यूयं निर्विशङ्क भविष्यथ | संश्राव्य कल्पविस्तारं सरहस्यं समण्डलम् || जन्तुभिः पूजिता नित्यं वरं वो दास्यथ सर्वदा | ऋषिभिः पूजिता यूयं यक्षराक्षसकिन्नरैः || गरुडैर्देवगन्धर्वैः असुरैश्चापि महर्द्धिकैः | कूष्माण्डैः मातरैश्चापि समग्रैः सोमभास्करैः || लोकपालैः धनाध्यक्षैः पतद्भिः वसवैस्तथा | तैरिवेयं सुराध्यक्षैः पिशाचोरगमानुषैः || भूताध्यक्षैः निशाध्यक्षैः पिशिताशनव्यन्तरैः | राक्षसाधिपमुख्यैश्च रौद्रचित्तैर्विहेठकैः || २७३, प्. ५२३) दैत्यदानवसङ्घैश्च यमैः प्रेतमहर्द्धिकैः | मानुषामानुपैश्चापि ब्रह्मविष्णुमहेश्वरैः || सुरमुख्यैर्महाज्येष्ठैः सिद्धचारणपूतनैः | योगिभिर्जिनपुत्रैश्च पूजिता वो भविष्यथ || न सन्देहो प्रभावा वरक्रमा * * * * * (?) | जयाया मन्त्रमित्याहुः कल्पविस्तारविस्तरा || नव कोट्यस्तु मन्त्राणां तन्त्रकल्पसविस्तरा | विजया चैव मन्त्राणां षष्टिर्लब्धा प्रकीर्तिता || अजिताया तु भवेन्मात्र लक्षषोडशकोद्भवा | अपराजिताया तु कन्याया चतुःकोट्यः उदाहृताः || तुम्बुरेः सार्थवाहस्य नवकोट्योऽथ गायतः | तत्प्रमाणा भवेत् कल्पा नृसुरासुरपूजिताः || सर्वं शैवमिति ख्यातं सर्वैर्भूतलवासिभिः | मयैव निगदितं पूर्वं कल्पे मस्मिं सविस्तरे || पश्चादन्यो जनः प्राहुः कल्पमन्त्रां पृथक् पृथक् | तुम्बुरुः सार्थवाहस्य त्र्यम्बकस्य तु धीमतेः || अनन्ता कल्पविस्तारा शर्वस्यास्य कपर्दिने | यत्प्रभावार्थं मन्त्राणां सिद्धिं यास्यन्ति भूतले || अनुज्ञाताथ वै यूयं कल्पराजेऽथ वै सदा | भाषध्वं मन्त्रतन्त्राणां सरहस्यं सविस्तरम् || सगुह्यं गुह्यतमं चापि सर्वसत्त्वसुखोदयम् | इत्युक्त्वा वज्रधृक् श्रीमां वज्रमाशृत्य लीलया || तूष्णीम्भूत तदा तस्थौ रत्नपङ्कजमुच्छृते | अथ ताः कन्यकाः क्षिप्रं सभ्रातृमथपञ्चमाः || प्रणिपत्य मन्त्रनाथं वै यक्षेशं जिनवरात्मजम् | वज्रपाणिं महावीरं मन्त्रनाथेश्वरं विभुम् || २७४, प्. ५२४) उवाच मधुरां वाचां एकैकामनुपूर्वतः | मण्डलं तु समासेन वक्ष्येऽहं भुजयोदयम् || ज्येष्ठमण्डलमित्याहुः जया ज्येष्ठमगायत | विजने रहसि सम्पाते विगते चैव महाजने || प्रच्छन्नेऽग्रप्रसम्बाधे सरित्तीरे शिलोच्चये | विविक्ते कानने रम्ये बुद्धाध्युषितमन्दिरे || शून्ये देवकुले चापि शून्ये वेश्मसु शोधिते | एकवृक्षे शुभे रम्ये महोदधिसमाश्रये || एकलिङ्गे श्मशाने च विगते धूमपांसुभिः | वज्रासनमहापुण्ये धर्मचक्रे सुशोभने || यत्र शान्तिं गतो बुद्धः यत्र जातो महामुनिः | एते स्थाना भवेन्मुख्या मण्डलालिखने शुभा || गङ्गातीरेऽथ सर्वत्र सद्वीपपुलिनाश्रये | सरिद्वराश्च मुख्या ये कीर्त्तिता लोकविश्रुता || तेषु तीरेषु सर्वत्र नित्यं मण्डलमालिखेत् | समन्तात् सर्वतोयान्ता महोदधिसमप्लवा || हिमवन्तविन्ध्या तोयान्ता प्रस्थिता निम्नगाम्बुधेः | सरिद्वरिष्ठेषु तीरेषु युक्तो मण्डलमालिखेत् || अन्ये वा रहसि भूभागे उडये वा सुशोभिते | देवायतनरम्येषु स्तूपे चापि महोच्छ्रिते || धातुगर्भे तथा चैत्ये चापीकूपासु वीथिकैः | तेषु तीरेषु सर्वत्र मध्ये चापि सुशोभितैः || गोष्ठे पद्मसरत्सर्वां क्वचित् तोयाश्रयोद्भवैः | अन्यैर्वा स्थानाग्रैर्नित्यं विहारारामभूषितैः || यथेष्टमनसो तुष्टिः मुनिजुष्टे महीतले | पर्वताग्रैर्ग्रहैश्चापि कन्दरैः सानुचिह्नितैः || २७५, प्. ५२५) शान्तैरावसथैर्दिव्यैः ग्रहैश्चापि विजन्तुभिः | ध्यानानुकूलैः प्रशस्तैश्च ऋषिमुख्यैर्निषेवितैः || यत्र वा मनसो तुष्टिः तत्र मण्डलमालिखेत् | एषु स्थानेषु वै नित्यं यथोदिष्टैः सुपूजितैः || निपेतुर्देवताः क्षिप्रं सान्निध्यं चापि कल्पयेत् | तत्र स्थाने तदा नित्यं जपहोमक्रमो विधिः || ये साध्या मन्त्रमुख्याश्च उत्तमाधममध्यमाः | सिद्ध्यन्ति मन्त्राः सर्वे वै सिद्धक्षेत्रेष्विहोदिते || सिद्ध्यन्ति सर्वमन्त्रा सर्वे वै ज्येष्ठमध्यमकन्यसा | विविधा हि भवे सिद्धिः त्रिविधैव क्रियाविधिः || त्रिप्रकारस्तु मन्त्राणां त्रिधा कालप्रभेदतः | त्रिसन्ध्यं सर्वमन्त्राणां त्रिधा कर्मफलोन्मुखाः || शान्तिकं कर्म निर्दिष्टं जयाख्ये मण्डले शुभे | विजयाख्ये तु पौष्ट्यर्थं अजिताख्ये चाभिचारुकम् || अपराजिताख्ये तथा नित्यं निर्दिष्टं क्षुद्रकर्मसु | सर्वकर्मसु मन्त्रज्ञः तुम्बुराख्यं समालिखेत् || पञ्चैव मण्डला ज्ञेया अम्भोधे तु निवासिनाम् | समन्ताच्चतुरश्रं वै उक्तिमात्रं खनेद् भुवि || चतुर्हस्ताष्टहस्तं वा संशोध्य पाणिना पुनः | कठण्णः शर्कराङ्गारः तुषकेशमवस्कराम् || कपालास्थिशकृदुष्टां संशोध्य पाणिना ततः | स्वयं चापि परैस्तत्र सर्वावस्करतां जपेत् || कृमिजन्तुसमाकीर्णाः संशोध्यः यत्नतो व्रती | आपूर्यारन्यमृत्तिकैः शुचिभिश्च सुगन्धिभिः || नदीकूलोद्भवैर्मेध्यैस्तथा वल्मीकाग्रसम्भवैः | गोष्ठभूतलयोर्मध्ये तदन्यैर्वा पार्थिवोद्भवैः || २७६, प्. ५२६) सिकताभिः समन्ताद् वै सञ्छाद्य प्रसन्नधीः | अथवा गोमयमिश्रैर्वा मृत्तिकाभिः समन्ततः || समन्तमालेपयेत् क्षिप्रं पञ्चगव्यसमासृतैः | कुङ्कुमाक्तैस्तथा स्निग्धैः विविधैः गन्धमिश्रितैः || मृत्तिकाभिः समन्ताद् वै मण्डलं तु समन्ततः | आलेप्य भुवि यत्ना वै मन्त्रविन्मन्त्रतन्त्रवित् || पञ्चाङ्गिकचूर्णैस्तु विविधैः धूपवासितैः | आलिखेन्मण्डलं दिव्यं समन्ता चतुर्हस्तकम् || अष्टहस्तप्रमाणं वा ज्येष्ठं मण्डलमुच्यते | चतुर्हस्तोऽथ कनिष्ठं मध्यमं परिकीर्त्यते || पञ्चहस्तोऽथ विख्यातः षट् हस्तोऽथ मुक्तवाम् | सर्वेषां तु देवीनां सभ्रातृसहितात्मनाम् || मण्डलप्रमाणमित्युक्तः समन्ता च्चतुरश्रितम् | चतुर्द्वारं चतुःकोणं चतुस्तोरणभूषितम् || आलिखेन्मण्डलं दिव्यं प्रशस्तं चारुरूपिणम् | मध्ये कुमारमालिख्य बालरूपसुभूषणम् || कुङ्कुमाकारवर्णाभं वाममध्येऽथ संस्थितम् | नीलोत्पलं समन्ताद्यकरलग्नोपशोभितम् || दक्षिणे करविन्यस्तं श्रीमालं फलमायतम् | किञ्चिद्वरदं देवं मञ्जुघोषं महाप्रभुम् || किंचिदुन्मीलिताक्षं तु ईषित्प्रेक्षणदेवताम् | दक्षिणेन समन्ताद् वै महोदधि समालिखेत् || तत्रस्था नावारूढं देव्यां भ्रातृपञ्चमाम् | आलिखेन्मन्त्रविद्यानां सुवेषां चारुरूपिणाम् || विचित्राभरणविन्यस्तां विचित्रप्रहरणोद्यताम् | कुमार्याकारचेष्टानां सभ्रातृकुमारविक्रमाम् || २७७, प्. ५२७) नौयानसमारूढां सभ्रातृसहपञ्चमाम् | कर्णधारसमोपेतां तुम्बुरुः सार्थवाहिकाम् || महोदधि समन्ताद् वै मण्डलाभ्यन्तरं स्थितम् | ऋषाद्यै प्राणिभिर्युक्तं स्फोटकं वारिपूजितम् || आलिखेन्मण्डलं धीमां गुप्ते रहसि सर्वतः | यथा हि विधिनिर्दिष्टं तत्त्वं चापि कीर्त्तितम् || तत् सर्वं कारयेत् क्षिप्रं लौकिकेष्वेव योजयेत् | यावन्ति शैवतन्त्रेऽस्मिं ये तन्त्रे चापि गारुडे || ब्रह्माद्यैरृषिमुख्यैश्च भृग्वङ्गिरसकाश्यपैः | मार्कण्डमुनिवरैश्चापि पुलस्त्यागस्तिसम्भवैः || वासवैः शक्रदेवैश्च रुद्रेन्द्रसभास्करैः | विविधैः सत्त्वमुख्यैश्च यमाद्यैः प्रेतमहर्द्धिकैः || ग्रहमातरकूष्माण्डैः यक्षराक्षसपूजितैः | मानुषामानुषे लोके चित्तनाथैर्महर्द्धिकैः || पूजिता कल्पविस्तारा विष्णुरुद्रसवासवैः | कथिता कल्पमहात्म्यं निखिलाश्चैव भूतले || तस्मिं मण्डले योज्या सिद्ध्यन्तीह न संशयः | विविधा योनिमुख्यैस्तु विविधाकारचेष्टितैः || कथिता कथयिष्यन्ति देवीनां कल्पविस्तराम् | तस्मिं समये नियोक्तव्या जयाख्ये मण्डले भुविरिति || बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रीमूलकल्पात् पञ्चचत्वारिंशतमः पटलविसरात् प्रथमः चतुर्भगिनीमण्डलमनुप्रवेशसमयगुह्यतमपटलविसरः परिसमाप्त इति | २७८, प्. ५२८) अथाष्टचत्वारिंशः पटलविसरः | अथ खलु विजया नाम देवी तत्रैव पर्षदि सन्निपतिता सन्निषण्णाभूवम् | स स्वकं मण्डलोपचर्या साधनविधिं भाषयति स्म || आदौ तावद् विविक्ते देशे प्रच्छन्ने रहसि पञ्चरङ्गिकचूर्णेन शुक्लकृष्णपीतरक्तहरितैः चूर्णैः पञ्चम्या शुभे सितकृष्णयोः पक्षे चतुर्थ्या वा मण्डलमालिखेत् | चतुर्हस्तप्रमाणं समन्ताच्चतुरश्रं चतुःकोणं चतुस्तोरणभूषितम् | समन्तान्मण्डलमध्ये महोदधि समालिखेत् चतुर्मुद्रालङ्कृतम् | मध्ये सार्थवाहश्च मुद्रामण्डलाकारं इन्दुवर्णाभं पूर्वोत्तरे कोणे जया मुद्रा अर्धचन्द्राकारसितं दक्षिणपूर्वकोणे विजया मुद्रा तृकोणाकारं पीतनिर्भासं पश्चिमदक्षिणकोणे अजिताया मुद्रं बन्धाकारं रक्तावभासं उत्तरपश्चिमकोणे अपराजिताया मुद्रं वज्राकारं कृष्णनिर्भासं सर्वतश्च मुद्राणां ज्वालामालिनः कर्त्तव्याः || पूर्ववचौक्षसमाचारेण भूत्वा चतुःकोण चत्वारः पूर्णकलशाः स्थापयितव्याः आम्रपल्लवप्रच्छादितमुखाः सर्वव्रीहिरत्नपरिपूर्णगर्भाः | मध्ये तु सार्थवाहस्य तुम्बुरेः पञ्चमं कलशं तथैवाम्रपल्लवप्रच्छादितमुखं प्रत्यग्रवस्त्रावकुण्ठिताश्च कार्याः | तच्च तथैव बलिनिवेद्यपुष्पादयो यथा मुद्रास्तथैव कार्या | तद्वर्णश्च पुष्पधूपगन्धादयः तत् सर्वं तथैव कार्यम् | चतुर्दिशं च बलिः क्षेप्तव्या | अर्धरात्रे मध्याह्ने चाभिचारुके प्रत्यूषे पौष्टिके अपराह्ने शान्तिकमस्तं गते वा सवितरि कर्मत्रयं चापि यथाकालोपदिष्टमण्डलहोमजपसाधनेषु प्रयोक्तव्यम् || शुचिनो दक्षशीलाश्च स्त्रीपुरुषादयः अव्यथिताश्च प्रवेशयितव्याः सरदारिकाश्च गुह्यमन्त्रधारिणो आदौ प्रवेशयितव्याः | प्राङ्मुखं स्थापयित्वा विजयाया मूलमन्त्रेणोदकमभिमन्त्र्य सप्ताभिमन्त्रितं कृत्वा सर्वेषामभ्यषिञ्चेत् | सकृदहोरात्रोषितानां शुचिवस्त्रप्रावृतानामष्टौ प्रभृति यावदेकं प्राङ्मुखं पश्चाद्द्वारेण प्रवेशयेत् प्रत्यग्रमुखप्रच्छादितां कृत्वा एकैकं विजयाया मुद्रं बद्ध्वा अञ्जलिं कृत्वा पीतपुष्प दत्वा क्षिपापयेत् | विजयाया मन्त्रं कृत्वा मुखमुत्साद्य मण्डलं दर्शापयेत् | २७९, प्. ५२९) प्रदक्षिणं च कारापयेत् | सर्वेषां मुद्रां दर्शयेत् | ततोऽनुपूर्वतः सर्वे प्रवेशयितव्या यावदष्टाविति || पूर्वं तावद् देवीनामाह्वाननमन्त्रेण भ्रातृसहितानां मूलमन्त्रेण यथोचितैः पुष्पैरावाहयेत् | पूर्वं पश्चाद् धूपं दत्वा यथोचितं नमस्कारं कृत्वा यत्रोत्सहते शिष्यः स्त्रीपुरुषदारकदारिका वा स तस्मिं मण्डले बहिरभिषेचयितव्यः राजवत् सर्वोपकरणैः यथाभिरुचितैर्वा मन्त्रं मण्डलाचार्यस्य तुष्टिर्येन वा तुष्येत तयाभिषेचयेत् | अभिषिच्य च एक वा त्रयो वा अभिषेचनीयः आर्याभिषेकेण | एकं च वक्तव्यम् | शृणु कुलपुत्रकुलदुहितुर्वा लब्धाभिषेकस्त्वमनुज्ञातः सर्वदेवताभिश्च सभ्रातृसहितैश्च स्वमन्त्रतन्त्रेषु यथेष्टं मण्डलमालिख्य स्वमन्त्राणां विधिनियमचर्याकल्पविस्तरां ददस्वेति वक्तव्यः | तदन्ये विद्याभिषेकेणाभिपेचयितव्या | द्वित्रयो वा जनाः | शेषास्तु स्वमन्त्रचर्यायाः शिक्षापयित्वा विसर्जयितव्या || ततो मण्डलाचार्येण चन्दनोदकेनाभ्युक्ष्य अर्घं दत्त्वा स्वमन्त्रेणैव धूपपुष्पादिभिः देवतां विसर्जयितव्या | सर्वं चोपकरणं आत्मना ग्रहेतव्यम् | गृह्य च स्वं प्रत्यंशं त्रितीयभागं सर्वमनाथेभ्यो दातव्यम् | शेषमुदके प्लावयितव्यम् | तं पृथिवीप्रदेशं सुलिप्तं कृत्वा सुशोभितं विगतरजस्कं यथेष्टतो गन्तव्यम् | यथा स्वमन्त्रचर्यासु च तथा शिक्षापयितव्याः | सर्वे शिष्याः प्रच्छन्ने रहसि विगतजनसम्पाते स्वदेवतामुद्रांश्च बन्धापयितव्याः | तैरेव मन्त्रैः पूर्वनिर्दिष्टैर्मन्त्रैः सुविशेषतः सर्वमन्त्रा सिद्धिं गच्छन्तीति || आशु सिद्धिक्रियायुक्तिमन्त्राणां च विशेषतः | जयाख्ये मण्डले ह्युक्तं पूर्वनिर्दिष्टहेतुभिः || तत्कर्मविधिनिर्दिष्टः विजयाख्ये मण्डले शुभे | द्वितीयं मण्डलमित्याहुः निर्दिष्टं तत्त्वार्थमन्त्रिभिः || २८०, प्. ५३०) विजया मानतो ज्ञेया सर्वकर्मार्थसाधिका | ईप्सितां साधयेदर्थां सर्वमन्त्रेषु मन्त्रवित् || पूर्वं जप्तो मन्त्रस्तु सर्वकर्मेषु मानवी | तयात्मदेवता रक्षा विजयाया तु कीर्त्यते || पराभवश्च विघ्नानां आरम्भश्च फलोन्मुखः | मण्डले विजयाख्ये तु द्वितीये सर्वार्थसाधने || सर्शनान्मुञ्चते पुंसः सर्वकिल्विषमायतैः | जपाद् योगाच्च मन्त्रज्ञः पापशुद्धिश्च जायते || पराभवश्चान्येषां मन्त्राणां तु भूतले | परिपक्षगतां देषां स्वदुष्टादुष्टयोनिजाम् || नाशये तत्क्षणान्मन्त्री विजयाख्ये मण्डलावृतोः | सर्वकर्मिकमित्याहुः वश्याकर्षणभूतिकम् || सफलं कर्मजं लोके पुष्टिशान्त्यर्थसाधकम् | सर्वार्थसाधको ह्येष मण्डलोदधिसम्भवो || विजयाख्ये बहुमतः पुण्यः प्रशस्तः सोमपूजितो | नित्यं नित्यतमो पुण्यो मङ्गलो मघनाशनः || सुरूपो रूपमन्तश्च धन्यः सर्वार्थसाधकः | लिखनान्मन्त्रिभिः क्षिप्रं ऊर्ध्वगामर्थसाधकमितिदिति || अजितादेवमित्याहुः प्रसन्ना बुद्धशासने | मण्डलं त्रयमेकं वै कथितं लोकपूजितम् || पूर्वं रिषिवरैर्मुख्यैः कथितं लोकचिह्नितैः | अधुना च प्रवक्ष्येऽहं अजिताख्यं मण्डलम् || यद्व तत् तथैव नियोजयेत् * * * * * (?) | किन्तु वर्णवरं रक्तं रक्तैश्चापि चूर्णकैः || तथैव बलिपुष्पाद्यां गन्धधूपादिभिः क्रमैः | सर्वरक्तमयं बाह्यमसृग्ग्रस्ताङ्गशोभनम् || २८१, प्. ५३१) तथैव मुद्रां सर्वत्र भीमां चैव वियोजयेत् | बलिहोमक्रियायुक्तिः रक्तैश्चापि नियोजयेत् || कलशाश्चैव रक्ताभां रक्तवस्त्रांश्च दापयत् | तथैव मुखवेष्टं वा रक्तच्छत्रं तथैव च || आसनं शयनं यानं रक्तं चैव समालभेत् | तथैव रक्तमन्त्राणां स्त्रीपुंसार्थकारणम् || रागार्थं आवृते मन्त्रां रागिणस्यैव युज्यते | नान्यमन्त्रेषु मन्त्रज्ञो मतिं कारेथ कत्तृणाम् || बुद्धिमन्तः सदायोगी मन्त्रज्ञो मन्त्रमीरयेत् | कामार्थं सम्पदं प्राप्ता वश्याकर्षणहेतुकम् || प्राप्नुयात् सम्पदां सर्वां अजिताख्ये मण्डलेऽद्भुताम् | सर्वभूतवशार्थाय मण्डलं भुवि मुच्यते || कथितं मन्त्रिभिर्नित्यं चित्तविक्षेपकारणात् | आकृष्य महोजं कर्म वश्या भौतिकचेष्टितम् || विक्षिप्तचित्तो मर्त्यो वै आविष्टाविरलेक्षिताम् | दासभूतं समायातं सर्वज्ञासम्प्रतीच्छकम् || विवशं वशमायातं किङ्करानुवशवर्तिनम् | तादृशं मानुषं दृष्ट्वा पुनरेव सम्प्रमोक्षयेत् || स्त्रियं वा यदि वा पुंसं दारकं वाथ दारिकाम् | भूयोऽपि मूलमन्त्रेण अजितेनैव मोक्षयेत् || पूर्वनिर्दिष्टकर्मैश्च विधियुक्तैर्महीतले | आलिखेन्मण्डलं धीमां सर्वदैव प्रयोजयेत् || सफलं कर्म निर्दिष्टं समन्त्रं मन्त्रकर्मणि | पूर्वमन्यप्रयोगैस्तु साधयेद् विधिमुत्तमाम् || साध्यमाना हि सिद्ध्यन्ते सर्वे माहेश्वरा गणाः | विधानज्ञापतो रूपं मुद्रं मन्त्रार्थतन्त्रता || २८२, प्. ५३२) क्रियायोगप्रमाणं तु कथ्यमानातिविस्तरा | एतत् प्रमाणतो ज्ञेयं मण्डलेऽस्मिन् निबोधताम् || हस्ता च दष्टसप्ता वा षट्पञ्चचतुरस्तथा | द्विहस्तहस्तमात्रं वा वृता मण्डलमुद्भवेत् || ज्येष्ठमष्टस्तथा हस्तं सप्त षट् पञ्च मध्यमाः | चतुर्हस्तद्विहस्तं वा हस्तमात्रं तु कन्यसम् || ज्येष्ठे शान्तिकं कुर्या तथा मध्ये तु पौष्टिकम् | आभिचारुकमन्त्रेषु कुर्यात् कन्यसमण्डले || वश्यार्थं सर्वभूतानां नित्यं जम्भनमोहने | कुर्यात् सर्वकर्माणि जापी मन्त्ररतः सदा || अजिताख्यं मण्डल निर्दिष्टं सर्वग्रहविमोक्षणम् | यत्र भूताः पिशाचाश्च ग्रहमातरपूतनाः || दृष्टमात्रा वशमायान्ति नित्यं जम्भितमोहिताः | दर्शनान्मण्डले नित्यं क्षिप्रं गच्छन्ति वश्यतामिति || अपराजिता तु देव्या वै प्रणम्य जिनवरात्मजम् | वज्रकं गुह्यकेन्द्रं तु मञ्जुघोषं सुभूषणम् || सर्वां बुद्धसुतांश्चैव महौजसाम् | सभ्रातृपञ्चमां देवीमिमां वाचमुदीरयेत् || अहमप्येवंविधं कार्यं मण्डलार्थेति युक्तिजम् | वव्रे च शुभसङ्गीतं युक्यर्थाक्षरसंसृष्टिरेष प्र || महाप्रभावं महौजस्कं दुर्दान्तदमकं मतम् | सकृष्णं कृष्णवर्णाभं कालरात्रिसमप्रभम् || यमदूताख्यवर्णाभं * * * * * * * * (?) | साक्षाद् विवस्वतं घोरं परप्राणहरं भयम् || यथावत् पूर्वनिर्दिष्टं देवीनां तु मण्डले | तथैव तत् कुर्यात् सर्वं वर्जयित्वा तु वर्णतो || २८३, प्. ५३३) श्मशाने नित्यमालेख्यं पुरे दक्षिणतः सदा | सधूमे ज्वालामालीढे अस्थिकङ्कालवेष्टिते || मध्यस्थे सवसृजे देशे तत्रस्थे तु महीतले | श्मशानभस्मना लेख्यं कृष्णवर्णे तु भूतले || यथैवं पूर्वनिर्दिष्टं मन्त्रैरर्चविधिक्रमम् | तत् सर्वं क्षिप्रतो मन्त्री सर्वं चैव नियोजयेत् || स्वमन्त्रं मन्त्रनाथं च तुम्बुरं सार्थवाहकम् | महोदधिसमावृताम् * * * * * * * * (?) || अजितायामाशु निर्दिष्टा विजया खड्गपाणिनी | धनुर्हस्तां सदा देवी जया तामभिनिर्दिशेत् || विचित्रप्रहरणा ह्येता विचित्राभरणभूषिता | विचित्रगतिसत्त्वाख्या विचित्रा वेषचेष्टिता || आलिख्य मण्डले ह्यत्र कृष्णवर्णा तु भूतले | परप्राणहरं ह्येतत् मण्डलं भुवि चेष्टितम् || विविधार्थक्रिया मन्त्रा विविधा कर्ममुद्भवा | तत् सर्वं पूर्ववत् कृत्वा पश्चात् कर्म समारभेत् || जपहोमक्षया मन्त्रा मण्डलांश्चैव दर्शनम् | प्रवेशं मण्डले ह्यस्मिन् तत्पूर्वं विधिमुद्भवैः || एष संक्षेपतो ह्युक्तः कथ्यमानोऽतिविस्तरम् | मण्डलं देविमुख्यायाः कन्यसाया तु कीर्त्तितम् || अपराजिताख्यनामतः ज्ञेयो मण्डलं भुवि विश्रुतम् | अजितं सर्वतः पूर्वं राक्षसेश्वरकिन्नरैः || भूतैर्दैत्यमुख्यैस्तु यममातरसग्रहैः | कूष्माण्डे व्यन्तरैश्चापि पिशिताशैः सपूतनैः || तन्त्रे तु सर्वतो मन्त्रैः क्रव्यादैस्तु सकश्मलैः | असुराध्यक्षैः महाघोरैः सर्वभूतमहोदयैरिति || २८४, प्. ५३४) अथ तुम्बुरुः सार्थवाहो वैस्वं मण्डलमभाषयम् | तुम्बुराख्यं वामतो मर्त्यां वज्रधृक् तं नोबिधताम् || पूर्वनिर्दिष्टमित्याहुः पुनरेव महीतले | प्रणम्य वज्रिणं मूर्ध्ना इमां वाचमुशिक्षिरे || सर्वं पूर्वनिर्दिष्टं मण्डलं चतुरोदयम् | प्रथमं सर्वकर्मान्तं द्वितीयं तु इहोच्यते || व्यतिमिश्रं तथा युक्त्या अनुपूर्वमिआगतम् | मण्डलं चतुराख्यं तु सर्वभूतप्रसाधकम् || शून्यवेश्म तथा नित्यं शून्यदेवकुले सदा | प्रच्छन्ने रहसि विस्रब्धे स्वगृहे वाववरकेऽपि च || विचित्रैरङ्गनेपथ्यै विचित्रैश्चारुपूर्णकैः | पञ्चरङ्गिकचूर्णैस्तु विविधैर्वा फलोद्भवैः || शालितण्डुलपिष्टैस्तु विचित्रैरङ्गमुज्ज्वलैः | शुक्लचूर्णैस्तथा युक्तैः चन्दनागरुधूपितैः || विमिश्रैश्चन्दनचूर्णैस्तु कुङ्कुमागरुयोजितैः | कर्पूरकस्तूरिकासिक्तैः प्रियङ्गुकेशरादिभिः || स्पृक्कासीरसमायुक्तैः कृष्णागरुसुधूपितैः | चूर्णैर्विविधगन्धरिवा नित्यं मण्डलमालिखेत् || त्रिःस्नायी जपहोमी च त्रिचेलपरिवर्तिनः | व्यतिमिश्रपक्षे तथा मन्त्री सितासितसुचिह्निते || यथेष्टं तिथिनक्षत्रे नित्यं मण्डलमालिखेत् | चतुर्हस्तप्रमाणं वै यथोक्तं विधिपूर्वके || तत् सर्वमालिखेद् धीमां मन्त्रं यत्नाद्धि चेतसा | चतुःकोणं चतुर्द्वारं चतुस्तोरणसंयुतम् || मध्ये सरिपतिर्नित्यं मण्डलेऽस्मिं समालिखेत् | मध्यस्थं पद्ममारूढं धर्मचक्रानुवर्तिनम् || २८५, प्. ५३५) शाक्यसिंहं महावीरं मन्त्री बुद्धं समालिखेत् | शेषं मुद्रवरैः क्षिप्रं स्वभ्रातृसहपञ्चमम् || आलिखेत् सर्वतो मन्त्री चतुःकोणे तु सर्वतः | ज्येष्ठात् पद्मवरे तस्थौ अधस्ताद् बुद्धस्याम्बुधेः || तुम्बुरे मुद्रमालेख्यं सितवर्णोऽथ सर्वतः | सर्वे शुक्लवर्णाभा कुन्देन्दुशशिप्रभा || कुमुदाकारसङ्काशा सर्ववस्तुसुशुक्लका | पूर्वनिर्दिष्टयोगेन देवीनां तु विधानवित् || तत् सर्वं कुर्यान्मन्त्री सर्वकर्मार्थसाधनमिति | यथैव मण्डलं सर्वपटे स्मित प्रयोजयेत् || त्रिविधं पटनिर्दिष्टं मण्डलेऽस्मिं यथाविधि | शेषं यथेष्टवत् कुर्यात् पटमण्डले भूतले || आलेख्यं मन्त्रतन्त्रेऽस्मिं यथाविहिते मते | फलके पट्टके वापि यथाकाष्ठसमुद्भवैः || आलेख्याः देवताः सर्वे सभ्रातृसहपञ्चमाः | यथैव मण्डले सर्वं तत् सर्वं आलिखेत् पटे || अम्बरे वापि निर्दिष्टं यथोचितसमुद्भवे | निर्दिष्टं पटमन्त्रज्ञैः प्रतिमानां तु कीर्त्यते || चन्दनं मलयमित्याहु रागं चापि सकेसरम् | पुन्नागं चैव मन्त्रज्ञैः नित्यं प्रतिमासु योजयेत् || पियालं पद्मकं विन्द्यात् रोध्रकाष्ठं महीतले | सरलं देवदारुं च काश्मीरं चैव सघण्टकम् || कुटजार्जुनजम्बूकं प्रियङ्गुष्ठोमकोद्भवम् | रक्तचन्दनकाष्ठं तु विशेषात् पटमुच्यते || प्लक्षोदुम्बरकाष्ठं च सहकारं विशेषतः | पुण्डरीकं ससर्जं वै सिन्दुवारं सिद्धोद्भवम् || २८६, प्. ५३६) वकुलं तिलकं चैव काष्ठं सप्तच्छदं तथा | विविधा वृक्षजातीनां पुंसस्त्रीनपुंसकाम् || स्र्वेषां ग्रहणं काष्ठे मूलगण्डे ततोर्ध्वगम् | शाखासु सर्वतो ग्राह्या मधुकस्तिक्तकाष्ठयो || पिचुमन्दं तथा काष्ठेऽरिष्टे भूततरौ तथा | पुत्रञ्जीवककाष्ठेषु नित्यं चैवाभिचारुके || अश्वत्थे शान्तिकं विन्द्यात् काष्ठे चापि महीतले | पौष्ट्यर्थं काष्ठमित्युक्तं अशोकं शीर्षमेव वा || सर्वकर्माणि सर्वत्र सर्वकाष्ठेषु योजयेत् | मूलकाष्ठेन प्रतिमाया मूलनक्षत्रयोजिता || ततस्तम्भकृते काष्ठे ज्येष्ठनक्षत्र योजयेत् | ततः शाखाकृतं काष्ठं सर्वनक्षत्र योजयेत् || ततोर्ध्वनक्षत्ररेवत्या इन्दुवारेण कारयेत् | मूल आदित्यवारे वै स्तम्भः शुक्राद्यमीक्ष्यते || सर्ववारैस्तथा मुख्यैः सर्वग्रहगणादृते | मूले रसातलं गच्छेत् आसुरिं तनुमाविशेत् || ततस्तम्भकृतैः काष्ठैः गाण्डैश्चापि समुद्भवैः | वश्याकर्षणभूतानां जम्भस्तम्भ अमोहनाम् || कुर्यादाभिचारं वै तेषु प्रतिमा समाविशेत् | ततोर्ध्वं नभस्तलं गच्छेदूर्ध्वकाष्ठसमुद्भवैः || प्रतिमां देव्य समायुक्ते सुरयानसमाश्रयाम् | शाखासु सर्वतो गच्छेदन्तर्धानसुखोदयाम् || दिशां च सर्वतो मन्त्री यथेष्टं वा कर्म समारभेत् | काष्ठाः सर्वे तु निर्दिष्टाः प्रतिमालक्षणमिष्यते || नौयान च समारूढा देव्याकारसुभूषिताः | कुमार्याकारचिह्नस्तु पञ्चचीरकमूर्धजाः || २८७, प्. ५३७) तथैव करविन्यस्तौ मण्डलेऽस्मि हि बोधिताः | तुम्बुरुः सार्थवाहो वै कर्णधारो महाद्युतिः || करवालकरन्यस्तो वाहमन्तोऽथ सव्यके | तिर्यग्नावगता मन्त्रा त्र्यङ्गुलद्व्यङ्गुलोद्भवा || दीर्घशो वितस्तिमात्रं वा नावं चैव सुकारयेत् | सुसृष्टं श्वेतसङ्काशं शङ्खेन्दुधवलसन्निभम् || जया कारयेद् धीमान् तुम्बुरुं च विशेषतः | विजयां पीतनिर्भासामजितां चैव सुरक्तिकाम् || अपराजिता कृष्णवर्णा वै शुक्लां चैव अनामिकाम् | प्रसन्नां तुम्बुरुमूर्त्त्या जयां चैव विनिर्दिशेत् || ईषिद्भ्रुकुटिनो देव्या विजया चापराजिता | अजिता सौम्यवेशा तु कर्तव्य थ सर्वतः || अङ्गुष्ठपर्वमात्रं वा कन्यसाङ्गुलिमात्रता | सर्वाः प्रमाणवेषाख्या कथिता सर्वमन्त्रिणैः || दन्ती भोगगदा ख्याता सौवर्णपार्थिवोद्भवाः | पृथिव्यामधिपत्योर्वा कुर्यामेतां सुशोभनाम् || रौप्यं ताम्रमयीं वापि प्रतिमो ख्याता वशावहा | आकर्षणं च भूतानां कांसी ह्युक्ता महीतले || त्रपुसीसकलोहैश्च प्रतिमा ह्युक्ताभिचारुके | समारै रत्नविशेषैश्च प्रवालस्फटिकसम्भवैः || कुर्यात् प्रतिमां सौम्यां आशु सिद्धिलिलुप्सुभिः | कपालास्थिमयैः प्रतिमैः कर्म कश्मलजोद्भवम् || शृङ्गैः विविधमुख्याद्यैः यथान्यस्तार्थलाभिनाम् | सिद्ध्यन्ते सर्वमन्त्रा वै क्षुद्रमन्त्राश्च भूतले || यथासम्भवतो लाभा यथाप्राप्तार्थसम्भवा | सिद्ध्यन्ते सर्वतः कृत्वा प्रतिमाभिश्च योजिता | इति || २८८, प्. ५३८) अथ तुम्बुरुः सार्थवाहः सर्वेषां साधनविधानं समाचक्षते सामान्यतः | दन्तमयीं प्रतिमां कृत्वा देवीनां कन्यसाङ्गुलिप्रमाणामतिगुप्ते प्रदेशे आहूय मूलमन्त्रैः वामहस्तेन धूपं दत्वा जयाया मूलमन्त्रं जपेत् | अष्टसहस्रमष्टशतं वा जपं कृत्वा यन्मनीषितं तत् सर्वं स्वप्ने कथयति | त्रिसन्ध्यं सप्तदिवसानि जपः कर्तव्यः | यथेप्सितं तत् सर्वं सम्पादयन्ते | वश्याकर्षणग्रहविमोक्षणादीनि सर्वाणि क्षुद्रकर्माणि कुर्वन्ति | यथेष्टं वा सत्त्ववशीकरणे उत्तमसाधनादिषु कर्माणि निमित्तानि दर्शयति | जातीकुसुमैर्देवीनां प्रतिमां ताडयेत् | राजा वश्यो भवति | जातीकलिकैः देवीनां प्रतिमां ताडयेत् | अष्टशतवारां पञ्चकलिकाभिः त्रिसन्ध्यं सप्त दिवसानि | यामिच्छति राजकन्यां महाधनोपेतां वराङ्गरूपिणी तां लभते | जातीपुष्पैः पञ्चभिः कुसुमैः प्रतिमा एकैका आहन्तव्या त्रिसन्ध्यं सप्तदिवसानि अष्टशति | यामिच्छति वराङ्गनां तां लभते | तामेव प्रतिमामादाय मूर्धनि धारयेत् | केशावृतं कृत्वा भर्ता चास्य दासत्वेनोअतिष्ठति | ऊरुमध्ये संन्यसेत् | परमसौभाग्यं लभते | गृहीत्वाध्वानं व्रजेत् | चौरैर्न मुष्यते | परबलं दृष्ट्वा स्तम्भयति | सङ्ग्राममवतरेत् | शस्त्रैर्न हन्यते | अरिं मोहयति | परसैन्यं हस्त्त्यश्वरथपर्यटतीं स्तम्भयति | अञ्जनमभिमन्त्र्याक्षीणां जपेत् | यं प्रेक्षति सोऽस्य दासभूतो भवति | गोरोचनामभिमन्त्र्य आत्मवक्त्रे तिलकं कृत्वा यं प्रेक्षति सोऽस्य वशो भवति | यावत् तिलकस्तिष्ठते | तावन्मैथुनेऽव्यवच्छिन्नरतो भवति || एवं वस्त्रधूपगन्धमाल्यपुष्पोपकरणविशेषांश्च यज्ञोपवीतदण्डकमण्डलुकाष्ठोपानहाशयनयानासनभोजनादिषु सर्वोपकरणविशेषां सप्ताभिमन्त्रितां कृत्वा आत्मना परैर्वा कारापयेत् | सर्वसत्त्वा वश्याभवन्ति किङ्करानुवर्त्तिनः | माषजम्बुलिकां सप्ताभिमन्त्रितां कृत्वा प्रच्छन्ने स्थाने देवीनामग्रतः अग्नौ अष्टसहस्रं जुहुयात् त्रिसन्ध्यं सप्त दिवसानि सर्वे रण्डाः सर्वे डाकिन्यः सर्वे भूतग्रहाः सर्वे च कश्मलाः वशा भवन्ति | किङ्करानुवर्तिनो योजनशतगमनागमने च गोमूत्रेण पिष्टा पूर्वाह्ने पिण्डारकवन्दकं आम्रवन्दकं च गृह्य सहस्रसम्पादितं कृत्वा पादं लेपयेत् | २८९, प्. ५३९) दिव्योदकेन ज्येष्ठोदकेन वा सर्वकर्मसु योज्य सर्वपूजितेषु च कल्पेषु परमन्त्रविधानेनापि | किन्त्वयं विशेषः | यत्र मण्डले सार्थवाहस्य तुम्बुरुर्भगवां धर्मस्वामी बुद्धः सर्वसत्त्वानामग्रः शाक्यमुनिरभिलिखितः तस्मिं मण्डले दृष्टसमयस्य कर्माणि कर्तव्यानि | आशु सर्वकर्माणि सिद्ध्यन्तीति | दशसहस्राणि पूर्वसेवाजापः कार्य इति || जया स्वकल्पं भाषते | मरकतेन्द्रनीलपद्मरागस्फटिकादिभिः प्रवालाङ्कुराश्मवैदूर्यरत्नविशेषैः सुवर्णरूप्यमयैर्वा प्रतिमां कृत्वा देवीनां नौयानसमारूढा चतुर्भगिनीनां सभ्रातृसहितानामन्तशः प्रतिमां कृत्वा पूर्ववद् यथाभरणप्रहरणविशेषाणां देवीनां शुचौ देशे चन्दनकुङ्कुमकर्पूरोदकाभ्यषिक्ते तैरेव मण्डलं कृत्वा अतिगुप्ते स्थाने मार्गशीर्षमासे कार्त्तिकपूर्णमास्यां वा अन्ये वा सितपक्षे प्रातिहारककुसुमागमे अन्ये वा शुक्लेऽहनि प्रशस्ते तिथौ चन्द्रभार्गववारे रोहिणीरेवत्यनुराधाज्येष्ठनक्षत्रा भिक्षाहारेण उदकसक्तवाहारेण वा हविः फलभक्षणे वा मोचाम्रफलसनालिकेरैः पूर्वं जयायाः अक्षरलक्षं जपेत् | जप्ता कृतपुरश्चरणः तथागतबिम्बोदयमण्डलं तुम्बुरुर्दृष्ट्वा कृतरक्षः शुक्लाम्बरधरः स्रग्वी मालतीकुसुमावबद्धशिरस्कः अहोरात्रोषितो भूत्वा साधनमाविशेत् | पूर्ववदर्घं कृत्वा जातीकुसुमौघं महाकृपापिण्डीतगरनागकेसरपुन्नागैर्वा एतेषामन्यतमेन नवैर्वा महतीं पूजां कृत्वा मालतीकुसुमानां पञ्च पञ्च गृहीत्वा देवीनां ताडयेत् | सभ्रातृसहितानां लक्षत्रयेण | षड्भिः मासैः विद्याधरो भवति | क्षणेन ब्रह्मलोकमपि गच्छति | दिव्यरूपी यथेष्टगतिरन्तरकल्पं जीवति | अन्यकल्पविधानेनापि सर्वलौकिकैः मन्त्रैः सिद्ध्यतीति || अजिता स्वकल्पं भाषते विजया चैव मन्त्रिणी | उभावप्येतौ महादेव्यौ स्वमन्त्रयोनिजौ सर्वकर्माणि कुर्वन्ति पूर्ववत् | किन्तु एतेषामयं विशेषः | विजयायाः पीतपुष्पैः अजितायः रक्तपुष्पैः तद्वर्णैश्चोपकरणविशैषैः सर्वकर्माणि साधयेत् | विजयाप्येवमाहुः | प्रतिमा पीतरक्ता कार्या | पूर्ववत् तथागतमण्डलं कृत्वा तुम्बुरोः सार्थवाहस्य २९०, प्. ५४०) अजितायास्ताम्रमयी रक्तचन्दनमयीं वा मम कल्पे तु रूप्यरागमयी पीतनिर्भासः गोरोचनकुङ्कुमाक्ता च कार्या | तथैव सर्वं पूर्वनिर्दिष्टम् | उभौ परस्परतः देव्यावेवमाहुः | विजया अजिता च | यथाभिलषितमनसेप्सितं सर्वकर्माणि साधय इति || अपराजिता एवमाह | अहमपि कल्पं भाषे | यन्मयोदितं मण्डलेऽस्मिं सर्वं तथैव कर्तव्यं स्वमन्त्रेणैव | श्मशनाङ्गारेण श्मशानभस्मेना वा देवीनां प्रतिमां लिख्य कृष्णपुष्पैरभ्यर्च्य शत्रोर्नामं गृह्य जपेत् गुह्ये प्रदेशे श्मशाने वा | तत्क्षणान्मृयते | उन्मत्तको वा भवति | अपस्मारेण वा गृह्यति | गोत्रोत्सादनं वा करोति | साधकस्येच्छया तत्रैव श्मशाने महामांसं जुहुयात् | अरीन् नाशयति स्तम्भयति शोषयति महाराक्षसेन गृह्णापयति गोत्रोत्सादं वा करोति साधकस्येच्छया | सर्वविषयजनपदं महामार्योपसर्गेण गृह्णापयति पुनः स्वस्थीकरोति | एवं सर्वकर्माणि क्रूराणि परप्राणहराणि सद्योपघातानि | कृष्णपक्षे चतुर्दशीनवम्यष्टमीषष्ठीचतुर्थ्यादिभिस्तिथौ कार्याणि | आदित्याङ्गारकशनैश्चरवारैरहोभिः सर्वकर्माणि सिद्ध्यन्ति | अयत्नेनैव श्मशानाङ्गारं गृह्य चण्डालकपाले नाममालिखेत् प्रतिबिम्बं वा स्त्रियः पुरुषस्य वा लिखेत् | तत्क्षणादेव सन्ध्यन्ति | भगेऽङ्गुलिं दत्वा च प्रतिबिम्बे कपालस्थे तत्क्षणाद् दह्यमाना स्त्री आगच्छति योजनशतादपि | कपालं गृह्य जपद् अदृश्यो भवति | कज्जलं गृह्य अक्षीण्यञ्जयेत् | मदनाग्निना दह्यमाना स्त्री आगच्छति | सर्वकर्माणि कर्तव्यानीति || एवमुक्ता देव्यो भगवन्तं याचयन्ति स्म | तद् वदतु भगवां धर्मस्वामी बुद्धो स्वमन्त्रं च | या चास्माकमनुकम्पार्थं सर्वसत्त्वानां च हिताय सुखाय स्वमन्त्रचर्यात् || अथ भगवां तथागतः शाक्याधिराजतनयः तां कन्यांमीषदवलोक्य भ्रातृसहितामिमां वाचमुदीरयन्ति स्म | न यूयं कन्यका भ्रातृपञ्चमा तथागतस्य गुणमहात्म्यं मन्त्रचर्याप्रभावं श्रोतुं चर्यां वा प्रतिपद्येतुम् | कोऽन्य सदैवके लोके सश्रमणब्राह्मणिकायां पूजायां श्रोतुं चर्यां वा प्रतिपद्येतुम् | वर्जयित्वा उत्पादितबोधिचित्तानां २९१, प्. ५४१) दशभूमिप्रतिष्ठितेश्वराणां बोधिसत्त्वानां सर्वमन्त्रचर्यानिर्हारसमनुप्रवेशसर्वतथागतज्ञानमायाप्रतिविशिष्ट- मूर्ध्वजः कोऽन्यः शक्तः श्रोतुं ज्ञातुं वा निर्देशं मन्त्रचर्यासमनुप्रवेशमाचक्षितुं सर्वसत्त्वानां च प्रकाशयितुम् | वर्जयित्वा तथागतानामर्हतां सम्यक् सम्बुद्धानां तत्प्रतिपन्नानां च सत्त्वानामुत्पादितबोधिचित्तानाम् | न यूयं कन्यकाः ! शक्यथ | तेन हि बोधिचित्तमुत्पादयध्वम् | सर्वसत्त्वानामन्तिके मैत्रचित्ता हितचित्ता भवथेति || एवमुक्त्वा ताः कन्यकाः तृशरणपरिगृहीताः उत्पादितबोधिचित्ताश्च निषण्णा धर्मश्रवणाय तूष्णीम्भूता इति || आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षट्चत्वारिंशतिमः पटलविसराद् द्वितीयसाधनोपयिकमण्डलप्रवेशानुविधिश्चतुःकुमार्यपटलविसरः परिसमाप्तमिति | २९२, प्. ५४२) अथैकोनपञ्चाशः पटलविसरः | अथ ता देवता भगवन्तं शाक्यमुनिं सर्वांश्च बोधिसत्त्वां सर्वश्रावकप्रत्येकबुद्धांश्च त्रिः प्रदक्षिणीकृत्य शिरसा प्रणम्य बुद्धं भगवन्तं निरीक्षमाणाः स्थिताः अभूवं निरीक्षमाणाः समन्त्रतन्त्रकल्पविस्तराणि च | भाषन्ते स्म स्वमुद्राणां चौषध्यो यथाभिमतं भाषन्ते स्म | अनुज्ञाता तथागतेनार्हता सम्यक्सम्बुद्धेन सत्त्वानामर्थाय सर्वमुद्रामन्त्रपटलविसरं भाषते स्म स्वकं स्वकं मुद्रापटलमोषधीनां च कल्पं भाषन्ते स्म || तुम्बुरुः सार्थवाहो एवमाह - आदौ तावद् गन्धेन हस्ताबुद्वर्त्य चन्दनमिश्रेण वान्यैर्वा सुगन्धजातिभिर्देवीनामग्रतः प्राङ्मुखः स्थित्वोदङ्मुको वा वामहस्तेन दक्षिणहस्ताङ्गुष्ठं मुष्टियोगेन गृहीत्वा अवसव्येन भ्रामयित्वा नाभिदेशे स्थापयेत् | मुष्टियोगेन शिरःस्थाने वा न्यसेत् | एष भगवं ! तुम्बुरेः सार्थवाहस्य समयमुद्रा मम | तदेव हस्तौ कर्मार्थसाधका वामहस्तेनाङ्गुष्ठमभ्यन्तरे प्रक्षिप्य दृढं प्रगृह्य मुष्टियोगेन नाभिदेशे न्यसेत् | एष भगवं ! मम जयाया मुद्रा सर्वकर्मकरा | तदेव मुष्टिं तर्जन्यां विकास्य तर्जयेत् | दक्षिणां दिशि सर्वविघ्ना प्रनश्यन्ते | एष द्वितीयो महामुद्रः द्वितीयमङ्गुलिमुत्क्षिप्य पश्चिमां दिशि मावर्जयेत् | एष द्वितीयो महामुद्रः सर्वदुष्टा नागां स्तम्भयति निर्विषीकरणे च प्रयोक्तव्यः | तृतीयमङ्गुलिमुत्क्षिप्य उत्तरायां दिशि आवर्जयेत् सर्वयक्षयक्षीकिन्नरमहोरगकूष्माण्डाश्च वश्या भवन्ति | आकृष्टा एषा तृतीया महामुद्रा भवति | सर्वाशापारिपूरिका | सर्वकर्माश्चाभिमुखा भवन्ति | चतुर्थमङ्गुलिं विकास्य अभ्यन्तरस्थितमङ्गुष्ठं सङ्कोच्य हस्ततले पूर्वायां दिशि आवर्जयेत् | सर्वे देवा वश्या भवन्ति | देवानामग्रतः प्राङ्मुखो भूत्वा दर्शयेत् | सर्वभूता वश्या भवन्ति | सर्वसत्त्वानं च प्रियो भवति | एषा चतुर्था महामुद्रा सर्वकामफलप्रदा | द्वौ हस्तौ संयम्य सर्वमङ्गुलिं विकास्य अञ्जल्याकारेण मूर्धन्यास्पृशेत् | ऊर्ध्वमधश्चावलोकयेत् | आब्रह्मस्तम्बपर्यन्तात् | अधश्च रसातलम् | सर्वदेवदानवां वशमानयति | २९३, प्. ५४३) एष पञ्चमो महामुद्रः सर्वकर्मार्थसाधकः | एतदेव भगवं ! पञ्च महामुद्रा सर्वकामफलप्रदा भवति || विजया एवमाह - पञ्च एव भगवं ! मम महामुद्रा भवन्ति | वामहस्तेनाङ्गुष्ठाभ्यन्तरं कृत्वा यथा नखा न दृश्यन्ते तथा कार्यं दृढं मुष्टिं कृत्वा प्रहारमार्जनयोगेनाधः अवलोकयेत् | एष प्रथमा महामुद्रा | द्वितीयमपि ऊर्ध्वमवलोकने | तृतीयं दिग्दक्षिणमवलोकने चतुर्थं सर्वदिग्ग्रहणे | पञ्चमं शिरसि न्यस्तम् | एत एव पञ्चमहामुद्रा सर्वकामफलप्रदा भवन्ति इति || अजिता एवमाह - उभौ हस्तौ संयम्य उभौ अङ्गुष्ठमध्ये प्रक्षिप्य सुषिरञ्जल्याकारं कृत्वा मध्यमाङ्गुलिसूचिकौ कन्यसाङ्गुलिमुच्छ्रितौ पाशाकारं कृत्वा उभौ तर्जन्यौ तथैव चानामिकाववष्टभ्य अजिता नाम महामुद्रा भवति | दुर्दान्तदमका पुण्या सर्वकर्मार्थसाधकः | तदेव मुद्रं दक्षिणां दिशि मावर्जयेत् | द्वितीया महामुद्रा विजया नाम भवति | एवं पश्चिमायां दिशि मवर्जयेत् | जया नाम महामुद्रा भवति | एवमुत्तरायां दिशि मावर्जयेत् | अपराजिता नाम भवति महामुद्रा | एवं पूर्वायां दिशि मावर्जयेत् | महासार्थवाहो नाम महामुद्रा भवति | एत एव पञ्चमहामुद्राः सर्वाशापारिपूरका भवन्ति इति || अपराजिता एवमाह - पञ्च एव भगवं मम महामुद्रा भवन्ति | पूर्ववत् हस्तौ प्रक्षाल्य कृष्णपक्षे बन्धयितव्याः | तेनैव विधिना यथा साधनेऽस्मिं तथा योज्याः | दक्षिणाभिमुखं स्थित्वा देवीनामग्रतः उभौ हस्तौ संश्लिष्य मध्यमानामिकातर्जन्यादिभिः त्रिसूच्याकारं तृशूलं कृत्वा कनिष्ठिकाङ्गुलिमध्यमङ्गुष्ठौ च मध्ये प्रक्षिप्य हस्ततलेऽस्मिं मूर्ध्नि स्थाने तदा न्यसेत् | प्रथमं महामुद्रः अपराजिता नाम एवं सर्वे प्रयोक्तव्याः | यथा अजितायाः | यन्नामिका भगिन्यः भ्रातृसहिताः तन्नामकाः सर्वेषां महामुद्रा भवन्ति | यदेष हस्ततले एतत् सागरम् | यदेतदङ्गुष्ठं यद् भ्रातुस्तुम्बुरोः यदेतदङ्गुल्यः सर्वे भगिन्यः अनुपूर्वसंज्ञकाः | तर्जनी जया मध्यमा विजया अनामिका अजिता कन्यसा अपराजिता | एतदनुपूर्वक्रमेण पद्भ्यामेव योज्यः | २९४, प्. ५४४) ध्याताः नमस्कृताश्च सान्निध्यं कल्पयन्ति | चिन्तिता नाचिन्तिता मुद्रा भवन्ति | सर्वकर्मकराः सर्वाशापरिपूरकाः विषमस्थे चिन्तयितव्या महामुद्राः | भयं न भवति इति || तुम्बुरुः सार्थवाह एवमाह - अथेषां सामान्यतः अगदाभिधानं भवति | अस्माकं च ओषधीनां प्रभावो येन वश्या भवन्ति सर्वभूताः | कतमं च तत् | अश्वत्थन्यग्रोधशुङ्गां गृहीत्वा क्षीरेण पीषयित्वा गोक्षीरेणालोड्य सितपक्षे अश्विनिनक्षत्रेण इन्दुवारे तिथौ सप्तम्यां पूर्वाह्ने ऋतुमत्याः स्त्रियाया अप्रसवनधर्मिन्याः सार्थवाहमन्त्रेण परिजप्य सप्तवारां तथैव मुद्रां बध्वा पापयेत् पूर्वाभिमुखां कृत्वा नारी गर्भं ग्रहेष्यते | पुत्रं जनयते दीर्घायुष्यं सुपतिना च सह स्वप्तव्यम् | तेषामेव मूलं गृहीत्वा मूलनक्षत्रेणोत्तरायां दिशि गतायां शिलायामादित्यवारेण सूक्ष्मचूर्णानि कारयेत् | यस्य ददाति स वशो भवति आहारपानभोजनादिषु गन्धमाल्यताम्बूलादिषु प्रयोक्तव्यम् | यथा शरीरेषु विशति तथा कार्यम् | स्पृशति वाचा सत्त्वेनोपतिष्ठति | तदेव शुङ्गौ तेनैव विधिना यथा स्त्रिया तथात्मना पिबेत् | स्त्रीशतमपि गच्छति अव्यवच्छिन्नरेतः | तथा स्त्रियामपि बृहल्लिङ्गतामभिनिर्वर्त्तयति | गोर्जरुकः शतपादी वा नरशक्रफलानि तथैव चूर्णमिदं पयसा सह पेयं यस्य गृहे प्रमदाशतमस्ति | एवमनेन प्रकारेण पूर्वमूलां स्वमुद्रां मन्त्रेणोपेताः वजयित्वा विषमुपविषं च सर्वं योज्यम् | सर्वकर्मिषु च सर्वभूतानां वशीकरणमुत्तमं साधनीयाश्चेति || जया एवमाह - जयन्तीमूलं गृह्य तथैव कर्तव्यं यथा तुम्बुरेः सर्वकर्माणि साधयति | अथाकाशगमनमिच्छेत् | जयन्तीमूलं तृलोहपरिवेष्टितं कृत्वा पुष्ययोगेन सोमवारेण शुक्लपक्षसप्तम्यां सपूर्णमास्यां चतुर्दश्याष्टम्यां त्रिरात्रोषितेन शुचिना कुङ्कुममिश्रं कृत्वा मुखे प्रक्षेप्तव्याः | चन्द्रग्रहे मुक्ते अन्तर्हितो भवति | स्वमन्त्रं अक्षरलक्षं जप्त्वा गुडिकां प्रक्षिप्य चन्द्रग्रहे मुक्ते विद्याधरो भवति कामरूपी यथेष्टगत्तिः विंशतिवर्षसहस्राणि जीवति | उद्गीर्णे पुनर्दृश्यति | मानुषे पुनः एवं सर्वकर्माणि करोतीति || २९५, प्. ५४५) विजया एवमाह - किन्तु अयं विशेषः | अगस्तिवन्दाकं गृह्य ज्येष्ठोदकेन दिव्यवारिणा वा पिष्ट्वा स्वमन्त्रेणाभिमन्त्र्य पादौ म्रक्षयेद्योजनशतं गमनागमनं करोति | अखिन्नं यावन्न त्यजते | विजयामूलं गृह्य तथैव कर्तव्यम् | तथा जयायाः सर्वं करोति इति || अजिता एवमाह - अजितमूलं सङ्गृह्य तथैव कर्त्तव्यम् | सर्वं साधयति इति | अपराजिता एवमाह - अपराजितामूलं गृह्य शुक्लकृष्णौ सपत्रफलमूलौ सर्वं तथैव कर्तव्यं यथा सार्थवाहस्येति | किन्त्वयं विशेषः | आशुकारि क्षिप्रं सिद्ध्यतीति | पुत्रञ्जरी कृताञ्जली सहा च सहदेवा च महोषधी | छत्राधिच्छत्रा तथा देवी महाकालश्च विश्रुतः | नाकुली गन्धनाकुल्यौ तथा सङ्कुचितकर्णिका || एतेषां मूलमादाय शूर्जचूर्णानि कारयेत् | अनेन पृष्टमात्रस्तु वशमायान्ति देहिनः || रक्तशालितुषं चैव कुङ्कुमं सहचन्दनम् | कस्तूरिकासमायुक्तं दिव्यवारिसमप्लुतम् || त्रिलोहाकारयेवेष्टं वै गुटिकां कुर्वीत मन्त्रवित् | अक्षमात्रं ततः कृत्वा गुटिकां वक्त्रे तं तां न्यसेत् || चन्द्रग्रहेऽथ रात्रौ वा जपेन्मन्त्रं समाहितः | प्रभाते सिद्धमन्त्रस्तु यथेष्टं याति देहजः || परिवर्तयते जापं वक्त्रस्था गुटिका सदा | यथेष्टपशुरूपी वा समन्ताद्धिण्डति मेदिनीम् || उद्गीर्णे तहा युक्तिः स्वदेही भवति जापधीः | अन्यथा यदि वक्त्रस्था विश्वरूपा भवेत् सदा || स्वमन्त्रेणात्मरक्षं तु कृतजापीं विशिष्यते | अन्यथा हृयते गुटिका यदि रक्षां न करोति जापी || २९६, प्. ५४६) सर्वमन्त्रास्तु सिद्ध्यन्ते मन्त्रराट् सर्वलौकिकाः | पूजनात् सर्वकल्पानां सर्वसर्वैश्च भाषिताम् || तेऽस्मिं सिद्धिमायान्ति मन्त्रतन्त्राभिभाषिताम् | विचरन्ति महीं कृत्स्नां विचित्रा वेषधारिणो || गतियोनिविदेहस्थाः श्वानवायसरूपिणः | मार्जार तथोलूकाः मूषमण्डूकवृश्चिकाः || सर्वयोनिसमाकीर्णाः विदेहा देहविस्थिताः | पर्यटन्ति महीं कृत्स्नां सर्वभूतरुताविनः || सर्वसत्त्वे वशा वेषा सर्वभूते प्रियोदया | कुर्वन्ति च सदा मर्त्या तदा तेषां नियोजयेत् || नान्येषां कथ्यते लोके पूजिताश्चैव देवतैः | सर्वं च सर्वतो ज्ञेयं सर्वमन्त्रप्रसाधकम् || कथितं कथयिष्यन्ति ये चान्ये भुवि मानवाः | तत् सर्वं कल्पविसरं इह चोक्तं लोकमातरैः || एवमुक्तास्तु देवा वै सूत्रान्तसहपञ्चमाः | तूष्णीम्भूता ततस्तस्थु प्रणम्य जिनपुङ्गवम् || निषण्णो धर्मश्रवणाय तस्मिं पर्षद्वरेद्वरे | अधिष्ठानां च बुद्धानां अशेषाणां च जिनात्मजाम् || अध्येष्य च महावीरं तूष्णीम्भूतास्तदनन्तरे | अथ वज्रधृक् श्रीमां पूजयामास देवताः || साधुकारमदात् तेषां सत्त्वानुग्रहकाम्यया | साधु साधु ततः कन्य समये तिष्ठध्व यत्नतामिति || आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तचत्वारिंशतिमः पटलविसरात् तृतीयः चतुःकुमार्योपयिकसर्वसाधनजपनियममुद्रा- ओषधितन्त्रमन्त्रसर्वकर्मपटलविसरं परिसमाप्त इति || शुभं भूयात् || ########### END OF FILE #######